भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

२४ ] प्रथमाध्याये तृतीयपादः ५५७ ननु मूलप्रमाणानिरपेक्षस्य व्याख्यानमात्रस्य निर्णायकत्वं न युक्तमित्याशङ्क्यः, त्वयाऽपि व्याख्यानिर्णायकत्वाभ्युपगमान्नेदं दूषणमित्याह—अपि चेति । लक्षणोत्थसन्देहे व्याख्यानस्य निर्णायकत्वप्रतिपादकं भाष्यं वेदोत्थसन्देहेन योजयितुमाह-व्याख्यानत इति । भाष्यकृता हि शास्त्रारम्भवार्त्तिकगतस्य सिद्धशब्दस्य (एकपरिहारयुक्तानि सार्थत्वमुपपाद्य चतुर्थः परिहारोऽभिहित इत्यन्वयः सिद्धशब्दस्य१) कः पदार्थ इति पृष्ट्वा सिद्धा द्यौः सिद्धा पृथिवी सिद्धमाकाशमिति नित्येषु प्रयोगान्नित्यपर्यायवाची सिद्धशब्द इत्युक्त्वा, सिद्ध ओदनः, सिद्धः सूपः, सिद्धा यवागूरिति कार्येष्वपि प्रयोगात्कथं निर्णयः इत्याशङ्क्य, संग्रहे तावत्कार्यप्रतिद्वन्द्विभावप्रसिद्धमिति भाष्येण संग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे किं कार्यः शब्दः सिद्धो वेति कार्यप्रतियोगित्वेन नित्यार्थत्वावसायादिहापि तदर्थ्यनिर्णय- इत्येकं परिहारमुक्त्वा, अथ वा सन्त्येकपदान्यप्यवधारणानीति भाष्येणाब्भक्षो वायुभक्ष इतिवत्सिद्ध एव न साध्य इत्यवधारणेन नित्यार्थत्वमुपपाद्य, अथ वा पूर्वपदलोपोऽत्र द्रष्टव्यः । अत्यन्तसिद्धः सिद्ध इति तद्यथा देवदत्तो दत्त इति सत्यभामा भामेति भाष्येणा- त्यन्तत्वविशेषणेन नित्यार्थत्वमुपपाद्याथ वा व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादल- क्षणमिति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्याम इति भाष्येण चतुर्थः परिहारोऽ- भिहितः । ननु लक्षणोत्थसन्देहनिवृत्तिर्लक्षणकारपुरुषकृतव्याख्यानपरम्परयोपपद्यते, वेदे तु कर्तृभावेन तत्कृतस्य व्याख्यानस्य मूलत्वायोगात् व्याकरणं वेदव्याख्यापरम्पराया मूलं भवतीत्याशङ्क्याह-न चेति । कल्पादिभ्यो वेदार्थग्रहणे व्याकरणमात्रेण व्याख्यानाशक्तेः कल्पादीनामेव मूलत्वं युक्तमित्याशयः । वेदवदनादित्वात् व्याख्यानपरम्परा न मूलान्त- रमपेक्षत इत्याह-यथैवेति । ननु भाष्यकृता यदि पूर्वपदप्रकृतिस्वरत्वम्, ततो बहुव्रीहिः । अथ समासान्तो- दात्तत्वं ततस्तत्पुरुष इति भाष्येण बहुव्रीहौ प्रकृत्या पूर्वपदमिति बहुव्रीह्या- द्यस्य पदस्य प्रकृतित्वाभिमताद्युदात्तस्वरत्वस्मृतेरुदात्ताधिकारे चान्तोवत्या इत्यतोऽन्त इत्यनुवर्त्तमाने समासस्येति सूत्रेण समासविशेषनिर्णयान्तरेभूतसंगः अन्तोदात्तत्वस्मृतेरनुदात्तं पदमेकवर्जमिति च विहितस्वरवर्जनमुदात्तत्वस्मृतेर्बहुव्रीहिं विना आद्यपदोदात्तत्वायोगा- द्व्याकरणस्य समासविशेषनिर्णयद्वाराथंविशेषनिर्णायकत्वाभिधानाद्व्याकरणस्य निर्णायक- त्वाभिधानाद्व्याकरणाधोनादध्येतृप्रसिद्धाद्युदात्तत्वाद् बहुव्रीहित्वेन स्थूलपृषत्यादिशब्द- व्याख्येत्याशङ्क्याह-न चेति । श्लोकं व्याचष्टे - वृद्धेति । वेदे तु स्वरविवेके सत्यप्यर्थ- विशेषेण सह स्वरविशेषस्य सम्बन्धग्रहणाभावान्न स्वरविशेषं कृत्वाऽर्थविशेषव्यवस्था युज्यत इत्याह-यत्र त्विति । ननु वेदे सम्बन्धग्रहणाभावेऽपि लोक्तोऽनेकार्थतयाऽवगतस्य पदस्य वेदे श्रवणात्सन्देहे सत्यर्थप्रकरणादिभिर्निर्णयोऽभ्युपगम्यते । तत्र चार्थद्वयसाधारणस्य पदस्यैकत्रैवार्थे कथं वृत्तिरित्यपेक्षायां स्वरविशेषश्रवणात्तत्स्वरयुक्तस्यैव पदस्यासावर्थविशेष- १. अयं पा० २ पु० ना० ।

५५८ मीमांसादर्शनम् [ सू० निर्णायोपायतवं स्वरस्याप्यस्तीत्याशङ्क्याह—तत्रापीति । साधारणस्यापि शब्दरूपस्य लोकावधारितार्थप्रकरणादिनिर्णायोपायवशेनैव एकार्थपरत्वावधारणोपपत्तेर्न लोकानवगतस्य स्वरस्याप्यर्थनिर्णयसामग्रीमध्ये निवेशकल्पना युक्तेत्याशयः । ननु स्वरस्याभिधानाङ्गत्वेऽनर्थकः पाठः स्यादित्याशङ्क्याह—तेनेति । न कदा- चिददृष्टार्थतास्तीति दर्शयितुम् सर्वदेत्युक्तम् । ब्रह्मयज्ञेषु ज्योतिष्टोमादिषु ये जपमन्त्रा- स्तेऽप्यङ्गममिति निष्कृष्य योज्यम् । जपन्यूनसामव्यतिरेकेण यज्ञकर्मण्येकश्रुत्यस्मृतेश्चकारेण न्यूनसाम्नामुपादानम् । एवं च व्याकरणेन स्वरानुगमो ब्रह्मयज्ञाद्युपयोगित्वेनार्थवानस्तु न त्वर्थनिर्णयार्थतेत्याशङ्क्याह—व्याकरणेति । अलौकिकेऽर्थे सम्बन्धग्रहणासम्भवेनावश्य- कत्वाज्ञानात्—लौकिकेत्युक्तम् । न वर्णवद्वाचकत्वेन लोके स्वरः प्रयुक्तो नाप्यानुपूर्थ्यादि- वद्वाचकसहकारिता—इत्यत्यन्तशब्देनोक्तम् । ननु लोकाप्रयुक्तेष्वप्युणादिशब्देषु वाचकत्वो- पलक्षणाल्लोकप्रयोगादेव वाचकत्वज्ञानमिति नियमायोगाद्व्याकरणादपि स्वरविशेषस्यार्थ- विशेषं प्रति वाचकत्वज्ञानं भविष्यतीत्याशङ्क्याह - न चेति । शास्त्रारम्भभाष्येऽथ शब्दानुशासनमिति शब्दान्वाख्यानार्थत्वाख्याने तात्पर्याभावान्न व्याकरणस्य प्रामाण्य- मित्याशयः । अत्रैव सूत्रावयवं योजयन्सन्देहप्रयोजनत्वासम्भवोपसंहरति—तस्मादिति । रक्षादीनामपि पूर्वोक्तप्रयोजनत्वासम्भवोपसंहारार्थोऽपिशब्दः । एवं मुख्यानि पञ्चप्रयोजनान्युपन्यासपूर्वकं दूषयित्वा, तेऽसुराः, दुष्टः शब्दः, यदधीतम्, यस्तु प्रयुङ्क्ते, अविद्वांसः, विभक्तिं कुर्वन्ति, यो वा इमाम्, चत्वारि, उत त्वः, सक्तुमिव, सारस्वतीं दशम्यां पुत्रस्य, सुदेवो असि वरुणेत्यानुषङ्गिकान्यपि त्रयोदशसंक्षेपतस्तावत् दूषयति—यान्यपि चेति । अम्लेच्छत्वमदुष्टोक्तिर्विज्ञानं फलभागिता । अस्त्र साम्यं विभक्त्युक्तिः सप्तमं चार्त्विज्जीनता ॥ मनीषिबत् सम्मतत्वं देवेन महताष्टमम् । वाक्यस्वरूपप्रकटनं लक्ष्म्या वाचि निधापनम् ॥ अप्रायश्चित्तमाक्तं च द्वादशं पुत्रनाम च । त्रयोदशं सुदेवत्वमुक्तं भाष्ये प्रयोजनम् ॥ प्रथमं च द्वितीयं च सप्तमं चाप्रयोजनम् । दशमैकादशौ चेति व्याक्रिया न ह्यपेक्ष्यते ॥ तृतीयादीनि चत्वारि नवमद्वादशे अपि । प्रयोजनवदाभान्ति किं तु नान्येन सिद्धितः ॥ सुदेव इति मन्त्रस्य चत्वारीति द्वयोरपि । असामर्थ्यं न चरममष्टमं वा प्रमाणकम् ॥

