भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 611, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 611

२४ ] प्रथमाध्याये तृतीयपादः ५५७ ननु मूलप्रमाणानिरपेक्षस्य व्याख्यानमात्रस्य निर्णायकत्वं न युक्तमित्याशङ्क्यः, त्वयाऽपि व्याख्यानिर्णायकत्वाभ्युपगमान्नेदं दूषणमित्याह—अपि चेति । लक्षणोत्थसन्देहे व्याख्यानस्य निर्णायकत्वप्रतिपादकं भाष्यं वेदोत्थसन्देहेन योजयितुमाह-व्याख्यानत इति । भाष्यकृता हि शास्त्रारम्भवार्त्तिकगतस्य सिद्धशब्दस्य (एकपरिहारयुक्तानि सार्थत्वमुपपाद्य चतुर्थः परिहारोऽभिहित इत्यन्वयः सिद्धशब्दस्य१) कः पदार्थ इति पृष्ट्वा सिद्धा द्यौः सिद्धा पृथिवी सिद्धमाकाशमिति नित्येषु प्रयोगान्नित्यपर्यायवाची सिद्धशब्द इत्युक्त्वा, सिद्ध ओदनः, सिद्धः सूपः, सिद्धा यवागूरिति कार्येष्वपि प्रयोगात्कथं निर्णयः इत्याशङ्क्य, संग्रहे तावत्कार्यप्रतिद्वन्द्विभावप्रसिद्धमिति भाष्येण संग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे किं कार्यः शब्दः सिद्धो वेति कार्यप्रतियोगित्वेन नित्यार्थत्वावसायादिहापि तदर्थ्यनिर्णय- इत्येकं परिहारमुक्त्वा, अथ वा सन्त्येकपदान्यप्यवधारणानीति भाष्येणाब्भक्षो वायुभक्ष इतिवत्सिद्ध एव न साध्य इत्यवधारणेन नित्यार्थत्वमुपपाद्य, अथ वा पूर्वपदलोपोऽत्र द्रष्टव्यः । अत्यन्तसिद्धः सिद्ध इति तद्यथा देवदत्तो दत्त इति सत्यभामा भामेति भाष्येणा- त्यन्तत्वविशेषणेन नित्यार्थत्वमुपपाद्याथ वा व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादल- क्षणमिति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्याम इति भाष्येण चतुर्थः परिहारोऽ- भिहितः । ननु लक्षणोत्थसन्देहनिवृत्तिर्लक्षणकारपुरुषकृतव्याख्यानपरम्परयोपपद्यते, वेदे तु कर्तृभावेन तत्कृतस्य व्याख्यानस्य मूलत्वायोगात् व्याकरणं वेदव्याख्यापरम्पराया मूलं भवतीत्याशङ्क्याह-न चेति । कल्पादिभ्यो वेदार्थग्रहणे व्याकरणमात्रेण व्याख्यानाशक्तेः कल्पादीनामेव मूलत्वं युक्तमित्याशयः । वेदवदनादित्वात् व्याख्यानपरम्परा न मूलान्त- रमपेक्षत इत्याह-यथैवेति । ननु भाष्यकृता यदि पूर्वपदप्रकृतिस्वरत्वम्, ततो बहुव्रीहिः । अथ समासान्तो- दात्तत्वं ततस्तत्पुरुष इति भाष्येण बहुव्रीहौ प्रकृत्या पूर्वपदमिति बहुव्रीह्या- द्यस्य पदस्य प्रकृतित्वाभिमताद्युदात्तस्वरत्वस्मृतेरुदात्ताधिकारे चान्तोवत्या इत्यतोऽन्त इत्यनुवर्त्तमाने समासस्येति सूत्रेण समासविशेषनिर्णयान्तरेभूतसंगः अन्तोदात्तत्वस्मृतेरनुदात्तं पदमेकवर्जमिति च विहितस्वरवर्जनमुदात्तत्वस्मृतेर्बहुव्रीहिं विना आद्यपदोदात्तत्वायोगा- द्व्याकरणस्य समासविशेषनिर्णयद्वाराथंविशेषनिर्णायकत्वाभिधानाद्व्याकरणस्य निर्णायक- त्वाभिधानाद्व्याकरणाधोनादध्येतृप्रसिद्धाद्युदात्तत्वाद् बहुव्रीहित्वेन स्थूलपृषत्यादिशब्द- व्याख्येत्याशङ्क्याह-न चेति । श्लोकं व्याचष्टे - वृद्धेति । वेदे तु स्वरविवेके सत्यप्यर्थ- विशेषेण सह स्वरविशेषस्य सम्बन्धग्रहणाभावान्न स्वरविशेषं कृत्वाऽर्थविशेषव्यवस्था युज्यत इत्याह-यत्र त्विति । ननु वेदे सम्बन्धग्रहणाभावेऽपि लोक्तोऽनेकार्थतयाऽवगतस्य पदस्य वेदे श्रवणात्सन्देहे सत्यर्थप्रकरणादिभिर्निर्णयोऽभ्युपगम्यते । तत्र चार्थद्वयसाधारणस्य पदस्यैकत्रैवार्थे कथं वृत्तिरित्यपेक्षायां स्वरविशेषश्रवणात्तत्स्वरयुक्तस्यैव पदस्यासावर्थविशेष- १. अयं पा० २ पु० ना० ।