मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 672, कुल 804 में से
संदर्भ में पढ़ें६१८ मीमांसादर्शनम् [ सू० अथ नवममाकृत्यधिकरणम्। [ ९ ] प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ ३० ॥ पू० शा० भा०—अथ गौरित्येवमादयः शब्दाः किमाकृतेः प्रमाणम्, उत व्यक्ते- रिति सन्देहः । तदुपोद्घातत्वेन लोकवेदाधिकरणम् उच्यते—इदं तावत् परीक्ष्यताम् । किं य एव लौकिकाः१ शब्दाः त एव वैदिका उतान्य इति । यदा त एव, तदाऽपि किं त एवैषामर्था ये लोके, उतान्य इति संशयः । तत्रान्ये लौकिकाः२ शब्दाः अन्ये वैदिका, अन्ये चैषामर्था इति ब्रूमः । कुतः ? व्यपदेशभेदाद्, रूपभेदाच्च । इमे लौकिका; इमे वैदिका इति व्यपदेशभेदः३ । 'अग्निर्वृत्राणि जङ्घनत' इत्यन्यदिदं रूपं लौकिकादग्निशब्दात् । शब्दान्यत्वाच्च न त एवार्थाः । अपि च समामनन्ति, 'उत्ताना४ वै देवगवा वहन्ति' । आप श्रौ. ११।७।६ । इति । ये देवानां गावः त उत्ताना वहन्तीत्युक्ते गम्यत एव य उत्ताना वहन्ति, ते गोशब्देनोच्यन्त इति । तस्मादन्यो वैदिकगोशब्दस्यार्थः । तथा देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्' इति, हिरण्यपर्णो५ वै देवो वनस्पति- र्वेदे । 'एतद् वै दैव्यं मधु, यद् घृतम् इति वेदे घृते मधुशब्दः । तस्मादमीषा- मन्येऽर्था इति प्राप्ते । ब्रूमः । य एव लौकिकाः शब्दा त एव६ वैदिकाः त एवैषामर्था७ इति । कुतः ? प्रयोगचोदनाभावात् । एवं प्रयोगचोदना सम्भवति, यदि त एव शब्दाः त एवार्थाः, इतरथा शब्दान्यत्वेऽर्थो न प्रतीयेत । तस्मादेकशब्दत्वमिति । उच्यते । प्रयोजनमिदम् । हेतुर्व्यपदिश्यतामिति ? ततो हेतुरुच्यते । अवि- भागादिति । न तेषामेषां च विभागमुपलभामहे । अत८ एवैकशब्दत्वम् । तांश्च९ तांश्चार्थानवगच्छामः१० । अतो नान्यत्वं च वदामः । यच्चोक्तं य उत्ताना वहन्ति ते देवगवाः, यद् घृतम्, तन्मधु, यो हिरण्यपर्णः, स वनस्पतिरिति । नास्ति११ वचनं यदुत्तानानां वहतां गोत्वं ब्रूयात् । ये गावस्त १ ब. लौकिकास्त एव वैदिकाः । २ ब. तत्रान्ये लौकिका अन्येचैषामर्था । ३ व. इति व्यपदेशः । ४ ब. उत्तानानि ५ क. हिरण्यपर्णो देववनस्पतिः । ६ ब. एव च । ७ ब. एव चैषा । ८ ब. अत एक शब्दत्वं । ९ ब. तांश्चार्था । १० व. अवगच्छामः यच्चोक्तं । ११ ब. तन्नास्ति ।