२४ ] प्रथमाध्याये तृतीयपादः ५५३ मुख्यप्रयोजनैश्च प्रयोजनवत्त्वासम्भवेन आनुषङ्गिकेष्वाशा युक्तेत्याह-अपि चेति । नद्या वेगेन नीयमानो यस्तीरगतं वृक्षमप्यवष्टभ्य स्थातुं न शक्नोति, तस्य यथा कुशावष्टम्भनं काशावष्टम्भनं चानर्थकम् तथैतदपीत्यर्थः । पूर्वोक्तमेव प्रपञ्चयितुं प्रत्येकमुपन्यस्योपन्यस्य दूषयति-तत्रेति । भाष्यकृता तेऽसुरा हेडलय हेडलय इति ब्रुवन्तः पराबभूवुः, तस्माद् ब्राह्मणेन न म्लेच्छितवै 'म्लेच्छो ह वा एष यदपशब्द' इत्यपशब्दनिषेधवाक्यमुपन्यस्य म्लेच्छा माभूमेत्यध्येयं व्याकरणमिति भाष्येण म्लेच्छ- रूपापशब्दप्रयोगप्रयोक्तुम्लेंच्छत्वापत्ते र्ज्ञातस्यापशब्दस्य वर्जनायोगाच्छदापशब्दविवेक- ज्ञानार्थम्-व्याकरणमित्युक्तम् । यस्मादसुरा अरय इति रेफस्थाने लकार प्रयोगेण हैहप्रयोगे हैहेयोरित्येतत्सूत्रविहितप्लुतप्रयोगेण 'प्लुतप्रगृह्या अचीति' च प्रकृतिभाव- विधानाद्धे अरय इति प्रयोक्तव्ये हेडलय इति त्रिविधापशब्दभाषणरूपम्लेच्छनात्पराभवं प्राप्ताः तस्माद् ब्राह्मणेन न म्लेच्छितव्यम्, नापभाषितव्यमिति समभिव्याहारेणा- पशब्दनिषेधस्यापराभवार्थत्वप्रतीतेर्म्लेंच्छा माभूमेति म्लेच्छत्वपरिहारस्य प्रयोजनत्वं भाष्यकारोक्तमयुक्तमाशङ्क्य, पराभवाख्यानस्यापभाषणफलप्रदर्शनार्थत्वे प्रतीते म्लेच्छो ह वा एष यदपशब्द इत्यस्यानर्थक्यात्तरेपशब्दस्य म्लेच्छशब्दप्रयोक्तुम्लेंच्छत्वं भवतीत्य- पशब्दम्लेच्छत्वाभिधानार्थवादस्य फलपरत्वसूचनायोपन्यासार्थवादतोक्ता, निषेधस्य तु प्रयोजनत्वमागमवत्प्रयोजकत्वेनाक्षेपकत्वेनोक्तम् । स निषेधो यथा गुरुसम्प्रदायागतवैदिक- शब्दविषयो म्लेच्छभाषाविषयो वा । न तु गाव्यादिशब्दविषयग्रन्था । यद्यपि च तस्माद् ब्राह्मणेनेत्यादिग्रन्थेन प्रागुक्तमित्यर्थः । ततश्च व्याकरणानपेक्षत्वान्न तत्प्रयोजनत्वयोग्य- तेत्याशयः । यच्च भाष्यकृता- 'दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधाद् ॥ इति श्लोकमुपन्यस्य दुष्टांश्छेब्दान्माप्रयुङ्क्ष्महोत्यध्येयं व्यकरणमिति भाष्येण दुष्टशब्दवर्जनं व्याकरणप्रयोजनमुक्तम् । तदपि मन्त्रविनाशविषयत्वस्य च व्याकरणान- पेक्षत्वान्न व्याकरणप्रयोजनत्वयोग्यमित्यर्थान्तरन्यासेनाह-दुष्ट इति । अत्रापि पूर्ववद्व्या- करणानपेक्षत्वात्तत्प्रयोजनत्वयोग्यतेत्यपिशब्देन सूचितम् । ननु दुष्टादुष्टशब्दज्ञानस्य व्याकरणा- धीनत्वात्कथं तदनपेक्षत्याशङ्क्य दुष्टः शब्द इति पाठे भवेद् व्याकरणापेक्षा, न त्वोदृशः पाठोऽस्तीति दर्शयितुमाह-वाग्वीति । मन्त्रो हीनः स्वरतो वर्णतो वेति बहुजन- प्रसिद्धस्य शिक्षाकारपठितस्य मन्त्रपदस्योद्धारेण पदान्तरप्रक्षेपः स्वपक्षानुरागमात्रेण कृतः, न वस्तुत इत्यर्थः । मन्त्रविनाशविषयत्वे चास्य वाक्यस्य श्रुतिमूलत्वं भविष्यतीत्याह- दुष्टेति । दुष्टपदप्रक्षेपेऽपि मन्त्रदोषविषयत्वे नोपपत्तेर्व्याकरणापेक्षानापादकत्वात्पाठान्तरो- त्प्रेक्षानर्थक्यसूचनायौ दुष्टशब्दः शब्दमात्रदोषविषयत्वेऽस्य वाक्यस्य निर्मूलत्वसूचनायैस्तु-

सूत्रावयवयोजनया सूचितः । नन्वर्थविशेषविषय शब्दानुशासनानन्तरीयकत्वेनार्थानु-

५६० मीमांसादर्शनम् [ सू० शब्दः । उदाहरणपर्यालोचनयापि मन्त्रविनाशविषयतैवास्य श्लोकस्यावसीयत इत्याह— तथा चेति । स यज्ञवशसं कृत्वा प्रासहामसोममपिबत् तस्य यदीयशिष्यत तत्त्वष्टाऽऽहवनीय- मुपप्रावात्तंयत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति यदवर्तंयत्तद् वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति तस्मादस्येन्द्रःशत्रुरभवदि (तै. सं २.२.२१)त्या याद्युदात्तेन्द्रशत्रुपदप्रयोगेणेन्द्रो यस्य शत्रुरिति बहुव्रीह्यर्थसम्पत्तेस्त्वष्टुः पुत्रस्य वृत्रस्येन्द्रः शातयिता हिंसितो जात इत्याद्युदात्तत्वलक्षण- स्वरदोषेण वृत्रशत्रोरिन्द्रस्योत्पत्तिवादिन्द्रवधसमर्थपुत्रोत्पादनार्थं यागं कुर्वाणस्य त्वष्टुर्यजमा- नस्याभिप्रेतार्थासिद्धिलक्षणा हिंसा जातेति स्वरापराधलक्षणमन्त्रविनाशनिमित्तयजमानगा- मिदोषोदाहरणं कृतमित्यर्थः । इन्द्रशत्रुरिति मन्त्रपदं स्वरापराधात् यथा यजमानं हिनस्तीत्युदाहरणार्थः । तस्मादिन्द्रस्य शत्रुर्भुत्वा वर्द्धस्वेति तत्पुरुषार्थविवक्षायां मन्त्रोदा- हृतमिदं प्रयोक्तव्यमित्याशयः । यच्च नाम भाष्यकृता— 'यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥' इति श्लोकमुपन्यस्य, तस्मादविज्ञातमनर्थकमधिगीष्महीत्यध्येयं व्याकरणमिति वेदाध्ययनसाध्यं वेदार्थज्ञानं व्याकरणप्रयोजनत्वेनोक्तम् । तद्व्याकरणप्रयोजनत्वेनाभास- मानमप्यन्यतः सिद्धेनं व्याकरणप्रयोजनमित्याह—यस्त्विति । अध्ययनविधेर्दृष्टार्थत्वाभि- धानान्मीमांसाप्रयोजनत्वेनैतद्युक्तं भवतीत्याशयः । ननु मीमांसावद्व्याकरणमपि वेदार्थ- ज्ञानसाधनं भविष्यतीत्याशङ्क्याह—तन्विति । शब्दानुशासनार्थत्वेनार्थपरत्वाभावः सूत्रावयवयोजनया सूचितः । नन्वर्थविशेषविषय शब्दानुशासनानन्तरीयकत्वेनार्थानु- शासनमपि सेत्स्यतीति, स्वयमेवाशङ्क्योत्तरं सूत्रावयवं परिहारे योजयति—शब्देति । नन्वर्थगतसन्देहविपर्ययनिरासमात्रस्य मीमांसासाध्यत्वाद्भेदात्स्वरूपज्ञानं व्याकरणाद्भूविष्य- तीत्याशङ्कां निरस्यन्नुपसंहरति तस्मादिति । यच्च— 'यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥' इति श्लोकेन शब्दव्यवहारकालेऽर्थविशेषे सम्यक्शब्दप्रयोगस्य पारलौकिकफलप्राप्ति- हेतुत्वाभिधानात्तत्सिद्धिर्व्याकरणस्य प्रयोजनमिति भाष्यकृतोक्तम् । तदप्यन्यथा व्याख्यातुं शक्यत्वात्प्रयोजनाभासमित्याह—यस्त्विति । गुरुसम्प्रदायागते स्वरादिविशेषे कुशलः सन्वेदाध्ययनादिव्यवहारकाले वैदिकांश्शब्दान्प्रयुङ्क्त इति व्याख्येयमित्याशयः । ननु मन्त्रब्राह्मणेष्वपशब्दाभावात्तद्विषयत्वे दुष्यति चापशब्दैरित्ययुक्तं स्यादित्याशङ्क्याह— यथेति । कथं वैदिकशब्दविनाशविषयताऽस्याऽवसीयत इत्यपेक्षायामाह—स्वाध्यायेति ।

२४ ] प्रथमाध्याये तृतीयपादः ५६१ पौरुषेयत्वेनास्य प्रमाणान्तरावगतदोषानुवादत्वावसायादुदाहृतेन वचनेन यजनयाजनगत- वेदशब्दविनाशहेतुकदोषावगतेरादिशब्दाच्चेतिकरणसूचितेन च— 'हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ इति स्मृत्यनुमितेन वचनेनाध्ययनाध्यापनगतवेदशब्दविनाशहेतुकदोषावगतेस्तद्विषयत्व- नियम इत्याशयः । यद्यप्येषांमृगादिशब्दानामुपक्रमानुरोधेन वेदपरत्वं तृतीये वक्ष्यते । तथापि ऋग्वेदादिविहितमन्त्रविषयाया अप्यार्तेर्विनाशाख्यायाः पदार्थान्तरातिवत्सामान्य- शब्देनोपपादानादविरोधः । ननु प्रकृतिप्रत्ययरूपयोर्वाचयोर्योगं सम्बन्धं वेत्तीति व्युत्पत्त्या वाग्योगविच्छब्देन वैयाकरणाभिधानात्तत्समभिव्याहारेणास्य वाक्यस्य व्याकरणानुगताननुगतशब्दप्रयोगविषय- तावगम्यत इत्याशङ्क्य त्रेधा परिहरति—वागिति । वाचः प्रतियोगितयाऽऽक्षिप्तोऽर्थेन यो वाचं वेत्तीति प्रथमे परिहारे निगमनिरुक्तादिकुशलो वाग्योगवित् । द्वितीये तु वाचो वचनस्य योगं पदार्थविषयविशेषरूपां व्यक्तिं ब्राह्मणवाक्येषु मन्त्रेषु च वाचो भासनस्य प्रकाशनस्य योग्यं योगमर्हं वेत्तीति मीमांसकोऽभिधीयते चोदितत्वेनावगतस्य स्वार्थत्वा- त्प्रकाशनार्हत्वम् अनूदितत्वेनावगतस्य परार्थत्वात्प्रकाशनार्हत्वं वेत्तीति समासार्थः । निर्वापमन्त्रे त्वग्नेश्चोदितत्वेनानुष्ठानाय स्मर्त्तव्यत्वात्प्रकाशनार्हत्वम्, सवित्रादीनां वा चोदितत्वेन निर्वापकस्तुत्यर्थत्वात्प्रकाशनार्हत्वं प्रसिद्धं विदेर्विचारणार्थत्वसूचनार्थं प्रकाशनार्हत्वं प्रतियोगितयोक्तं वैयाकरणस्य वाग्योगवित्त्वासम्भवोपपादनायास्य पदस्याऽन्येनार्थेन प्रकृतो योगः स्वाभाविकसम्बन्धोऽस्य वचनस्यैवम्भूतपदान्वयरूपा व्यक्तिरस्य वा मन्त्रस्यायमर्थः प्रकाशनयोग्य इत्येवं विविधप्रयोगोत्पत्तिं प्रति व्याकरणस्याशास्त्रत्वा- दिति त्रेधा सूत्रावयवं तन्त्रेण योजयति—वैयाकरणस्येति । यच्च-- 'अविद्वांसः प्रत्यभिवादे नाम्नो येन प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्विवाहमहं वदेत् ॥' इति श्लोकमुपन्यस्य स्त्रीवन्माभूमेत्यध्येयं व्याकरणमिति भाष्येण स्त्रीसाम्यपरिहारो व्याकरणप्रयोजनमित्युक्तम् । तदपि प्रयोजनाभासमित्याह—यदपीति । तत्प्लुतस्येति तच्छब्दोऽव्ययम् । यत्रेत्यर्थे तस्मिन् विषये तद्व्याकरणं प्लुतप्रयोगोत्पत्ति पूर्वशास्त्रे प्लुतस्वरूपस्य लोकसिद्धत्वात्नामान्ते च प्लुतप्रयोगस्य मन्वाद्युपदिष्टत्वादित्यर्थः । 'ऊकालोऽज्झ्रस्वदीर्घप्लुतः इत्येतत्सूत्राधीनत्वं प्लुतस्वरूपज्ञानस्य ह्युपगम्य प्रकृतिप्रत्ययान्वा- ख्यानद्वारा शब्दापशब्दविवेकार्थस्य नैकसूत्रमात्रसाध्यं प्रयोजनं युक्तमिति शब्देषु न व्यवस्था स्यादित्युत्तरसूत्रावयवयोजनया दर्शयति—न चेति । शब्दविषया व्यवस्था या व्याकरणेन क्रियते, सा न कर्त्तव्या स्यादित्येवं सूत्रावयवयोजनेन योजितः । ३६

