मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 608, कुल 804 में से
संदर्भ में पढ़ें५५४ मीमांसादर्शनम् [ सू० तेष्विति । अतस्तेष्वित्यध्याहारेण योज्यम् । एवकारार्थस्य वा शब्दस्य व्यावत्त्यमाह— नन्विति । ननु कतिपयानामपि तावद्वैदिकशब्दानामुच्चारणनियामकत्वात् व्याकरणानामपि प्रयोगशास्त्रताऽस्तीत्याशङ्कयाह—प्रातिशाख्यानीवेति । अन्वाख्यायमानेष्वपि वैदिक- शब्देष्वध्ययनानुगतस्वरसन्ध्यादियुक्ते रूपे व्यापाराभावान्नँषां प्रयोगशास्त्रताऽस्तीति नियामकत्वाद्व्याकरणानामपि प्रयोगशास्त्रतास्तीति परिहरति—नेति । प्रातिशाख्यानां वेदस्वरूपे व्यापारं विवृणोति—प्रातिशाख्यैः पुनरिति । उदात्तपौर्वापर्यत्वे तयोर्मध्ये कालः स्वरसन्धिः, सर्वानुदात्तपदसंहतिः प्रयत्नः असंहिता विवृतिः स्वरितस्योदात्तोऽंशः पूर्वाङ्गः, अनुदात्तः पराङ्गः आदिशब्देनाङ्गाद्युक्तम् । एवं तावद्वेदकरणाध्ययनविधायक- त्वान्नास्यागमस्य व्याकरणं प्रत्यनुष्ठापकत्वरूपप्रयोजकत्वान्नास्य किमपि प्रयोजनत्वम् - सम्भवतीत्युक्तम् । इदानीमस्यागमस्य व्याकरणाध्ययनविधायकत्वेऽपि निष्कारणशब्देनाध्ययनमात्रपर्य- वसानादसायादर्थज्ञाननिरपेक्षाध्ययनमात्रेण शब्दानामनुशासितुमशक्यत्वाच्छब्दानुशासनस्य रक्षोहागमलध्वसन्देहाः प्रयोजनमिति पूर्वोक्तेन प्रतिज्ञानेन तव प्रयोजनत्वेनाभिमतस्या- गमस्यानुसन्धानसंवादो नास्तीत्याह—पूर्वोक्तेनेति । यो ह्ययमागमस्त्वया प्रयोजनत्वे- नोपन्यस्तः । सोऽध्ययनं प्रति तन्मात्रे पर्यवस्यति, न शब्दानुशासनपर्यन्तं गच्छति, प्राक्शब्दानुशासनमागमप्रयोजनत्वेन प्रतिज्ञातमित्यध्याहारेण योज्यम् । अस्माच्चागमाद- ध्ययनमात्रे धर्म इति प्रतीतेर्महाभाष्यकृता ज्ञाने धर्म इति वक्ष्यते । शास्त्रपूर्वं प्रयोगेऽभ्युदय इति च वार्तिककृता । तदुभयमप्यागमविरुद्धं स्यादित्याह—ब्राह्मणेनेति । यच्च लघवार्थं चाध्येयं व्याकरणमित्यादिभाष्येण लघुनोपायेन शब्दज्ञानं व्याकरणस्य प्रयोजनमित्युक्तम् । तत् अत्यन्तक्लिष्टत्वेन व्याकरणस्य लघूपायत्वायोगात्प्रयोजनात्तिक्लिष्ट- व्याकरण।ध्ययनमध्येतुलंघिवं मन्दबुद्धित्वमापादयतीत्यह्येतुल्लाघवमेवास्य प्रयोजनमित्येवं व्याख्येयमित्युपहसति—यद्यपि चेति । उपहासान्तरमाह—यदि वेति । श्लोकं व्याचष्टे— लोकप्रसिद्धानामेवेति । धातुशब्देन धातुपाठो विवक्षितः । गणशब्देन गणपाठ उणादिशब्देन दशपादी पञ्चपादी वा । सूत्रशब्देनाष्टाध्यायी । आदिशब्देन वार्त्तिकादीनां तेषां पाठतोऽर्थतश्च क्लिष्टत्वादत्यन्तवैषम्यं विशेषणं क्लिष्टार्थत्वोपपादनायोत्तरवदत्रापि विग्रह- द्वयम् । अलौकिकीमिवृद्धिरादैजित्यादिभिः संज्ञाभिः, इको गुणवृद्धीत्याद्याभिश्च परिभाषा- भिर्निबद्धा प्रक्रिया येषां धात्वादीनामिति प्रथमविग्रहः, द्वितीयस्त्वनवस्थितौ स्थापनाक्षेपौ यस्य सिद्धान्तस्य स सिद्धान्तो यस्य विचारस्य, स विचारो येषु धात्वादिष्विति द्वन्द्व- गर्भबहुव्रीहिगर्भो बहुव्रीहिः । तद्यथा सिद्धे शब्दार्थसम्बन्धे इति शास्त्रारम्भवार्त्तिके भाष्यकृता सिद्धे शब्देऽर्थे सम्बन्धे चेति विग्रहं कृत्वा नित्यपर्यायवाचित्वेन सिद्धशब्दं व्याख्यायं कं पुनः पदार्थं मत्वैष विग्रहः क्रियत इति विचारमुपक्रम्य, आकृतिमित्याहेत्या- कृत्यभिप्रायत्वं प्रतिज्ञायाः, आकृतिर्हि नित्या, द्रव्यमनित्यमिति हेतुमुक्तवाऽथ वा द्रव्यपदार्थं एष विग्रहो द्रव्यं हि नित्यमाकृतिरनित्येति द्रव्यार्तानन्द्रियत्वमुक्त्वा पुनराकृतावपि पदार्थं