मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 603, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५४९ ननु प्रकृतिमन्त्राणां मुख्यत्वादिरूपेण प्रयोगे सत्यपि विकृतावर्थान्तरयुक्तायामतिदेशेन प्राप्तानां तदीयद्रव्यदेवतादिप्रकाशनसामर्थ्येन प्राकृतकार्यार्थत्वायोगादातिदेशिकवचनवशात्का- र्यान्तरकल्पनैवोचिता, नोहेन प्राकृतकार्यसामर्थ्यकल्पनेत्याशङ्क्य विकारेषु कार्यातिदेशतो गता-इत्युक्तम् । प्राकृतकार्यनिरपेक्षेण पदार्थातिदेशे, शास्त्रातिदेशे वा कार्यान्तरकल्पना युज्येत । वैकृतभावनाकाङ्क्षावशात्तु करणोपकारलक्षणकार्यद्वारस्यैवातिदेशस्य दशमाद्ये वक्ष्यमाणत्वान्न कार्यान्तरकल्पनेत्याशयः । कार्यद्वारातिदेशेऽपि कार्यान्तरार्थं व्रीह्यादौ व्रीहीणां मेधेत्यादिमन्त्रप्रयोगस्यैवाभावा- त्प्राकृतकार्यार्थत्वेऽप्यर्थान्तरत्वाभावेना विकृतस्यैव प्रयोगोपपत्ते रूहाभावात्प्राकृतकार्यतापत्तेश्च- अर्थान्तरेष्वित्युक्तम् । कथं कार्यापत्त्यवगतिरित्यपेक्षायाम् - पञ्चधेत्युक्तम् । १ नैवारश्चरु- रिति विकारतद्धितेन नीवाराणां चरुप्रकृतित्वाभिधानात्प्रत्यक्षविधिना प्रदेयप्रकृतित्वलक्षण- व्रीहिकार्यापत्तिरवसीयते । २ संस्थिते षडहे मध्वाशयेद् घृतं वेति मधुघृताशनयोः षडहा- भावे विधानात्प्रत्यक्षविधिना षडहकार्यापत्तिः । ३ सत्रायावगूर्य विश्वजिता यजेतेति वा सत्राभावे, विश्वजितो विधानात्सत्रकार्यापत्तिः । ४ नैवारश्चरुर्नखावपूतानामिति वैतुष्य- लक्षणविकारफलकनलुंछनापरपर्यायावपनाङ्गत्वेन नखानां विधानाद्विकारेण वैतुष्यो- त्पादनलक्षणोलूखलमुसलकार्यापत्तिः । ५ परिधौ पशुं नियुञ्जन्तीति परिधेर्नियोजने विधा- नात्स्वशब्देन विनियोजनलक्षणरूपकार्यापत्तिः । न गिरागिरेति ब्रूयादैरं कृत्वोद्गेयमितीरा- पदविध्येकवाक्यतया गिरापदस्य निषेधानुवादावगतेरकार्थत्वाभावे चेरापदेन गिरापदबाधा- योगान्निषेधानुवादानुपपत्ते र्निषेधानुवादेन गिरापदकार्यापत्तिरिति पञ्चप्रकारत्वम् । प्रत्यक्ष- विधिनाऽभावे विधानेन, विकारतः, स्वशब्दाच्च निषेधानुवादात्तत्कार्यकारितेति संग्रहश्लोकः । ननु व्रीह्यादिकार्याथ तेष्वपि नीवारादिषु व्रीह्यादिप्रकाशनार्थानां मन्त्राणां व्रीह्यादि- स्वरूपस्याभावेनाप्राप्तेर्नोहः स्यादित्याशङ्क्य - अपूर्वार्थद्वारेणेत्युक्तम् । स्वरूपप्रयुक्तत्व- निराकरणेनाऽपूर्वप्रयुक्तत्वस्य नवमाद्ये वक्ष्यमाणत्वान्नीवारादिषु व्रीह्यादिस्वरूपाभावेऽपि व्रीह्यादिलक्षितापूर्वार्थत्वसद्भावात्तद्द्वारेणास्ति प्राप्तिरित्याशयः । नन्वर्थान्तरेष्वप्यूहेन मन्त्राणां प्रयोगोपपत्तौ याज्यानुवाक्ययोरनुपदेशे गायत्र्यादिना लक्षणेनानुवाक्याकल्पनवचनम्, त्रिष्टुभादिना च लक्षणेन याज्याकल्पनवचनं तादृशलक्षण- योश्चासम्भवेन असञ्ज्ञकयोनिमामश्रृणुधीहवं स्तीर्णं बर्हिरानुषासवेत्तदित्यनयोरिरागमवचन- मनर्थकं स्यादित्याशङ्क्य - अनिषिद्धोहा इत्युक्तम् । पूयति वा एतद्यज्ञोऽक्षरम्, यदेतदूह इति तस्मादृचं नोहेदित्यादावूहनिषेधान्न देवतान्तरवत्यां विकृतौ प्राकृतयोर्याज्यानुवाक्ययोः प्राप्तिः सम्भवतीत्याशयः । न माता वर्द्धते, न पितेति तु यज्ञपत्नियायप्राप्तनिषेधानुवाद- त्वान्नोदाहरणम् एवम्भूतस्य वोहोपपत्तिकलापस्य मीमांसागम्यत्वादस्माकमेवोहः सिद्ध्यति, न वैयाकरणानामिति-न इत्यनेनोक्तम् । न त्ववघातादिसंस्कारविषयस्य दृढादृढप्रहारादि-