५६२ मीमांसादर्शनम् [ सू० यच्च विभक्तिं कुर्वन्तीत्युपक्रम्य याज्ञिकाः पठन्ति प्रयाजाः सविभक्तिकाः कर्तव्या इति । न चान्तरेण व्याकरणं प्रयाजाः सविभक्तकाः शक्याः कर्तुमिति भाष्येण विभक्तिज्ञानं व्याकरणप्रयोजनमुक्तम् । तदपि प्रयोजनाभासमित्याह-एवमिति । तदित्यव्ययं तत्रेत्यर्थे, तत्रापि व्याकरणमशास्त्रमित्यपिशब्दाध्याहारेण योज्यम् । कस्मादित्यपेक्षिते सौत्रं प्रयोगो- त्पत्तिपदं समासाद्निष्कृष्य हेत्वर्थत्वेन त्रिविधोपपत्तिपूर्वकं याज्ञिकेत्यादिना योजितम् । समिधः समिधोऽग्न आज्यस्य व्यन्तु,तनूनपादग्निनमग्न आज्यस्य वेतु, इडोऽग्निनमग्न आज्यस्य व्यन्तु, बर्हिरग्निरग्न आज्यस्य वेत्विति याज्ञिकदोषोद्देशेन सम्बुद्धिद्वितीयातृतीयाप्रथमानां विभक्तीनां प्रयाजेषु सिद्धत्वात् छान्दोग्यब्राह्मणे च षडहविभक्तिर्नानारूपेत्युपक्रम्याग्न इति प्रथमस्याग्नेः रूपम् अग्निमिति द्वितीयस्य, अग्निनेति तृतीयस्य अग्नेरिति, चतुर्थस्य अग्नेरिति पञ्चमस्याग्नेः इति षष्ठ्येति परस्परविभक्तसम्बुद्धिद्वितीयातृतीयाप्रथमाषष्ठीसम्बु- द्धयाख्यविभक्तिप्रयोगदर्शनान्मन्त्रेषु चाग्निवृत्राणीत्यादिषु विभक्तविभक्तिप्रयोगदर्शनाभावेऽपि वा सिद्धशब्दानुक्रमार्थवैभक्तिकग्रन्थमात्रालोचनेनापि विभक्तिप्रयोगसिद्धेरित्यर्थः । यच्च 'यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति, स आत्विजीनो भवतीति श्रुतिमुपन्यस्यार्त्विजीनाः स्यामेत्यध्येयं व्याकरणमिति भाष्येणार्त्विज्यार्हत्वं व्याकरण- प्रयोजनमुक्तम् । तद् गुरुसम्प्रदायसिद्धत्वाद व्याकरणप्रयोजनत्वं योग्यमेव न भवतीत्याह- यो इमामिति । चत्वारि शृङ्गेत्यृचं महाभाष्यकृता पूर्वोपन्यस्तामपि मन्त्राधिकरणेऽन्यविषयत्वेन व्याख्यातत्वादुपेक्ष्य, अपर आहेत्युपक्रम्य । चत्वारि वाक्परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः ॥ गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति ॥ इत्यृचमुपक्रम्य चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्चेति भाष्येण ये ब्राह्मणा- स्तानि विदुस्ते मनीषिण इत्यर्थाश्रयणेन पदचतुष्टयज्ञानसाध्यं मनीषित्त्वं व्याकरणप्रयोजन- मुक्तम् । तत् अस्या ऋचोऽन्यपरत्वादप्रमाणकमित्याह-तथेति । निरुक्ते यान्योङ्कारो भूर्भुवः स्वरिति महाव्याहृतित्रयं वेति चतुष्टयम् । आदिशब्दाद्वेदचतुष्टयम्, मृगपक्षिसरीसृपमनुष्याः वाक्चतुष्टयमनपायिनी पश्यन्ती मध्यमा वैखरीति सूक्ष्मतमसूक्ष्मतरसूक्ष्मस्थूलरूपावस्थाभेद- भिन्नवाक्चतुष्टयमिति चतुष्टयबाहुल्यरूपप्रयोजनानुसारेण चत्वारि पदजातानि प्रपञ्चितानि । तन्न व्याकरणस्य व्यापार इत्यर्थः । एतच्च पदनिर्वचनसामर्थ्येऽपि, तद्विषये संचारयं- संख्यामात्रसामान्यादुक्तम्, न प्रामाणिकमित्यर्थः । अप्यक्षरैति निरुक्तकारवचनोपन्यासेन सूचितम् । ननु वैयाकरणाभिमतं नामादिचतुष्टयमपि निरुक्तेरोक्तं तद्वयाकरणापेक्षं भविष्य- तीत्याशङ्कयाह-यस्त्विति । परमार्थतस्तूत्तराद्धंर्चविरोधान्नैतद्विषयताप्यस्या ऋचः

२४ ] प्रथमाध्याये तृतीयपादः ५६३ सम्भवतीत्याह—एतद्विषयत्वे चेति । कस्तर्ह्यस्या ऋचः पारमार्थिकोऽर्थः पूर्वापरार्द्धर्चा विरोधीत्यपेक्षायामाह -- तस्मादिति । अस्मिन् व्याख्याने वागिति पदं षष्ठ्यन्तत्वेन विपरिणमयितव्यं प्रबो देवायानय इति शंसतीति प्रतीकविधिप्रभवमवयवान्तरानुमानम् । विश्वजिता यजेतेत्यत्राव्यक्तचोदनात्वरूपप्राकृतवाक्यसारूप्यसम्भवं ज्योतिष्टोमवदिति पदोप- मानम्, विधिप्रत्ययावगतफलव्यतिरेकेणानुपपद्यमानयागकर्त्तव्यत्वप्रभवा -स्वर्गकामपद- कल्पिकार्थापत्तिः । दध्नेन्द्रियकामस्येत्यत्र सारूप्याभावेऽपि सन्निधानमात्रेणाग्निहोत्रवदिति पदोपमानसूचनायादिशब्दः । ननु प्रमाणषट्कस्य प्रथमपादे व्युत्पादितत्वाच्चतुष्ट्वं प्रमाणानां न युक्तमित्याशङ्कयाह - षडिति । अपोद्धारे कारणमाह—अभावस्तावदिति । न चैरं कृत्वोद्गेयमित्यागमार्थज्ञायज्ञीयस्यैरापदवत्त्वावगतेरागमस्याप्यागमप्रामाण्यमस्तीत्याशङ्कयाह - प्रत्यक्ष्येति । स्वरूपादानेनात्र प्रत्यक्षत्वसम्भवान्नागमगम्यतेत्याशयः । ननु नामादिपदचतुष्टयविषयत्वे भाष्यकृता पूर्वं— चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥ इतीयमृगुपन्यस्ता सा किमित्यपेक्षितेत्याशङ्कयाह-चत्वारीति । ननु भाष्यकृता चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च, त्रयो अस्य पादा भूतमविष्यद् वर्त्तमानाः, द्वे शीर्षे शब्दात्मानौ, नित्यः कार्यश्चेति, सप्त हस्तासो अस्य सप्त विभक्तयः । त्रिधा बद्धो वृषभो रोरवीति त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसीति, वृषभो वर्षणात् रोरवीति शब्दं करोति महोदेवो मर्त्याँ आविवेश महान्देवः शब्दः मर्त्यान्मरणधर्माणो मनुष्यानाविवेशेति व्याख्याय, महता देवेन नः साम्यं स्यादित्यध्येयं व्याकरणमिति भाष्येण शब्दब्रह्मसाम्यं व्याकरणप्रयोजनमुक्तम् । का तत्रानुपपत्तिरित्याशङ्कयाह— यत्त्वि त । विनियोगनिरपेक्षं मन्त्रस्यार्थतात्पर्य्यविधारणमशक्यमित्याशयः । संख्यासामान्य- मात्रेण च विनियोगनिरपेक्षमन्त्रयोजनायां वैशेषिकादिष्वपि तन्त्रेषु योजयितुं शक्यत्वाद- व्यवस्था स्यादित्याह—तादृशं चेति । पार्थिवाप्यतैजसवायवीयान्यवयविद्रव्याणि चत्वारि शृङ्गाणि । त्रयो अस्य लोकस्य पादा महत् कार्यारम्भकाणि द्व्यणुकाति । द्वे शीर्षे प्रधाना- प्रधानपुरुषौ सप्त हस्ता द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षड्भावरूपाः । सप्तमश्चा- भावः त्रिधा बद्धः समवाय्यसमवायिनिमित्तकारणैर्बद्धः । वृषभो भोगहेतुः रोरवीति शब्दवान्महा देवो द्योतनात् मर्त्यानाविवेश मर्त्यैर्योग्य इत्येवमादियोजनोपपत्तेरतिप्रसक्तिः स्यादित्याशयः । यच्च भाष्यकृता — उत त्वः पश्यन्न ददर्श वाचमुतः त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्रे जायेव पत्यउशती सुवासा ॥ इत्यृचमुपन्यस्याप्येकः पश्यन्नपि न पश्यति, शृण्वन्नपि न शृणोत्येनामिति पूर्वार्द्धर्चम- विद्वांसमाहार्थमिति भाष्येण। विद्वांसमर्धं पूर्वार्द्धं वा वदतीत्यभिधानाद्वेदार्थविद्विषयत्वेन

