भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 607, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 607

२४ ] प्रथमाध्याये तृतीयपादः ५५३ प्रकरणस्य विनियोजकत्वे फलसंयोगाभावो हेतुः । साकाङ्क्षफलवत्सन्निधानं रूपं फलवति विनियोजकत्वे सादृश्यं हेतुः । निराकाङ्क्षफलवत्सन्निधानं रूपं फलवत्याकाङ्क्षो- त्थापनेन विनियोगः फलम्, सामान्यतः प्राप्तिः समाख्याया विनियोजकत्वे हेतुः-यौगिक- शब्दत्वं रूपं प्रतियोगिनि विनियोगः फलमिति । पृथग्भूतैर्हेतुरूपफलैः प्रविभक्तरूपेण श्रुत्यादिज्ञानं मीमांसानिरपेक्षाद्वेदाध्ययनमात्रान्न सिध्यतीत्याशयः । ज्ञात्वेति च ज्ञास्यामीत्य- व्यवसायैत्येवमग्निनष्टोमसाम कृत्वेतिवद्व्याख्येयम् । विधेरर्थमित्यनेन षडङ्गो वेदोऽध्येयो ज्ञेयश्चेत्यागमस्य वेदः पठितव्यः । स च परस्परविविक्तश्रुत्यादिषडङ्गरूपेण ज्ञेय इत्यर्थः । सूचितं मीमांसाधीनत्वं चास्यार्थस्य न इत्यस्मदा सूचितम् । ननु ज्ञेयशब्दस्य षडङ्गशब्दान्वये धर्मशब्दस्यानन्वयापत्तेनर्नान श्रुत्यादीनां चोक्तरूपेण ज्ञानं विधीयत इत्याशङ्क्य अध्येयशब्दस्यैवेण् गतावित्येतद्धात्तुरूपत्वाङ्गीकरणेन ज्ञान- विधायकतेति व्याख्यानान्तरमाह-अधीति । अकारप्रश्लेषरहितेन वानेन ध्यानं विधीयत इति तृतीयं व्याख्यानमाह-ध्यायतेरिति । अध्ययनविधित एव नान्तरीयकतायाध्ययन- सिद्धेर्विधानानर्थक्यमित्याशङ्क्य श्रुत्याद्युपायार्थप्रतिपादकत्वरूपेण षडङ्गस्य वेदस्य ध्यानं विवक्षितम्, न स्वरूपेण तस्यापि च वेदार्थविधारणकालसिद्धत्वात्पश्चादप्यनुष्ठेयत्वसिद्धयर्थं विधानमिति दर्शयितुमाह-श्रुत्यादीति । एवं च मीमांसाध्ययनानुष्ठापकतेवास्यागमस्याव- सोयते, न व्याकरणाध्ययनानुष्ठापकतेत्यनुष्ठापकत्वेनागमस्य व्याकरणप्रयोजनत्वाभिधा- न युक्तमित्याह-ततश्चेति । अनुष्ठानाधंत्वाद्वा विधिवाक्याध्ययनमात्रेण स्वाध्यायविध्यर्थ- सिद्धेरर्थवादान्तर्गतव्याकरणाद्यङ्गसहितवेदाध्ययनविधानाथंत्वेनास्यागमस्य न पाणिन्‍यादि- प्रणीतग्रन्थाध्ययनानुष्ठापकतास्तीति चतुर्थी व्याख्या तामाह-वेद इति । श्लोकं व्याचष्टे- तद्दध्न इति । तदेनमधिनोत्त्तद्दध्नो दधित्त्वमिति धिनोतेः प्रीणातिकर्मणो दधित्त्वशब्दनिर्व- चनादेतन्निरुक्तोदाहरणम् । तदाहुर्यदन्यो जुहोत्यथ योऽनुवाहयति, तं च कस्मान्न होतेत्या- चक्षत इति पृष्टे यद्भाव स तत्र यथाभाजनं देवता अमुमावहामुमावहेत्यावाहयति तं देवहोतुर्होतृत्वमिति ह्वयतेः कृतसम्प्रसारणस्यैतद्रूपम् न तृजन्तं जुहोतेरिति प्रकृतिविशेषा- न्वाख्यानाच्च व्याकरणोदाहरणम् । आदिशब्दोपात्तस्य छन्दोविचित्यादेरष्टाक्षरा गायत्रीत्याद्युदाहरणं यथासम्भवं मृग्यम् । अस्तु वा निरुक्तादिग्रन्थानां षडङ्गाध्ययनस्मृतिविषयत्वम् । ननु व्याकरणस्य प्रातिशाख्यैः पूरयिष्यत इति पञ्चमीं व्याख्यामाह-प्रातिशाख्यानि वेति । यानि प्रातिशाख्यान्यध्येतारोऽधीयते । तेष्वेव षट्संख्यापूरणार्थं सङ्गतम्, न व्याकरणेष्वित्येवकारार्थे द्वितीयो वाशब्दः । गृह्यमाणं लिङ्गेन स्वाध्यायार्थत्वं ह्येषामिति हेत्वर्थः; वेदसंहिताध्ययनानुगतस्वरसन्ध्याद्यनुसारामिधानार्थंः । स्वाध्यायत्ववदिति वतिः स्वाध्यायानुगतस्वराद्युच्चारणनियामकत्वरूपं प्रयोगशास्त्रत्वं तादर्थ्यग्रहणहेतुतया स्वाध्याय- वदित्यनेनोक्तमुपपादयति-यानि हीति । तदुपपादितं गृह्यमाणतदर्थत्वं व्याचष्टे-