मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 604, कुल 804 में से
संदर्भ में पढ़ें५५० मीमांसादर्शनम् [ सू० रूपस्योहस्य, सामविषयस्य वोत्तराकृता वृद्धतालव्याश्रितापि भावरूपस्य व्याकरणानपेक्ष- त्वेऽपि, मन्त्रोहस्य वैयाकरणाधीनत्वेन महाभाष्यकृतोक्तस्य शब्दरूपत्वाद्वैयाकरणापेक्षा भविष्यतीत्याशङ्क्य, व्रीह्यादिसम्बन्धित्वेनावगतानां धर्माणं नीवारादिसम्बन्धित्वापादक- रूपवितर्कात्मकस्योहरूपस्य मन्त्रविषयेऽप्यूहे साम्याद्वितर्कणायाश्च मीमांसाधीनत्वान्न वैयाकरणापेक्षेति—मन्त्रशब्देनोक्तम् । ननूह्यानूह्यविभागस्य मीमांसाधीनत्वेऽप्यूह्यपदस्वरूपज्ञानं वैयाकरणापेक्षं भविष्य- तीत्याशङ्क्याह एतावतीति । ननु कथं साध्वसाधुशब्दविवेकानभिज्ञस्य योग्यपदलाभ इत्याशङ्क्याह -- वेद एव हीति । यत्किञ्चिच्छन्दोहेनापि वा मन्त्रवाक्यनैराकाङ्क्ष्यसिद्धेनं योग्यपदादरो युक्त इत्याह— अथ वेति । एतच्च देवतापदव्यतिरिक्तविषयमुक्तम्, तेषां विधिगतपदव्यतिरेकेण साधून मप्य- प्रयोज्यत्वादिति दर्शयंश्लोकं व्याचष्टे--देवतेति । आग्नेयादियोगाङ्गभूतेष्वावाहनादिषु निगमनस्थानेषु किं येन केनचित्पर्यायेण देवताभिधेया; अथ वा विधिगतेनैव शब्देनेति सन्दिह्य येन केनचिदर्थसिद्धेरनियमे प्राप्ते देवतायाः प्रतिग्रहादिव्यापाराभावात्स्वरूपेण कर्म्मसमवायानुपपत्तेः शब्देनाग्निमुद्दिश्य हविस्त्यजेदिति विध्यर्थावगमात्केन शब्देनेत्य- पेक्षायां बुद्धिस्थाग्निशब्दातिक्रमे कारणाभावादग्निशब्देनैवाग्निमुद्दिशेदिति विधिगतेनैव शब्देन देवतात्वविधानान्मन्त्रकार्ये तस्यैवोच्चारणं कार्यमिति 'विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदने (१०.४.२३) इति सूत्रोक्तदशमिकन्यायेन विधिगतप्रयोगानुसारेणैव विकृतौ देवतापदान्यूह्यमानानि प्रयोक्ष्यन्त इत्यर्थः । ननु सौर्यं चरुमिति विधौ प्रातिपदिकमात्रश्रवणादग्नये जुष्टमिति चतुर्थ्यन्ताग्निपद- स्थाने सूर्य्यपदं कीदृशं प्रयोज्यमिति व्याकरणं विना न ज्ञायत इत्याशङ्क्य तद्वाक्य- शेषेत्युक्तम् । तस्य विधिवाक्यस्य शेषे वाक्यान्तरे वा 'महोदेवाय सूर्याय शंसतेत्यादौ यदधिगतमर्थाभिधानमित्यन्तेनेत्यर्थः । नन्वेवं सति शब्दव्यवस्थायामपि प्रयोगोत्पत्तिशास्त्रत्वदर्शनात्कथं तेनाप्यव्यवस्थासिद्धि- रित्याशङ्क्य—तेषु हीत्युक्तम् । किं विषयं तह्यं व्यवस्थितोह्यपदप्रयोज्यत्वाभिधानमित्य- पेक्षिते—यानित्युक्तम् । पौण्डरीके 'वर्हिषि दर्भेस्तृणोत हरितैः सुपर्णैरित्यतिदेशप्राप्ते मन्त्रे दर्भपदस्थाने पुण्डरीकैरिति द्रव्यपदमादिशब्दात्सुपर्णस्थाने पुण्डरीकावयववाचिपदम् । एवं व्रीहिणां मेधः सुमनस्यमान इत्यादी यथासम्भवं नीराणामित्यादीनि यथासम्भवं द्रव्यादिपदान्युदाहार्याणि । ननु नीवारादिपदव्यतिरिक्तानां तत्पर्यायाणां साध्वसाधूनां मानाप्राप्तत्वेनाप्रतीतरूपाणां प्रयोगविधिविषयत्वाभावात्प्रयोगानुपपत्तेर्नाव्यवस्था युक्तेत्या- शङ्क्य — सन्निहितेत्युक्तम् । सन्निहितेन नीवारादिविधितः प्रतीतेन नीवारादिनार्थेन पर्युपस्थापितानि समस्तानि पर्यायभूतानि साध्वसाधूनि रूपाणि येषामिति विग्रहः । पूर्वमेव तर्हि नीवाराद्यर्थस्य स्मृतत्वान्नीवारादिपदोहोऽनर्थकः स्यादित्याशङ्क्य—असंन्निहितेत्युक्तम् ।