५६४ मीमांसादर्शनम् [ सू० व्याख्याय, उतो त्वस्मै तन्वं विसस्रे तनु विवृणुते । जायेव पत्य उशती सुवासाः तद्यथा जाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते, एवं वाग्वाग्विदे स्वमात्मानं विवृणुत इत्युत्तरार्द्धं व्याख्याय, वाङ् नो विवृणुयादित्यध्येयं व्याकरणमिति भाष्येण वाक्प्रकाशनं व्याकरणप्रयोजनमुक्तम् । तद् अन्यतः सिद्धेः प्रयोजनाभासमित्याह—उतत्व इति । यत्तु भाष्यकृता— सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥ इत्यृचमुपन्यस्य सक्तुः सचतेर्दुर्द्भावो भवति, कसतेर्वा विपरीताद्विकसितो भवतीति तितउ परिपवनं ततवद्वा तुन्नवद्वा धीरा ध्यानवन्तः मनसा प्रज्ञानेन वाचमकृषत अत्र सखायः सन्तः सख्यानि जानते क्व एष दुर्गो मार्गः एकगम्यो वाग्विषयः । के पुनस्ते ? वैयाकरणाः । कुतः एतद् भद्रैषां लक्ष्मीर्निहिताधिवाचि भद्रा ह्येषां लक्ष्मीर्निहिता भवति । क्व अधिवाचि लक्ष्मीर्लक्षणाल्लाञ्छनाद्वा परिवृढा भवतीति व्याख्यानेन लक्ष्मीनिधानं व्याकरणप्रयोजनमुक्तम् । तद् गुरुसम्प्रदायसिद्धत्वात् व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह—एवमिति । यच्च सारस्वतीमित्युपक्रम्य याज्ञिकाः पठन्त्याहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेदिति श्रुतिमुपन्यस्य प्रायश्चित्तीया माभूमेत्यध्येयं व्याकरणमिति भाष्येण प्रायश्चित्ताभाजनत्वं व्याकरणप्रयोजनमुक्तम् । तदपि वैदिकशब्दविनाशविषयत्वात् व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह—आहिताग्निरिति । यच्च दशम्यां पुत्रस्येत्युपक्रम्य याज्ञिकाः पठन्ति 'दशम्युत्तरकालं पुत्रस्य जातस्य पिता नाम विदध्यात् घोषवदाद्यन्तरस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि सुप्र- तिष्ठिततमं भवति द्वयक्षरं चतुरक्षरं वा कृतं कुर्यान्न तद्धितमिति' न चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुमिति भाष्येण पुत्रनामज्ञानं व्याकरणप्रयोजनमुक्तम् । तद् अन्यतः सिद्धेः प्रयोजनाभासमित्याह—यदपीति । घोषवन्तो वर्गंतृतीयाद्या वर्णा आदौ यस्य, तदन्तरं तस्य घोषवदादेरन्तरस्थस्य द्विचतुरादिवर्णस्य कृदन्तस्य नाम्नः परिग्रहः तद्धितस्य वर्जनं वा तयोर्न्नामकरणे वचनम् । तत्र न व्याकरणं नामप्रयोगोत्पत्ति- शास्त्रत्वेनापेक्षणीयमिति । तत्कृत्तद्धितसञ्ज्ञयोरिति तदित्यव्ययं लुप्तसप्तमीकमङ्गीकृत्य योज्यं तदुपपादनाथं कृत्तद्धितसञ्ज्ञयोरित्याद्युक्तम् । यच्च भाष्यकृता— सुदेवो असि वरुण यस्य ते सप्तसिन्धवः । अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥ इत्यृचमुपन्यस्य, सुदेवो असि वरुण सत्यदेवो यस्य ते सप्तसिन्धवः, सप्तविभक्तयः अनुक्षरन्ति काकुदं तालुं काकुर्जिह्व्वा सास्मिन्नुद्यत इति काकुदं सूर्म्यं सुषिरामिव तद्यथा

सूर्य्यं सुपिराग्निरनुप्रविश्य तदन्तर्गतं मलमपहन्ति एवं सप्तसिन्धवः ताल्वनुक्षरन्ति तेनासि सत्यदेव इति व्याख्याय, सत्यदेवाः स्यामेत्यध्येयं व्याकरणमिति भाष्येण सत्यदेव- त्वप्राप्तिर्व्याकरणप्रयोजनमुक्तम् । तत्रास्या ऋचः सङ्ख्यासामान्यमात्रेण विभक्तिविषय- त्वमभ्युपगम्याप्यन्यतः सिद्धत्वान्नातीव व्याकरणापेक्षेति तावदाह—सुदेव इति । परमार्थ- तस्तु सिन्धुशब्दस्य नदीवाचित्वेन प्रसिद्धत्वान्नद्य एवात्र सप्त विवक्षिताः । अथापि वरुणशब्देन यज्ञमृत्विजं यजमानं वाऽभिप्रेत्य तत्प्रशंसापरेयमृगिष्यते, तथापि होत्रीया- प्रशास्त्रीयाब्राह्मणाच्छंसीयापोत्रीयानेष्ट्रीयाच्छावाकीयाग्नीध्रीयाह्वयहोत्रागताः सप्तवाचः, षड्जऋषभ गान्धारमध्यमपञ्चमधैवतनिषादाख्यसामस्वरगतां वा प्रस्तावप्रणवोद्गीथहिङ्कार- प्रतिहारोपद्रवनिधनाख्यसामभक्तिगता वा वाचः सप्तेत्यन्यपरत्वात् व्याकरणप्रयोजनत्वं निष्प्रमाणकमित्याह — यदा पुनरिति । नदीनामतिहासगोचरापन्नत्वादितरासां याज्ञिक- गोचरापन्नत्वादित्यर्थः । एवं महाभाष्योक्तमुख्यानुषङ्गिकप्रयोजननिराकरणेन न चाश्रितप्रतिपदपाठानां वैदि- कानां लक्षणेन कार्यमित्यादिग्रन्थोक्ते व्याकरणस्य निष्प्रयोजनत्वे समर्थिते, यदि कश्चित- स्मादव्याकृता वागुद्यत इति श्रुतिपर्यालोचनेन व्याकरणसंस्कृतानां शब्दानामदृष्टसाधनत्व- लक्षणसाधुत्वावगमात्साधुत्वसिद्धिर्व्याकरणप्रयोजनं वदेतं प्रत्याह—संस्कृतानां चेति । श्लोकं व्याचष्टे —व्याकरणेनेति । शब्दत्ववर्णत्वतद्व्यक्तितत्समुदायावयविस्फोटगोशब्दत्व- क्रमग्रहणोच्चारणतत् साधनपुरुषाणां मध्ये किं वस्त्विति कस्येत्यस्य व्याख्या । उत्पत्त्यादीनां चतुर्णां मध्ये कः संस्कार इति को वेत्यस्य । शब्दत्ववर्णत्वजातिव्यक्ति- पक्षेषु तावद् दोषमाह — न तावदिति । जातिपक्षे तावदुभयत्र प्रसङ्गं विवृणोति-शब्दत्व इति । वर्णव्यक्तीनां तु संस्कारः प्रत्येकं वा स्यात् समुदितानां वा । तत्र प्रत्येकपक्षेऽतिप्रसङ्गं विवृणोति — एतेनेति । समुदायाभावात् समुदितानामपि संस्कारो न भवतीत्याह — समुदायस्त्विति । किं च नित्यानां वर्णव्यक्तीनां संस्कारः स्यादनित्यानां वा । तत्रानित्य- पक्षे तावद्विनष्टानुत्पन्नानामसंस्कार्यत्वादुत्पन्नानामपि संस्कारक्षणं यावदवस्थानान्न संस्कारः सम्भवतीत्याह येषां तावदिति । संस्कारक्षणं यावदवस्थानाभ्युपगमेऽपि व्यवहारकाले- विनष्टत्वेन कार्यानुपयोगित्वात्संस्कारो न तु युक्त इत्याह — न चेति । एतदेव विवृणोति — यथैवेति । ननु भाष्यकृता किं पुनर्नित्यः शब्दः आहोस्वित्कार्य इति पृष्ट्वा सङ्ग्रह एतत्प्राधान्येन परीक्ष्यते नित्यो वा स्यात्कार्यो वेति भाष्येण सङ्ग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे तात्पर्येणैतद्विचार्यते, नात्र तेन विचारेण प्रयोजनमित्युत्तरे दत्ते, कथं तर्ह्यत्र लक्षणप्रवृत्ति- रित्याशङ्क्य, यद्यपि नित्योऽथापि कार्यं उभयथापि लक्षणं प्रवर्त्यमित्युक्त्वा कथमनित्य- पक्षे संस्कारानुपपत्तिरित्याशङ्क्याह — तत्तश्चेति । अत्यन्तविरुद्धत्वाच्च नित्यानित्यत्वयोरनियमाभिधानं न युक्तमित्याह — अदूरेति । कार्यत्वे च शब्दस्योत्पत्तिलक्षणः संस्कारः स्यात्तत्र च नित्यस्य वेदस्यानित्यशब्दव्युत्पत्ति-

५६६ मीमांसादर्शनम् [ सू० विषयत्वायोगेन व्याकरणस्य वेदमूलत्वासम्भवादनित्यशब्दोपयुक्तत्वेन च नित्यवेदाङ्ग- त्वाभावाद्दुभयविधमपि शास्त्रत्वं हीयेतेत्याह—उत्पादश्चैवेति । श्लोकं व्याचष्टे—व्याकर- णेति । वेदोत्पादकत्वेन तु व्याकरणस्य वेदाङ्गत्वे वेदोऽप्यप्रमाणं स्यादित्याह—अथेति । कार्यत्वे च शब्दस्य संस्कारोऽशक्योऽनर्थकश्चेति दोषद्वयं पूर्वोक्तमप्यनियमनिरासायाह -- शब्दश्चेति । नित्यत्वे तु शब्दस्य विक्रियारूपोऽपि शब्दादुत्पत्त्याख्यश्च तावत्संस्कारो न सम्भवतीत्याह - तस्मादिति । न च ज्ञानरूपप्राप्तिलक्षणः संस्कारः शब्दस्य व्याकरणेन क्रियते, श्रोत्रजन्मत्वात्तस्येत्याह—विनेति । अविहितत्वाच्च व्याकरणस्य नापूर्वसाधन- सामर्थ्याधानलक्षणसंस्कारार्थता युक्तेत्याह—अदृष्टार्थस्त्विति । शब्दानां च दृष्टार्थत्वेना- पूर्वसाधनत्वाभावान्न तत्सामर्थ्याधानलक्षणेन संस्कारेण प्रयोजनमस्तीत्याह— दृष्टार्थेषु चेति । ननु लोकव्यवहारार्थानां शब्दानां दृष्टार्थत्वादसंस्कार्यत्वायोगेऽपि, क्रत्वर्थानां व्रीहि- यववन्नियमापूर्वार्थत्वात् संस्कार्यत्वं भविष्यतीत्याशङ्कयाह—कर्मेति । किं च व्याकरण- क्रियायाः पौरुषेयग्रन्थाधीनत्वेनादिविधिविषयतैव न युज्यते । प्रकरणााम्नानं दूरनिरस्त- मित्याह—ह्रस्त्थादीति । ननु 'तस्मादेषा व्याकृता वागुद्यत' इत्यानारभ्याधीतः प्रत्यक्षो विधिः कथमपहूयत इत्याशङ्कयाह तेनेति । नित्यानित्यसंयोगविरोधप्रसङ्गान्नास्यैतत्पर- तास्तीति प्रागेवोक्तमित्याशयः । व्याकरणक्रियाविधेयत्वाभ्युपगमेऽपि प्रकरणाभावेन क्रत्वर्थत्वाभावान्न क्रत्वर्थशब्दसंस्कारत्वं युक्तमित्याह –अनारम्येति । नन्वनारभ्याधीत- स्यापि खादिरोदेर्दशपूर्णमासार्थता दृष्टेत्याशङ्कयाह ऐकान्तिकम् हीति । ननु यथाफलकल्पनालाघवायाऽश्वप्रतिग्रहेष्टौ वैदिकाश्वदानविषयत्वं तृतीये वक्ष्यते, तथेहापि वैदिकशब्दविषयत्वं व्याकरणक्रियाया भविष्यतीत्याशङ्कयाह—लोकेति । लौकिकवैदिकशब्दानां भेदस्य निराकरिष्यमाणत्वान्न संस्कार्यासंस्र्कार्यव्यवस्था युक्तेत्याशयः । उपसंहरति—अत इति । किं च श्रोत्रोपलब्धिबुद्धिनिर्ग्राह्यः प्रयोगेणा- भिलक्षितः आकाशदेशः शब्द इति वदद्भिर्वैयाकरणैः शब्दस्याकाशाश्रितत्वाभ्युपगमान्नि- त्याश्च शब्दा इति .च नित्यत्वाभ्युपगमादमूर्तत्वाच्चाकाशाश्रितविभुत्वदृष्टान्तेन संस्कार्यत्वं वारणीयमित्याह—आकाश इति । विभुत्वस्य ज्ञानविषयत्वलक्षणप्राप्तिसम्भवेऽपि गां दोग्धीत्यादौ स्वरूपप्राप्तेः संस्कारत्वेन प्रसिद्धायाः वारणीयत्वेनात्रेष्टत्वान्न साध्यविकल- त्वम् । अइउणित्यादिचतुर्दशसूत्रात्कृताणादिसंज्ञात्मकप्रत्याहारमात्रेण वर्णव्यक्तिसंस्कारसिद्धेः शेषग्रन्थानर्थक्यं स्यादित्याह—वर्णेति । जातिव्यक्तिसंस्कारपक्षौ दूषयित्वा, समुदाय- संस्कारपक्षं दूषयति—समुदायास्त्विति । नन्वेकेषां गकारौकारविसर्जनीयानामेकगोशब्दबुद्धिविषयत्वलक्षणः समुदायो लोकसिद्धत्वान्नाप्राप्तत्वमर्हतीत्याशङ्कयाह—प्रत्येकं चेति । तथा नवमे हिरण्यशकलसहस्ते णाग्निं प्रोक्षतीत्यग्निबुद्धिविषयभूतानामिष्टकानां धर्म्मः प्रोक्षणादिः प्रतीकमावर्त्तनीय

