मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 605, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५५१ असन्निहितार्थस्य व्रीह्यादिपदस्य निवृत्त्या हेतुभूतया न्यूनत्वात्साकाङ्क्षं यद्व्रीहीणां मेधेत्यादिमन्त्रवाक्यम्, तस्य निराकाङ्क्षीकरणायेति विग्रहः । द्रव्यादेर्हि श्रुतिसमवायित्वा- भावेन विधिगतशब्दप्रयोगनियमाभावात्कर्मविधानाथंस्यैव शास्त्रस्य शब्दप्रयोगोत्पत्ति- शास्त्रत्वानुपपत्तेर्मन्त्राम्नानरुपेण वा शास्त्रेण प्रयोगोत्पत्तेः शास्त्रवत्त्वं वाच्यम् । व्याकरणा- ख्येन वा तत्र मन्त्राम्नानं तावद्विकृतौ नास्तीत्याह—प्रकृतौ हीति । व्याकरणस्य च सम्भाव्यमानमूलशास्त्रत्वात्कृतकत्वादिदोषग्रस्तत्वात्पौरुषेयत्वेन चानादियज्ञगतशब्दविषयत्वायोगात् प्रयोगोत्पत्तिशास्त्रत्वं युक्तमित्याह—व्याकरण- स्यापीति । कृतकत्वस्यानप्रणीतत्वाशङ्कापादकत्वेन दोषत्वं व्याकरणानुगतशब्दप्रयोगनि- यामकत्वाभावेन--अविधायकत्वस्योक्तम् । इत्युपसंख्यानानादिशब्दोपात्तानां च वक्तव्यानाम्, आचार्यसूत्राणां च दीधीवेवीटामित्यादीनां प्रत्याख्यानम्, सूत्रवार्तिकभाष्याणां परस्परविरोधे विशेषाग्रहेण इदमेव प्रमाणमित्यनिश्चयादनवस्थितं प्रमाणत्वं विकरणस्य केचित्प्रकृत्यन्तर्भावमिच्छन्ति, अन्ये प्रत्ययान्तर्भावमिति, यथारुचि कल्पितं प्रकृतेः प्रत्ययस्य वा परिमाणं धातुप्रातिपदिकादिलक्षणदूषणान्यादिशब्देनोपात्तानि ! सत्यप्याप्तप्रणीतत्वे नित्यानित्यसंयोगविरोधेनानादियज्ञगतशब्दविषयत्वं निराकृतम् । ऊहस्यान्यतः सिद्धेर्व्याकरणप्रयोजनत्वासम्भवमुपसंहरति—तेनेति । प्रकृतिविकृति- विभागज्ञानम्, कर्मज्ञानम्, प्रकृतौ द्रव्यदेवतामन्त्राणां विकृतौ द्रव्यदेवतान्तरस्य, प्राकृतानां च मन्त्राणां ज्ञानं कर्माङ्गज्ञानं ऽकृतापूर्वप्रयुक्तत्वम्, कार्यातिदेशेन च विकृति- गमनं वैकृतानां चाङ्गानां प्राकृतकार्यापत्तिज्ञानम्, वाक्यार्थज्ञानं तेषु कौशलैः कर्तव्यतया लोकवेदप्रयोगाश्च स्वरूपेणोत्तसिद्धेर्व्याकरणानर्थक्यमित्यर्थः । व्याकरणतः सिद्धेरप्यूहस्य, तत्प्रयोजनत्वं न युक्तमित्युपपादयितुं व्याकरणपर्यालो- चनया कर्त्तव्यत्वेनावगतस्योहस्य मीमांसानुसारेणापवादः कल्पसूत्रव्याख्यातृभिः कृत इत्याह - अपि चेति । देव्याः शमितार आरभध्वम् इत्यादिः पशुविशसनप्रैषमन्त्रः अध्रिगुशब्दवत्त्वेनाध्रिगुरुच्यते तत्र पुराणन्यायादीन्यङ्गानि । अन्वेनं मातेत्यादीनि ज्ञातिनामानि । श्येनमस्येत्याद्या उपमाः । सूर्यं चक्षुरित्यादीनीन्द्रियाणि । यज्ञपतिशब्द- वत्पारार्थ्येनैषामन्येरूहविषयैवैषम्यान्नाध्रिगावूह्यते इत्यर्थः । यथागमः खल्वपीत्युपक्रम्य ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति स्मरणमावश्यकधर्मज्ञानार्थम्, षडङ्गवेदाध्ययनविधानार्थं व्याकरणाध्ययनप्रयोजनत्वेनो- पन्यस्तम् । तत्प्रयोजनं प्रयोजनिमाववैपरीत्येन दूषयति - आगम इति । यथा वेदाध्ययनं प्रति प्रयोजनभूतानां कर्म्मणां नाध्ययनं प्रयोजनं तथा षडङ्गवेदाध्ययनविधायकमागमं प्रति प्रयोजनभूतस्य व्याकरणाध्ययनस्य नागमप्रयोजनमित्युपालम्भार्थः । न त्वागम- प्रयोजनत्वप्रतिपादकं भाष्यमनुष्ठापकत्वाभिप्रायं व्याख्यातृभिव्र्याख्यातं तत्कथं फलपरत्वं प्रयोजनशब्दस्यारोप्य दूषणमुक्तमित्याशङ्कानिराकरणार्थः फलपदप्रयोगः । रक्षोहाग-