भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 606, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 606

५५२ मीमांसादर्शनम् [ सू० मलध्वसन्देहाः प्रयोजनमिति सकृच्छ्रुतस्य प्रयोजनशब्दस्य रक्षादौ फलपरत्वम्, आगमेऽनुष्ठापकपरत्वं न युक्तमित्याशयः । एतदेव विवृणोति -- सर्वैश्च हीति । न चागम- प्रयोजनत्वाभिधानेन लक्षणया धर्मज्ञानाख्यमागमोक्तं प्रयोजनमभिमतमित्याशङ्कते - अथेति । षडङ्गवेदाध्ययनवद्धर्म्मज्ञानस्याप्यनुष्ठेयत्वमनेनागमेनोक्तम्, न प्रयोजनत्वममिति मत्वा परिहरति - तदपीति । नन्वेकस्मिन्वाक्ये विधिद्वयायोगाद्धर्म्मस्य ज्ञेयत्वाभिधानं प्रयोजनत्वेनैव व्याख्येयमत आह - निष्कारणतयेति । श्रेयःसाधनत्वेन धर्म्मस्य निष्प्रयोजनत्वायोगात्रिष्कारणशब्दस्य षडङ्गशब्देनैवान्वयात्पौरुषेयेषु च वाक्यभेदस्यादोषत्वादित्याशयः । एतदेव विवृणोति - निष्कारणेति । कार्य्यतेऽनुष्ठाप्यतेऽनेनेति व्युत्पत्त्या प्रयोजनवचनोऽयं कारणशब्द इति वक्तुं निष्प्रयोजनत्वशब्दः । अवेदत्वाच्चास्यागमत्वं नास्तीत्याह-आगम इति । नन्व- वेदत्वेऽपि वेदमूलत्वेनागमत्वं भविष्यतीत्याशङ्क्याह -कथं चेति । नन्वेवं तर्हि तस्याः स्मृतेर्वेदमूलत्वाभावे वेदाध्ययनस्यावैधत्वं स्यादित्याशङ्क्याह तस्मादिति । न च केवल- वेदविषयस्य विधेर्नित्यानित्यसंयोगविरोधोऽस्तीत्याह- उपपन्नं चेति । ननु व्याकरणादेरपि प्रवाहानित्यत्वात्रित्यविधिविषयत्वं विरोत्स्यत इत्यत आह - व्याकरणादीति । प्रत्यक्ष- श्रुतिविषयत्वं सति तदन्यथानुपपत्त्या प्रवाहानित्यत्वं कल्प्येत, तदभावेऽप्यपस्मृतित्वेनाप्यु- पपत्तेर्न कल्पनागौरवाश्रयणं युक्तमित्याशयः । न चास्य वेदत्वेन, तत्तुल्यत्वेन वा स्वयमागमत्वं सम्भवति, कल्पसूत्राधिकरणे निरस्तत्वादित्याह - न चेति । किं च प्रधानं च षडङ्गेषु व्याकरणमिति भाष्येण वेदाङ्गत्वाद्याकरणस्यैतदागमप्रयोजनत्वमुक्तम् । अङ्गशब्दश्च तादर्थ्यवाची वा स्यात्, अवयववाची वा नोभयथापि व्याकरणस्याऽङ्गतास्ती- त्याह -- न चेति । उभयरूपाभावमुपपादयति --श्रुतीति । कस्तर्ह्यस्याः स्मृतेरर्थ इत्यपेक्षा- यामाह - तस्मादिति । लिङ्गादिरशब्दरूपत्वेऽपि तत्कल्प्यानां श्रुतीनां वेदावयवत्वं भविष्यती