इति पूर्वपक्षे, वक्ष्यते, तथाऽत्रापि गकारादिवर्णसमुदायसंस्कारपक्षे प्रतिवर्णं संस्कारावृत्तिः प्रसज्येतेत्यर्थः । ननु पूर्वपक्षस्यास्थायित्वान्न दृष्टान्तता युक्तेत्याशङ्क्याह -- न चेति । अयमाशयः -- इष्टकाव्यतिरिक्तावयव्यभावेनाग्निशब्देस्येष्टकासमुदायमात्रवाचित्वात्समुदायसंस्कारत्वाभ्युप - गमेन पूर्वपक्षिते, स्थण्डिलारूपस्यावयविनाऽग्निशब्दवाच्यस्येष्टकाभिरारम्भोपपादनेन संस्कार्यद्रव्यैक्यात्संस्कारानावृत्तिरिति पूर्वपक्षन्यायानुपमर्देन सिद्धान्तकरणाद् युक्तं दृष्टान्तत्वम् । न चात्र गकारादिभिः एको गोशब्दाऽवयव्यारम्यते, येनाग्निधर्मसिद्धान्तन्यायो न स्यात् । 'विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वंगतैरपि । व्यतिरिक्तपदारम्भो वर्णैर्नत्रोपपद्यते ॥' इति श्लोकेन स्फोटवादे निराकृतत्वादिति स्फोट-गोशब्द-गत्वानाम्प्यवयविवन्निरा- कृतत्वान्न संस्कार्यत्वं सम्भवतीत्याह स्फोटेति । समुदायसंस्कारपक्षे च सर्ववर्णसमुदायो वा संस्क्रियेत, कतिपयवर्णसमुदायो वा तत्राद्ये पक्षे सर्ववर्णसमुदायस्यार्थाभावादर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिकमयुक्तं स्यादित्याह-सर्वेति । कतिपयवर्ण- संस्कारपक्षेऽपि केचिदेव वर्णाः संस्क्रियन्ते, नान्य इति व्यवस्थाहेत्वभावेन स्वरूपतः कतिपयत्वायोगात्कतिचिदेवं संस्क्रियन्त इति संख्यातः कतिपयत्वं वाच्यम् । तत्र संख्यां विना वर्णानामसंस्कार्यत्वेनान्वयव्यतिरेकाभ्यां वर्णसंख्यायाः संस्कार्यत्वात्साधुत्वं स्यात् । तच्च गाव्यादिपदेषु अपि समानमित्याह--अथेति । गवादिपदगतेव वर्णसंख्या संस्कार्या, न गाव्यादिपदगतेति व्यवस्थाशङ्कानिरासार्थम्-पदे पदइत्युक्तम् । क्रमसंस्कारपक्षं दूषयति संस्क्रियेतेति । शब्दधर्मत्वाभावेन तत्संस्कारेऽपि शब्दस्य साधुत्वं न सिध्यतीत्युक्तम् । ग्रहणोच्चारणद्वारापचारिकशब्दधर्मत्वाभ्युपगमेऽपि गाव्यादिष्व- प्यानुपूर्व्याः सम्भवात्साधुत्वं प्रसज्येतेत्यर्थः । ग्रहणोच्चारणसंस्कारपक्षौ दूषयति- ग्रहणेति । अत्रोपरिष्टादित्यपेक्षायामाह - वक्ष्यति हीति । यथाभिक्रामं जुहोतीत्यभिक्रमणस्य होमसाधनत्वासम्भवोऽभिक्रमाधिकरणपूर्वपक्षे वक्ष्यते । तथा ग्रहणमुच्चारणं वा प्रतिव्याकरण- क्रियायाः साधनत्वं न भवतीत्यर्थः । ननु साक्षात्साधनत्वाभावेऽपि, यथाभिक्रमणस्य कर्तृप्रत्यासत्तिजननद्वारा होमसाधनत्वं सिद्धान्ते वक्ष्यते, तथोच्चारणसाधनतालवादिसंस्कार- द्वारोच्चारणसाधनत्वं ग्रहणसाधनश्रोत्रसंस्कारद्वारा वा ग्रहणसाधनत्वं व्याक्रियाया भविष्यतीत्याशङ्क्याह -- तालवादीति । अस्तु तर्ह्यूच्चारयितुः पुरुषस्य संस्कारद्वारा तन्मनः संस्कारद्वारा वोच्चारणसाधनत्वं ग्रहीतृपुरुषसंस्कारद्वारा, तन्मनःसंस्कारद्वारा वा ग्रहणसाधनत्वमिति स्वयमेवाशङ्कयाह मनो वेति । यच्छास्त्रारम्भे भाष्यकृता 'अथ शब्दानुशासनमित्युक्त्वा अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते । शब्दानुशासनं शास्त्र- मधिकृतं वेदितव्यमिति स्वथमेव व्याख्यातम् तद्व्यर्थं स्यादित्यर्थः । इतश्च शब्दानुशा- सनं व्यर्थमित्याह - शिष्येति ।

५६८ मीमांसादर्शनम् [ सू० . किं च वैयाकरणैः स्फोटात्मकः शब्दोऽभ्युपगतः । तस्य च निरवयवत्वात्प्रकृति- प्रत्ययान्वाख्यानरूपः संस्कारो न युक्त इत्याह — स्फोटेति । स्फोटपक्षे न केवलं वर्णा एवा- सन्तः किं तु प्रकृतिप्रत्ययावपीत्यर्थः वाक्यस्फोटापेक्षायां च स्वरूपेणापि पदस्फोटस्यासत्त्वा- त्संस्कार्यत्वं न युक्तमित्याह — वाक्येति । नन्वसतामेव नामादीनां निष्कृष्य कल्पनया संस्कारो भविष्यतीत्याशङ्कयाह — अपोद्धारेणेति । कल्पनाप्यसतो न सम्भवतीत्याशयः । ननु निरवयवोऽपि पदस्फोटस्तत्तद्- ध्वनिसहकृतश्रोत्रवशात्पूर्वं गकारादिरूपेण प्रतीयते, ततस्तदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौरित्येकं पदमिति स्फुटं पदतत्त्वज्ञानम्, रत्नतत्त्वपरीक्षायामिवानैकमिथ्याज्ञान- सहकृतेन चक्षुषा स्फुटा रत्नतत्त्वप्रतीतिः । एवं वाक्यस्फोटोऽपि पूर्वं गोपदाकारेण शुक्लपदाकारेण च प्रतीयते । ततः पदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौः शुक्ल इत्येकं वाक्यमिति स्वरूपेण वाक्यस्फोटः प्रतीयते । ततश्च ध्वनयो यत्स्थानकरणवशादेकस्मिन्पद- स्फोटे वाक्यस्फोटे वा यद्वर्णाकारम्, यत्पदाकारं वा ज्ञानं जनयन्ति, पदवाक्यस्फोटान्तरेऽपि तत्स्थानकरणवशात्तद्वर्णाकारम्, तत्पदाकारं वा ज्ञानं जनयन्तः सादृश्यनिमित्तभ्रान्तिवशात्स एवायं वर्णः । तदेवेदं पदमिति प्रत्यभिज्ञानं जनयन्तीत्यन्योन्यविलक्षणेषु गौः शुक्लो गौः 'कृष्ण इत्यादिषु सादृश्याध्यवसितैकत्वानां नामादीनामपोद्धारो भविष्यतीत्याशङ्कयाह — अन्येति । अन्यस्य वाक्यस्फोटस्यावयवानामन्यस्य वाक्यस्फोटस्यावयवैः सारूप्यादित्यर्थः । सादृश्यमप्यसतो न सम्भवतीत्याशयः । ननु — गवये नरसिंहे वाप्येकज्ञानादृते यथा । भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥' इत्यादिस्फोटवादिभिरसतामप्यवयवानां सादृश्यसम्भवे निदर्शनमुक्तम् । तत्कथमसत्त्वे सादृश्यानुपपत्तिरित्याशङ्कयाह — गवयादिष्विति । लेख्यादिकृतेषु गवयादिषु येऽवयवाः तेषां मुख्यगवयादिगतैः कर्णखुरादिभिरवयवैः सारूप्यं यन्निदर्शितम्, तत् तेषां सत्यत्वा- त्स्वावयवसामान्ययोगाच्चोपपन्नम्, तथा इहापि वाक्यस्फोटे तथात्वे अवयवानां सत्यत्वे स्वावयवसामान्ययोगे च सति सारूप्यं स्यात् । ततश्च निरवयवस्फोटसिद्धान्तहानि- रित्याशयः । विस्तरेण चैतत्पूर्वं निरस्तमित्याह — वाक्येति । उपसंहरति -- तेनेति । नामादीनामपोद्धारेण प्रकृतिप्रत्ययान्वाख्यानरूपस्य संस्कारस्य कल्पनेत्यर्थः । अप्रामाण्या- पत्तेश्चासतामपोद्धारो न युक्त इत्याह - अन्वाचक्षीतेति । यच्च शब्दानुशासकत्वेन शास्त्रत्वं व्याकरणस्योक्तम्, तत्पदविषयं वा स्यात्, वाक्यविषयं वा । तत्रासत्यत्वेन पदानामनुशास्यत्वाद्वाक्यानुशासनस्य च व्याकरणेना- कृतत्वान्नोभयथापि युक्तमित्याह - अशिष्यत्वादिति । युक्तं तु वाक्यस्यैवानुशासनं लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिककृताथं प्रयुक्तानां शब्दानामनु- शास्यत्वाभिधानाद्वाक्यस्यैव चार्थप्रयुक्तत्वेनेष्टत्वादित्याह — अर्थेनेति ।

