मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 730, कुल 804 में से
संदर्भ में पढ़ें६७६ मीमांसादर्शनम् [ सू० यद्यप्येवं न भेदोऽस्ति वेदार्थकरणे नृणाम् । दधि विप्रेभ्य इत्यादौ फलं लोके भविष्यति ॥ १०२१ व्यक्तिपक्षे विकल्पः स्यात्कौण्डिन्ये दधितक्रयोः । सामान्यवाक्यदौर्बल्यात्क्रममेवेतरत्र तु ॥ १०२२ वेदेऽपि च विशेषोऽस्ति व्रीहिप्रोक्षणचोदके । दध्नेत्यादिषु भेदश्च जायते होमचोदके ॥ १०२३ प्रोक्षणं पूर्वपक्षेऽपि कर्तव्यं लौकिकेष्वपि । व्रीहिषु श्रुतिसामर्थ्याद्वाधित्वा संनिधिक्रमम् ॥ १०२४ प्रकृतेष्वेव सिद्धान्ते श्रुतिसंनिध्यनुग्रहात् । तत्रापि कृत्स्नमस्त्येव व्रीहित्वं हि श्रुतीरितम् ॥ १०२५ एवं होमेऽपि दध्यादौ प्रकृतेऽप्रकृतेऽथ वा । प्रकृते श्रुतिवाच्यस्य होमत्वस्यापि संभवात् ॥ १०२६ सोपपत्तिकमन्यच्च वक्तव्यमनया दिशा । कर्तव्या तेन यत्नेन चिन्तेयं सप्रयोजना ॥ १०२७ ननु गौरितिशब्दादौ सर्वमेतद्विचारितम् ।१ तेन तेन गतार्थत्वात्पुनश्चिन्ता न युज्यते ॥ १०२८ आकृतिश्शब्दार्थ इत्यत्र हेतूपन्यासार्थमिति कथनम् आकृतेरभिधेयत्वप्रतिज्ञा केवला कृता । तत्रेदानीं सहेतुत्वं तस्या एवाभिधीयते ॥ १०२९ यथा वाऽऽकृतिरित्यादौ भाष्यकारेण चोदितम् । पुनरस्याः प्रतिज्ञाया हेतुरप्यभिधास्यते ॥ १०३० आकृतिश्शब्दार्थत्वं पूर्वसिद्धं व्यक्तेर्वाच्यावाच्यत्वचिन्ता यद्वोक्तस्तत्र सद्भावः शब्दार्थत्वमिहोच्यते । या तु शब्दार्थता प्रोक्ता सेह सिद्धा न चिन्तिता ॥ १०३१ उक्ते वाऽप्यभिधेयत्वे जातेः सद्भावसिद्धये । व्यक्तिर्वाच्या न वेत्येतदगतार्थं विचार्यते ॥ १०३२ एतच्चिन्ताप्रसिद्धयर्थमिदं तावद्विचार्यते । शब्दार्थौ लौकिकौ वेदे किमन्याविति संशयः ॥ १०३३ १. जै० सू० ( १-१-५ ) इत्यत्र वृत्तिकारमतानुवादे शब्दार्थसम्बन्धाक्षेपपरिहारग्रन्थे भाष्यकारैरिति शेषः ।