मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 732, कुल 804 में से
संदर्भ में पढ़ें६७८ मीमांसादर्शनम् [ सू० व्यपदेशस्य भिन्नत्वादाख्याया लक्षणस्य च । स्वरोच्चारणभेदाच्च लोपव्यत्ययदर्शनात् ॥ १०४६ स्वरयूपादिशब्दैश्च स्पष्टभेदैः सह श्रुतेः । अनध्यायादिभेदाच्च शूद्रोच्चारणवर्जनात् ॥ १०४७ अश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनात् । अग्न्यादीनां च भिन्नत्वं भाष्ये यदभिधीयते ॥ १०४८ तदयुक्तं क्रियाभेदे कर्तृभेदे१ हि नेष्यते । हन्ति कर्तृत्वमग्नेश्च पदार्थेभ्यः प्रतीयते ॥ १०४९ अशाब्दं वह्निशब्दस्य तद्वाच्यं कथमुच्यते । हननं किं कृतं नेति प्रमाणं चात्र नास्ति नः ॥ १०५० असता कथमन्यत्वं कर्मणाऽतः प्रतीयते । अपूर्वे वृत्रशब्दार्थे क्रियाशब्देऽप्यलौकिके ॥ १०५१ हन्तिकर्त्तरि वह्नित्वं कथमध्यवसीयते । स्तुतिमात्रपरत्वाच्च न वह्नित्वं विधीयते ॥ १०५२ अक्रियत्वाच्च भाष्योक्तैर्वाक्यैरित्यभिधास्यते । तेनोक्तस्यैव शब्दस्य त्रिवृदादेर्नवादिषु ॥ १०५३ वृत्तिरर्थेष्वपूर्वेषु वक्तव्या भेदसिद्धये । भेदपक्षे हेत्वन्तरोपन्यासः यच्चान्यदिदमित्याह२ रूपभेदं क्रियाश्रुतेः ॥ १०५४ तदसत्यं न शब्दस्य भेदोऽर्थगुणकारितः । तेन स्वरादिभेदेन वक्तव्या भिन्नरूपता ॥ १०५५ पूर्वोक्तेनैव मार्गेण नार्थभेदनिबन्धना । तस्माच्छब्दार्थयोर्भेदः स्पष्ट इत्यवधारिते ॥ १०५६ तावेव वेदे शब्दार्थौ लोके याविति भाष्यते । वेदस्यैव प्रसज्येत सकलस्याप्रमाणता ॥ १०५७ अविज्ञातार्थसंयोगात्स्थितप्रामाण्यबाधया । प्रयोगस्याग्निहोत्रादेश्चोदनायाश्च जायते ॥ १०५८ १ क. कर्तृभेदो । २. लोकवेदयोः शब्दार्थानामनन्यत्वनिरूपणावसरे भाष्यकार इति शेषः ।