२४/१ प्रथमाध्याये तृतीयपादः ५६९ ननु सूत्रकारादिभिः पदपदार्थानामनिराकरणात्कथमुच्यते, वाक्यमेवंविधं चेष्टमित्या- शङ्क्य, टीकाकृतैवमुक्तमिति दर्शयितुमाह — ब्राह्मणार्थ इति । यथा ब्राह्मणशब्दे ब्रह्मशब्दार्थो नञर्थश्च णकारार्थ एव वा ज्ञानाख्योऽनिरूपाख्यश्च नास्ति । कम्बलशब्दे च कंशब्दार्थो वलशब्दार्थो वा नास्ति, तथा देवदत्तादयः शब्दा वाक्येऽनर्थकाः स्युरिति टीकाकारश्लोकार्थः । एवमादिना ग्रन्थेन बहुप्रपञ्चमुक्त्वा पदानामर्थव्यभिचाराभिधानाद्व्यभिचारिणामपि केवलःप्रयोगित्वेनार्थपरत्वनिराकरणाद्वाक्यान्वाख्यानार्थत्वेन व्याकरणव्याचिख्यासा टीका- काराणामवसीयते । पश्चात्तु तदनाश्रयणात्पूर्वापरविरुद्धार्थाभिधानेनाप्रामाण्यं व्याकरणस्य सूचितं भवतीत्यर्थः । सूत्रकृतो जनिकर्त्तुरित्यादिनिषिद्धसमासकरणात्पूर्वापरविरुद्धामिधानं दृष्टान्तितम् । सन्ति यदृच्छाशब्दा न सन्तीत्यादिवात्तिककृतः । आकृतिर्नित्या द्रव्यमनित्यम् । द्रव्यं नित्यमाकृति रनित्येत्यादिभाष्यकृतः । सूत्रकारादिवदेव वाक्यान्वाख्यानानाश्रयणादिति वा योज्यम् । पूर्वपक्षमुपसंहरति — अत इति । आचार्याणां परस्परं विप्रतिपत्तेविगान- भूयिष्ठत्वम् । स्वयमेव पूर्वापरविरुद्धामिधानात् विरुद्धत्वम् । एकानेकमूलश्रुतिकल्पना- योगान्निर्मूलत्वम् । मुख्यामुख्यप्रयोजनासम्भवान्निष्फलत्वम् । सर्वैर्मर्षितव्यमिति भाष्योक्तमं- स्वाध्यायकालवेदिकशब्दप्रयोगेऽप्यव्यवस्थाशङ्का कस्यचित्स्यात्तन्निवृत्त्यर्थमाह — ततश्चेति । यस्तूपपादितमर्थं तार्किकत्वाभिमानी साधनप्रयोगमन्तरेण न बुध्यते, तं प्रति साधन- प्रयोगा वक्ष्यन्त इत्याह — अत्रेति । सर्वेषामर्थप्रत्यायनशक्त्वलक्षणे वाचकत्वे तावत्प्रयोग- माह — गावीति । गौणलाक्षणिकानामादिशब्दोपादानानाशङ्कानिवृत्त्यर्थं प्रकृतग्राही सर्वशब्दः गोणीशब्दस्यावपनवाचित्वात्सिद्धसाध्यतामाशङ्क्य — गोत्वस्येत्युक्तम् । उस्त्रादिशब्दैरनै- कान्तिकत्वं तत्र शब्देन निरस्तं गाव्यादिशब्देष्वृद्धशब्देन अर्थप्रत्यायनाङ्गत्वलक्षणे साधुत्वे प्रयोगमाह — एवमिति । अत्रापि गोणीशब्दे सिद्धसाध्यतापरिहारार्थं गोत्वे साधुत्वमिति विशेषणीयं साधनशब्दोक्तस्य प्रत्यायकत्वस्य गाव्यादिशब्दैरनैकान्तिकत्वमाशङ्कयार्थायैव साधनादिति मध्यमपदलोपिसमासाभ्युपगमेन मूलशब्दोपस्थापननिरपेक्षार्थप्रत्यायकत्वरूप- हेतुसूचनार्थोऽर्थशब्दः । अपभ्रंशरूपापशब्दत्ववायोगाच्छब्दत्वाभावरूपमपशब्दत्वं गाव्यादीनां वाच्यमित्यापाद्य, तन्निराकरणे प्रयोगमाह — श्रोत्रत्वादीति । अत्रापि प्रयोगद्वये दृष्टान्तः स एवेत्याह — पूर्वेति । अनादित्वे प्रयोगमाह — अनादित्वं चेति । अवध्यनवधारणस्य चिरन्तनकूपादिभिरनैकान्तिकत्वादवध्यभावावधारणादिति हेत्वर्थः । तत्सिद्धयर्थम् — वक्तुरित्युक्तम् । गवादिशब्दसम्बन्धे सर्वोऽन्यस्मात्प्रपद्यतं । महत्तद्व्यवहारित्वादिति सम्बन्धानादित्वन्यायेन सर्वेभ्यो वक्तृभ्यः पूर्वं विद्यमानत्वादि- त्यर्थः । साधुभाषणस्यादृष्टार्थत्वात्प्रयोगमाह — साधुभिरिति । अत्रैव साध्ये हेतुदृष्टान्तान्तर- माह — अशास्त्रेति । बुद्धोक्तैश्च शब्दैरर्थामिधानवदित्यर्थः । हेतुसिद्ध्यर्थं संस्कृतव्याकरण-

सूत्र में दिया गया है। प्रस्तुत प्रसङ्ग में यह विचारणीय है कि अनेक शब्द एक अर्थ

५७० मीमांसादर्शनम् [ सू० स्याशास्त्रत्वे प्रयोगमाह—शास्त्रं नेति । संस्कृतव्याकरणत्वमित्यध्याहारः । साक्षाच्छास्त्र- त्वाभावेऽपि वेदमूलतया प्रमाणत्वात्तद्विहितस्य साधुभाषणस्याग्न्यादिवद्दृष्टार्थत्वं भविष्य- तीत्याशङ्क्य तदभावे प्रयोगमाह—वेदेति । वेदाङ्गत्वभावे प्रयोगमाह—शास्त्राङ्गमपीति । हेतुसिद्ध्यर्थमतादर्थ्ये प्रयोगमाह—अतादर्थ्यमिति । कथादिरेव दृष्टान्तः । वेदानङ्गत्वेऽपि शब्दप्रयोगाङ्गत्वात्प्रयोगोत्पत्तिशास्त्रत्वं भविष्यतीत्याशङ्क्य, तदभावे प्रयोगमाह— न चेति । एतदेव व्याचष्टे—यथा हीति । अशास्त्रत्वादिसाधनस्य पूर्वपक्षोपयोगमाह— तस्मादिति । यदाचारेणैषां प्रयोज्यत्वमवगतम्, न तच्छास्त्रस्थैर्वारितमित्यर्थः ॥२४॥ भा० प्र०—एक शब्द का अनेक अर्थ मानना उचित नहीं है। इसका विवरण पूर्व सूत्र में दिया गया है। प्रस्तुत प्रसङ्ग में यह विचारणीय है कि अनेक शब्द एक अर्थ के वाचक हो सकते हैं या नहीं ? इस प्रसङ्ग में व्याकरणशास्त्र की उपेक्षा नहीं की जा सकती है, अतः यह विचारणीय है कि व्याकरण स्मृति है या नहीं ? और यह व्याकरण प्रमाण है या नहीं—इसी का विचार इस सूत्र के द्वारा जैमिनि ने किया है। एक ही अर्थ को कहने वाला गो, गावी, गोणी, गोपोतालिका आदि शब्द हैं, इन शब्दों में सभी शब्द गल कम्बल आदि विशिष्ट प्राणिविशेष अर्थ के बोधन में प्रमाण है या इनमें एक अर्थात् गो शब्द ही कथित अर्थ में प्रमाण है ? इस विषय का निर्णय करने के लिए प्रथम यह स्थिर करना होगा कि गो, गावी आदि शब्दों में क्या गो शब्द ही अनादि रूप में पूर्वोक्त अर्थ का वाचक है और अतिरिक्त उस शब्द का अपभ्रंश है या सभी शब्द अनादि हैं। इस प्रकार सन्देह होने पर पूर्वपक्षियों ने कहा है कि देश भेद एवं शिक्षित और अशिक्षित व्यक्तियों के भेद से गो, गावी आदि सभी शब्दों से सास्नादि- विशिष्ट प्राणिविशेष रूप अर्थ का बोध होता है, सभी शब्द उस अर्थ के वाचक हैं। किस समय से शब्द अर्थ का बोध करा रहे हैं इसका निश्चय न होने से ये सभी शब्द अनादि हैं। क्योंकि, इस समय जिस प्रकार गावी और गोणी शब्द से अर्थ विशेष का बोध हो रहा है, उसी प्रकार अतीत काल में भी इन शब्दों से इस अर्थ का बोध होता था, इसको न मानने का कोई कारण नहीं है। अतः गो शब्द के समान ही गावी आदि शब्द भी हैं, साधु भी हैं, कोई शब्द भी किसी शब्द का अपभ्रंश नहीं है। साधु और असाधु का निरूपण किसी प्रमाण से नहीं हो सकता है, अतः साधु और असाधु का भेद भी समीचीन नहीं है। यदि यह कहा जाय कि व्याकरण के द्वारा साधु और असाधु अर्थात् शुद्ध और अप- भ्रंश का निर्णय होगा ? इस कथन के प्रसङ्ग में यह कहना है कि व्याकरण का प्रामाण्य श्रुति के द्वारा बोधित नहीं है तथा व्याकरण सम्प्रदाय में सूत्रकार, वार्तिककार और भाष्यकार के कथन में साम्य या ऐक्य भी नहीं है। क्योंकि सूत्रकार पाणिनि के मत में सुशब्द निष्पत्ति ही व्याकरण का प्रयोजन है, वार्तिककार कात्यायन के मत में व्याकरण

सूत्र, वार्तिक और भाष्य के सिद्धान्त में मतभेद है। अतः व्याकरण प्रमाण नहीं है।

२५ ] प्रथमाध्याये तृतीयपादः ५७१ संस्कृत पद ज्ञानपूर्वक यज्ञादि कर्मों का अनुष्ठान (प्रयोग) करने से ही पारलौकिक स्वर्ग आदि फल उससे होता है। और भाष्यकार पतञ्जलि के मत में व्याकरण से संस्कृत पदों के भलीभांति=सम्यक् ज्ञान से ही चिन्मय भूमि की प्राप्ति होती है। इस प्रकार सूत्र, वार्तिक और भाष्य के सिद्धान्त में मतभेद है। अतः व्याकरण प्रमाण नहीं है। व्याकरण की मूलभूत कोई श्रुति भी नहीं है, यह किसी कर्म का विधायक भी नहीं है, अतः इसको स्मृति भी नहीं कहा जा सकता है, अतः स्मृति के रूप में भी व्याकरण प्रमाण नहीं है, अतः गो, गावी, गोणी आदि सभी शब्द यज्ञादि स्थल में प्रयुक्त हो ही सकते हैं, इसमें कोई आपत्ति नहीं है। प्रयोगोत्पत्त्यशास्त्रत्वात्=प्रयोग की उत्पत्ति की अर्थात् गो शब्द का ही प्रयोग करना चाहिए, गावी आदि शब्दों का प्रयोग नहीं करना चाहिए - इस प्रकार साधु शब्दों के प्रयोग के नियम के विषय में कोई वेदवचन न होने से, 'शब्देषु न व्यवस्था'=साधु शब्द एवं अपभ्रंश शब्दों के प्रयोग को कोई व्यवस्था अर्थात् नियम नहीं हो सकता है ॥२४॥ शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् ॥ २५ ॥ सि० शा० भा०—महता प्रयत्नेन शब्दमुच्चरन्ति—वायुर्नाभेरुत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितः, मूर्द्धानमाहत्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दानभिव्यनक्ति। तत्रापारध्येताप्युच्चारयिता। यथा शुष्के पतिष्यामीति कर्दमे पतति, सकृदुपस्पृक्ष्यामीति द्विरुपस्पृशति। ततोऽपराधात्प्रवृद्धा गाव्यादयो भवेयुर्न नियोगतोऽविच्छिन्नपारम्पर्या एवेति ॥ २५ ॥ सिद्धान्तः ॥ भा० वि०—नियामकाभावात्सर्व एव साधवः सर्वे च प्रयोक्तव्या इति प्राप्ते प्रत्याह—शब्द इति । यदुक्तं सर्वेऽनादयइति नायं नियमः पुरुषापराधादन्यथापि शब्दाभिव्यक्तिसंभवादिति दर्शयितुं सूत्रं व्याचष्टे—महतेति । यदायं चेतनो विवक्षति, तदास्य महान् कार्यनिष्पादनक्षमः प्रयत्नो जायते । ततश्शब्दोच्चारणं मनःप्रेरणरूपं व्यापारं करोति । तेन च मनसाभिहतोऽग्निरोदर्यो मारुतं प्रेरयति, स चोत्थाय नाभेरूर्ध्वं गच्छन् उरसि बहुलावकाशे विस्तीर्णं कण्ठे चाल्पावकाशे विपरिवृत्तो भ्रमन् वेगवशान्मूर्धानमाहत्य परावृत्तो वक्त्रे ताल्वादिस्थानवति विचरन् विशेषेण शब्दाभिव्यञ्जकरूपेण वर्तमानो विविधान्छब्दानभिव्यन- क्तीत्यर्थः, तदनेन प्रयत्नाधीना शब्दाभिव्यक्तिरित्युक्तं भवति, ततः किमत आह- तत्रेति । यदि शब्दानां नित्याभिव्यक्तत्वम्, तदा न कस्यचिदपराधः, प्रयत्ना- धीनायां तु तस्यां स्यादेव प्रयतमानस्यापराधः, यथा लङ्घनादिषु प्रयत्नसाध्येषु तद्वत इत्यर्थः, तत्र च शब्दे प्रयत्नेन निष्पत्तेर्दर्शनात् प्रयतमानस्यापराधभागित्वम्, ततः किं ? अत आह—तत्रेति । अपराधादिति । अपराधकरणत्वादिरूपादित्यर्थः

