मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 731, कुल 804 में से
संदर्भ में पढ़ें३३ ] प्रथमाध्याये तृतीयपादः ६७७ एकत्वे सति कर्तव्यो विचारः शब्दवाच्ययोः । भेदे तु संशयाभावान्न चिन्तावसरो यतः ॥ १०३४ शब्दार्थेन न कार्यं हि व्यवहारेऽर्थलक्षणे । लौकिकव्यवहारार्थं तेनेदं न विचार्यते ॥ १०३५ वेदे तु प्रत्यभिज्ञाने शब्दार्थविषये सति । विवेकः शक्यते ज्ञातुं प्रतीतेर्वाच्यगम्ययोः ॥ १०३६ अलौकिके च शब्दार्थे वाच्यवाचकरूपयोः । अज्ञातयोर्न जायेत सन्देहो वाच्यवस्तुनि ॥ १०३७ तेन प्रतीतशब्दार्थे निर्णयार्थमिदं पुरा । शब्दनित्यत्वाधिकरणे लौकिकशब्दानामभेदो विचारितः । अत्र लौकिकानां वैदिकानां शब्दानां भेदाभेदविचार इति प्रकारान्तरम् एकत्वं विद्यते नेति चिन्त्यं शब्दाभिधेययोः ॥ १०३८ संख्याभावादिति१ ह्येतन्ननु स्पष्टं निरूपितम् । शब्दस्य प्रत्यभिज्ञानान्नान्यतोच्चारणान्तरे ॥ १०३९ अभेदकारणं चात्र प्रत्यभिज्ञानमेव ते । अन्यतूपचयत्वेन तेन चिन्ता न युज्यते ॥ १०४० लौकिकेष्वेव शब्देषु तत्राभेदः प्रसाधितः । वैदिकानामभेदार्थं चिन्तनीयमिदं पुनः ॥ १०४१ व्यपदेशादिभेदाच्च कथं भेदो न जायते । तवानुक्तमिदं वक्तुं विचारोऽयं प्रवर्तितः ॥ १०४२ लौकिकवैदिकानां शब्दानांमर्थभेदाभेदविचारः एकत्वेऽपि च शब्दस्य सिद्धे तत्रेह चिन्त्यते । किमर्थो भिद्यते नेति तेनाप्यपुनरुक्तता ॥ १०४३ अर्थभेदे च चिन्तेयं शब्दाभेदे तु सत्यपि । घटते कस्य वाच्यत्वं व्यक्त्याकृत्योर्द्वयोरपि ॥ १०४४ व्यपदेशादिभेदेन शब्दे च प्रत्यभिज्ञया । भेदाभेदनिमित्ताभ्यां क्रियते संशयोद्भवः । पूर्वपक्षः किं प्राप्तमुच्यते भिन्नौ शब्दार्थौ लोकवेदयोः ॥ १०४५ १. जै० सू० (१-१-६)।