कथमपराधप्रवृत्तत्वसंभवः ? अर्थप्रत्ययान्यथानुपपत्त्यादिवाचकत्वनिश्चयादत आह—न नियोगत इति । यत्रार्थप्रतिपत्तेरन्यथानुपपत्तिः, तत्र वाचकत्वनिश्चयः, इह तु वक्ष्यमाणन्यायेनान्यथोपपत्तेः न अनादिवाचकत्वकल्पना युक्तेति भावः । एवमपराधप्रवृत्तत्वसंभवप्रतिपादेन सर्वेषां साधुत्वनियमो निराकृतः; इदानीमेक एव साधुरितरेऽपभ्रंशा इति स्वपक्षे युक्तिमाह ॥ २५ ॥ एवं प्राप्ते सिद्धान्तः त० वा०—अभिधीयते— अनैकान्तिकता तावदर्थापत्तेरिहोच्यते । अन्यथाऽप्युपपन्नत्वात्प्रयोगार्थविबोधयोः ॥ ८३३ वाचकत्वादृते यस्तु न कथंचित्प्रयुज्यते । प्रयोगप्रत्ययायत्ता तत्र वाचकता ध्रुवम् ॥ ८३४ संशयप्रतिबद्धे च पूर्वपक्षार्थनिर्णये । इष्टार्थनिश्चयः शक्यः सुखं सिद्धान्तहेतुना ॥ ८३५ दृढविपर्ययज्ञानानन्तरं सहसैव च सम्यग्ज्ञानोत्पादातिभाराद्द्वारेकदेशावता- रणार्थं संशयोत्थापनामात्रमेव तावद्युक्तम् । संसिद्धव्यवहारत्वादनादित्वं यदाश्रितम् । अपराधप्रसङ्गेन तत्रैषा संशयक्रिया ॥ ८३६ यदि ह्येकान्तेन यादृशः परमुखाच्छब्दः श्रूयते, तादृगेव सर्वेण सर्वदोच्चार्येत । ततो वृद्धव्यवहारपरम्परायां सत्यां गवादिभिरिव न गाव्यादिभिः कश्चिदपि कालः शून्य आसीदित्यध्यवसायादनादित्वमङ्गीक्रियेत । अपराधजस्य शब्दस्य संभवात्तु तदाशङ्कायां सत्यां नैकान्ततः सर्वेषामनादित्वम् । 'प्रयत्ननिष्पत्तेरिति' पूर्वोक्त- न्यायावधारितप्रयत्नाभिव्यक्तिरेव हेतुत्वेनोपदिश्यते । अपर आह—अप्रयत्ननिष्पत्तेरपराधस्य भागितेति । यो ह्यस्खलितप्रयत्नः शब्दमभिव्यनक्ति, तस्य परम्परागतशब्दोच्चारणमात्रात्सर्वे समानविधाना भवेयुः । यदा त्वप्रयत्ननिष्पत्तिरपि शब्दे संभाव्यते तदा तत्रापराधजरूपान्तरापत्तिप्रस- ङ्गान्न नियोगतः सर्वशब्दानां समानविधानत्वम्¹ । अथ वा शब्दविषयस्य प्रयत्न- स्यैव या निष्पत्तिः तस्यामपराधः सुनिपुणानामप्यविकलकरणानां दृश्यते, किमुतानिपुणविगुणकरणानाम्— यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः । शब्दे स तदभिव्यङ्ग्ये प्रसजन्केन² वार्यते ॥ ८३७ १. क. (टिप्पण्यां) विषयत्वमिति पा० । २. क. प्रसजत्केन ।

३५ ] प्रथमाध्याये तृतीयपादः ५७३ अतश्चानपराधेन व्यज्यमानेषु साधुता । सापराधेष्वसाधुत्वं व्यवस्थैवं च तत्कृता ॥ ८३८ लोकेऽपि च – अविनष्टे विनष्टे च दृश्येते साध्वसाधुते । तथा सति च तद्द्वारा सिद्धिः शब्दापशब्दयोः ॥ ८३९ सत्यत्वं साधुत्वम् असत्यत्वमसाधुत्वमिति पक्षः यद्वा सत्यत्वमेवेदं साधुत्वमभिधीयते । असत्यवमसाधुत्वं धर्माधर्मोपयोगवत् ॥ ८४० धर्माधर्मव्यवस्था हि सत्यानृतनिबन्धना । विहितप्रतिषिद्धत्वात्तयोश्चेष्टा सशास्त्रता ॥ ८४१ अर्थसत्यं यथा वाच्यं शब्दसत्यं तथैव हि । शब्दानृतं च हातव्यमर्थानृतवदेव नः ॥ ८४२ एवं सति व्यवस्थाने भक्ष्याभक्ष्यविभागवत् । प्रयोगोत्पत्त्यशास्त्रत्वादिति हेतोरसिद्धता ॥ ८४३ अथ वा यदुक्तम्— साधोर्नित्यप्रसक्तत्वादसाधोरप्रसङ्गतः । न धर्मनियमोऽस्तीति तत्रैदमभिधीयते ॥ ८४४ अपराधस्य भागित्वादुभयं सावकाशकम् । साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥ ८४५ यदि हि साधुः प्रयुज्यमानो न कश्चित्कदाचिदपि विनश्येत् ततस्तस्य नित्य- प्राप्तत्वान्निवर्त्यापशब्दाप्राप्तेश्च नियमशास्त्रमनर्थकं भवेत् । यदा त्वपराधभागित्वे सति द्वयोरप्यनियता प्राप्तिः सदा साधुनियमकारिणः शास्त्रस्य न विषयव्याघातः । एक एवायं शब्दः पुरुषाशक्ति-प्रमादकारणादिभेदात्तां तां वर्णन्यूनातिरेकक्रमान्य- त्वाद्यवस्थामनुपतंस्तेन तेनापभ्रंशरूपेण गृह्यमाणस्तमेवार्थं प्रतिपादयतीति, न पर्यायकल्पनया वाचकशब्दान्तरत्वैकान्तसिद्धिः । किं च—देवदत्तादिनामानि निःसन्दिग्धानि यानि च । बालैस्तत्तादिरूपेण नाश्यन्ते तैश्च संशयः ॥ ८४६ तत्तादिशब्दादपि हि बालप्रयुक्तात्तदनुकारिकठोरबुद्धिप्रयुक्ताद्वा देवदत्ता- द्यर्थप्रत्ययमुपलभमानः कथमिव प्रयोगप्रत्ययदर्शकाभ्यामेव वाचकत्वमध्यवस्येत् ? अपभ्रंशाश्च ये केचिद्रूढा गाव्यादयो जने । तेऽपि गाव्यादिरूपेण नाश्यन्ते व्यभिचारिताः ॥ ८४७

५७४ मीमांसादर्शनम् [ सू० कतिषुचिदेव गव्यादिषु चिरापभ्रष्टत्वादृढयाशङ्कया साधुत्वभ्रान्तिर्भवेत् । ये तु सन्त्येव जडप्रायज्ञानकरणैरभिनवगव्यादिरूपेण विनाश्यशब्दाः प्रयुज्यमानाः प्रकृत्यनुसरणद्वारेण वार्थं प्रत्यापयन्त उपलभ्यन्ते, तेष्वपि प्रयोगप्रत्ययदर्शनम्- स्तीत्यनैकान्तिकता । ततश्च त्वत्प्रयुक्तोऽयं हेतुरप्यपराधभाक् । अनैकान्तिकतादोषान्न ह्यसौ साधनक्षमः ॥ ८४८ अन्यथोच्चार्यमाणश्च शब्दोऽपभ्रश्यते यथा । तथा हेतुरनैकान्ताद्धेत्वाभासत्वमृच्छति ॥ ८४९ तस्माद् दृष्टप्रयोगेऽपि पुनरस्ति विचारणा । वाचकोऽयं न वेत्येवं सति वाऽन्येन निर्णयः ॥ २५ ॥ ८५० न्य० सु०—अत्र भाष्यकृता महता प्रयत्नेनेत्यादिना सूत्रं व्याख्यायते—अपराधादि- त्यादिना । गव्यादिशब्देष्वपराधसम्भावनामात्रं सूत्रस्य तात्पर्यमुक्तम् । तत्सम्भावनामात्रेण सिद्धान्तासिद्धेरयुक्तमाशङ्क्य नेदं सिद्धान्तसूत्रम्, किं तु पूर्वपक्षदूषणार्थमित्याह— अनैकान्तिकता तावदिति । निर्णयवचनादेकान्तशब्दात्तस्मै प्रभवति सन्तापादिभ्य इति ठञ्प्रत्यये कृतेऽनैकान्तिकशब्दव्युत्पत्तेरनिर्णायकत्वम् अनैकान्तिकता । एवं न कस्य- चिच्छब्दस्य वाचकत्वं स्यादित्याशङ्क्याह—वाचकत्वादिति । परपक्षसन्देहापादनस्य स्वपक्षनिर्णयानुपयोगित्वादानर्थक्यमाशङ्क्याह—संशयेति । एतदेव व्याचष्टे—दृढेति । पूर्ववाचकत्वानिश्चयार्थत्वेनैतत्सूत्रं व्याख्यातम् । इदानीमन दित्वानिश्चयार्थत्वेन व्याचष्टे — अथ वेति । श्लोकं व्याचष्टे—यदि हीति । ननु विविधांश्शब्दानभिव्यनक्तीति भाष्येण कस्मै न सोत्रो निष्पत्तिशब्दोऽभिव्यक्त्यर्थत्वेन व्याख्यात इत्याशङ्क्य, शब्दाधिकरणे शब्दोत्पत्तेर्निषिद्धत्वादित्याह—प्रयत्नेति । यथाभाष्यं द्वेधा सूत्रं व्याख्याय स्वयमकार- प्रश्लेषेणाप्रयत्नेनापि निष्पत्तेरिति मध्यमपदलोपिसमासाङ्गीकरणेन तावदन्यथा व्याचष्टे— अपर इति । विधानशब्दः प्रकारवचनः निष्पत्तिशब्दस्य चोत्पत्त्यर्थत्वेन षष्ठ्यन्तत्वेन च प्रयत्नस्य निष्पत्तेरिति च षष्ठीसमासाश्रयणेनैतत्सूत्रं व्याख्येयमित्याह—अथ वेति । अपराधव्यतिरेकजनितेयं षष्ठीति प्रकटयितुं तस्यामिति सप्तमी । ननु प्रयत्ननिष्पत्तेरपराध- भागित्वे शब्दस्य किमायातमित्याशङ्क्य तद्गतस्यापराधस्य शब्दे सञ्चारप्रतिपादनार्थत्वेन शब्द इति सूत्रावयवं व्याचष्टे—यद्वेति । यद्वैकोपलक्षणाभावात्साध्वसाधूनां विधिनिषेध- विषयत्वासम्भवाभिप्रायेण साधुभिर्भाषितासधुभिर्नेति प्रयोगोत्पत्तेरुच्चारणनियमस्याशास्त्रीय- त्वादिति यो हेतुरुक्तः, तस्यासिद्धत्वप्रतिपादनार्थमेतत्सूत्रमित्यन्यथा व्याख्यातम् । साध्व- साधुत्वव्यवस्थां तावदाह – अतश्चेति । . 'ग्रस्तं निरस्तं निहतावलम्बिते अम्बूकृतं ष्मातमथो विकम्पितम् । संदृष्टमेणीकृतमर्द्धकं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ॥'

२५ ] प्रथमाध्याये तृतीयपादः १७५ इत्यादिसमृत्यवगतग्रस्तवत्वादिदोषवर्जितनियत ह्रस्वा दिकालाभिव्यङ्ग्ययथालक्षितक्रम- ग्राह्येषु वर्णेष्वनियुक्तो साधुशब्दप्रयोगात्तद्विपरीतेषु चासाधुशब्दप्रयोगादवश्यं तदालम्बनं किंचित् व्यवस्थितं वक्तव्यम् । तत्र च नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् १-१-१८ इति सूत्रे साधुत्वेनाभिमतानां नित्यानां शब्दाना मर्थप्रत्ययना ङ्ग्लवस्योक्तत्वात् तस्य च । फलवद्व्यवहाराङ्गभूतार्थप्रत्ययनाङ्गता । निष्फलत्वेन शब्दस्य योग्यत्वादवसीयते ॥ इति वार्त्तिकेनो पादितत्वादर्थप्रत्ययना ङ्ग्लत्वं साधुत्वमवगम्यते । तच्च वाचकवृत्त्या लक्षणावृत्त्या गौणोवृत्त्या वेति त्रिविधम् । गाव्यादिशब्दानां मुख्यार्थान्तराभावाद् गौणलाक्ष- णिकत्वे तावदनाशङ्कनीये । वाचकशक्तिकल्पनं त्वन्यथाप्युपपत्तेर्निषिद्धम् । न च प्रकारान्त- रेण शब्दस्यार्थप्रत्यया ङ्ग्लत्वं सम्भवतीत्यव्याप्त्यतिव्याप्त्यभावादेतदेव साधुत्वलक्षणं युक्तम् । तच्चानपभ्रष्टेष्वेव शब्देषु, नापभ्रष्टेष्वित्यनपभ्रंशापभ्रंशकृता साध्वसाधुव्यवस्था सेत्स्यतीत्यर्थः । दृष्टं चानपभ्रष्टेष्वेव सुवर्णादिषु व्यवहारा ङ्ग्लत्वलक्षणं साधुत्वम्, नापभ्रष्टेषु कूटेष्वि- त्याह - लोकेऽपि चेति । इदमेव वाऽनपभ्रष्टत्वं साधुत्वम् अपभ्रष्टत्वं चासाधुत्वम्, तयोश्च सम्यक्त्वासम्यक्त्ववाचिभ्यां सत्यासत्यशब्दाभ्यां वक्तुं शक्यत्वात्सत्यं वदेदनृतं न वदेदिति विधिनिषेधविषयत्वोपपत्तेर्धर्माधर्मोपयोगोस्तीत्यन्यथा साध्वसाधुव्यवस्थाम्राह-यद्वेति । एतदेव विवृणोति-धर्मेति । नन्वर्थतथात्वा तथात्वविषयत्वाद नयोर्विधिनिषेधयोर्न शब्द- तथात्वातथात्वविषयता युक्तेत्याशङ्कयाह अर्थसत्यमिति । एतच्चार्थे सत्यासत्यत्वयोः सत्त्वासत्त्वरूपत्वाच्छब्दे चानपभ्रष्टापभ्रष्टरूपत्वात्कृच्छू तयोश्च सत्यानृतशब्दयोरुभयपरत्वा- योगात् 'एष ह वै सत्यं वदन् सत्ये जुहोति, योऽस्तमिते सायं जुहोत्युदिते प्रातः-प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति येऽग्निहोत्रमित्यादिश्रुतिपर्यालोचनया वार्थपरत्वाव- सायाच्छब्दपरत्वानुपपत्तेर्गाव्यादिशब्दस्य च शिष्टैरगर्हितत्वात्प्रोढिमा त्रेणोक्तम् । उक्तेन च प्रकारेण साध्वसाधुत्वयोर्व्यवस्थायां सत्यां विधिनिषेधविषयत्वोपपत्तेः प्रयोगोत्पत्त्यशास्त्र- त्वादित्यसिद्धो हेतुरित्याह-एवमिति । अपराधभागित्वेन चासाधुत्वेनानियमेनाप्राप्तेरसाधूनां च प्रसक्तेर्नियमनिषेधविषयत्व- सम्भवात् प्रयोगोत्पत्त्यशास्त्रत्वादित्यस्य हेतोरसिद्धत्वमनेन सूत्रेणोच्यत इत्यन्यथा व्याचष्टे -- अथ वेति । धर्माय नियमो धर्माप्रसक्तये वा नियमो नास्तीत्यर्थः । एतदेव विवृणोति - यदि हीति । नियमशास्त्रशब्देन निषेधशास्त्रमप्युपलक्षितम्, साधुनियमकारिशब्देनाऽसाधु- निषेधकारिणोऽप्युपलक्षणम् । ननु गाव्यादिशब्दस्य सास्नादिमदर्थप्रतिपादकत्वे प्रसक्त्य- योगात्प्रसक्तिसिद्ध्यर्थमवश्यं सास्नादिपर्यायतुल्यं वाचकशब्दान्तरत्वमेष्टव्यमित्याशङ्कयाह- एक एवेति ।

सूत्रमित्यपेक्षायाम् ॥२५॥

५७६ मीमांसादर्शनम् [ सू० पूर्वं प्रत्ययादिति पूर्वपक्षभाष्येणार्थापत्तिः सर्वेषां वाचकत्वे प्रमाणमुक्तेत्यभिप्रेत्य, अन्यथाप्युपपत्तिलक्षणदूषणाभिधानार्थत्वेनैतत्सूत्रं व्याख्यातम् । इदानीमनुमानोपन्यासार्थं तद्भाष्यमित्यभिप्रेत्यानैकान्तिकत्वलक्षणहेतुदूषणप्रतिपादनार्थत्वेनैतत्सूत्रं व्याचष्टे—किं चेति । अनेन च देवदत्तादिशब्दे बालैः प्रयुक्तेऽप्यपटुकारणत्वेन प्रयत्ननिष्पत्तेस्सत्तादिरूपेण नाशात् कठोरबुद्धिभिरपि बालप्रयुक्तशब्दानुकरणप्रयत्ननिष्पत्तेस्सत्तादिरूपेण नाशादपराध- भागित्वं दृष्टम् । ततश्च प्रत्ययादितिभाष्योक्तस्य शब्दश्रवणानन्तरभाष्यर्थप्रत्ययलक्षणस्य वाचकत्वहेतोः, तदुपलक्षितस्य चार्थविषयशब्दप्रयोगलक्षणस्यानैकान्तिकतेति सूत्रं योजितम् । श्लोकं व्याचष्टे—तत्तेति । गाव्यादिशब्दैरप्यनैकान्तिकाविमौ हेतू इत्याह— अपभ्रंशाश्चेति । ननु तेषामपि पक्षत्वान्न विपक्षतेत्याशङ्कयाह—कतिषुचिदेवेति । एवमपराधभागिन्यवाचकेऽपि शब्दे हेतोर्दर्शनादनैकान्तिकत्वभूतमपशब्दापराधप्रतिपाद- नार्थमेव तत्—सूत्रमित्युक्तम् । हेतोरेव चानेकान्तिकत्वलक्षणपराधभागित्वम् अनेन सूत्रेणो- च्यत इत्याह—ततश्चेति । एवमपि सूत्रयोजना सम्भवतीत्यपिशब्दार्थः । यद्वा यथा शब्दे अन्ययोच्चारणादपभ्रंशलक्षणापराधभागित्वम्, तथा हेतोरनैकान्ति- कत्वाद्धेत्वाभासत्वलक्षणापराधभागित्वमित्येवमनैकान्तिकत्वप्रतिपादनार्थंयैतत्सूत्रं योज्य- मित्याह—अन्यथेति । एवमपि सूत्रयोजना सम्भवतीति चशब्दार्थः । सन्देहापादनार्थत्वं सूत्रस्योक्तमुपसंहरति—तस्मादिति । नन्वत्र सर्वेषां वा शब्दानां वाचकत्वमेकस्यैव चेति एवं द्वावेव पक्षौ । तत्र सर्ववाचकत्वपक्षे सन्देहापादनेन निरस्ते, पारिशेष्यादेकस्यैव वाचकतेति निर्णयसिद्धेरन्येन निर्णयाभिधानमयुक्तमित्याशङ्कयाह--संशयेति । किन्तदुत्तर- सूत्रमित्यपेक्षायाम् ॥२५॥ भा० प्र०—पूर्वपक्षियों ने कहा कि गो शब्द के समान ही गावी, गोणी आदि शब्द भी अनादिवाचक है, ऐसा स्वीकार किये बिना व्यवहार की उपपत्ति नहीं हो सकती है । इसके समाधान में यह कहा गया है कि शब्दों का सर्वथा साधु रूप से उच्चारण करने के लिए विशेष प्रयत्न आवश्यक है, क्योंकि नाभि प्रदेश से उत्थित, वक्षः स्थल में विस्तार प्राप्त नाद (शब्द) का कण्ठ आदि स्थलों के संस्पर्श से विशेष- विशेष आकार में अभिव्यक्त करने के लिए अतिशय प्रयत्न आवश्यक है, उसमें कुछ भी त्रुटि होने पर शब्द दुष्ट हो जाता है अर्थात् जिस रूप में उच्चारण करने की इच्छा रहती है, उसन भिन्न प्रकार में उच्चारण होता है । एक ही शब्द अनादि काल से चला आ रहा है । विशेष वक्ता के उच्चारण के दोष से उसमें विकृति हो जाती है और भिन्न रूप में उसका उच्चारण होता है, उस शब्द को जिसने उसके द्वारा ज्ञान प्राप्त किया है, उसका एवं उस सम्प्रदाय के अन्य लोगों के द्वारा भी उस विकृत रूप में ही प्रयोग चलने लगता है । इस प्रकार की उपपत्ति दृष्टविरुद्ध न होने से अर्थापत्ति प्रमाण के आधार पर सभी शब्दों को साधु मानना यह सङ्गत नहीं है । क्योंकि, अन्यथा उपपत्ति होने पर अर्थापत्ति नहीं मानी जाती है । इसलिए गो, गावी, गोता आदि