मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 762, कुल 804 में से
संदर्भ में पढ़ें७०८ मीमांसादर्शनम् [ सू० सम्बन्धानित्यत्वापत्तिव्यवहारोच्छेदैकवचनशुक्लादिसामानधिकरण्यानुष्ठानासम्भावरूपदोषषट्- कमाह—तत्रेति । व्यक्तिसमुदायाभिधानपक्षेऽप्येतानेव दोषानतिदिशति—एवमिति । अतिदेशमुपपाद- यति—तत्रापि हीति । विशेष्यांशेऽपि व्यक्तिव्यतिरिक्तसमुदायकल्पनाभिधानानर्थक्य- सम्बन्धानित्यत्वप्रसङ्गद्विवचनबहुवचनसामानाधिकरण्यानुष्ठानासम्भावरूपदोषषट्कमाह — व्यक्तीति । एकव्यक्त्यभिधानपक्षेऽपि सम्बन्धानित्यत्वव्यवहारसामान्यधीद्विवचनबहुवचन- प्रत्युत्तरकालप्रयोगासम्भवविशेषहेत्वभावरूपं दोषषट्कमाह — अथेति । भाष्योक्ता युक्ता- र्व्याख्यातुं प्रतिजानाति—अत इति । वक्ष्यत इति शेषः । यदीति भाष्यं व्याचष्टे— यदि चेति । एकव्यक्त्यभिधानविषयत्वं भाष्योक्तं दोषाणां द्योतयितुम् - एकेत्युक्तम् । सर्वसामान्यविशेषविनिर्मुक्ता हीति कस्मिन्नर्थे हेतुरित्यपेक्षायां केनचित्साम्येन व्यक्त्यन्तरे प्रयोगो भविष्यतीत्याशङ्कानिराकरणहेतोरत्यन्तवैलक्षण्यस्योपपादनाथैऽयं हेतुरिति दर्शयितु- माह— अत्यन्तेति । गोत्वादिना हि सामान्येन, खण्डमुण्डादिना च विशेषेण व्यक्तेर्व्यक्त्य- न्तरेण साम्यं स्यात्, व्यक्तेः सामान्यरूपता विशेषरूपता वास्तीत्यर्थः । ननु एषां तर्हि साम्यं न भविष्यतीत्याशङ्कयाह — न चेति । नैष दोष इत्याद्याशङ्काभाष्यं व्याचष्टे— ननु चेति । यदीति परिहारभाष्यं व्याचष्टे— यद्येवमिति । न इत्युच्यत इत्याशङ्काभाष्यं व्याचष्टे—पूर्वपक्षेति । नेत्युच्यत इतीतिकरणकव्याख्यानायैवं शब्दः । व्यक्त्यन्तरे सर्व- सामान्यविशेषविनिर्मुक्त एव वर्त्तिष्यत इत्यनेन सामान्यविशेषविनिर्मुक्तत्वं निमित्तीकृत्य व्यक्त्यन्तरे वर्त्तत इति नोच्यत इत्येवं भाष्यं व्याख्यातुम् —सामान्यविशेषविनिर्मुक्तत्वादित्यु- क्तम् । यस्यैकस्यां व्यक्तौ सामान्यविशेषविनिर्मुक्तत्वं निमित्तीकृत्य वर्त्तते, तथैव व्यक्त्य- न्तरे इत्येवकारसूचितार्थ कथनार्थं-व्यक्तावित्युक्तम् । किं तर्हि उच्यत इत्यपेक्षायां योऽर्थं इति भाष्यवाक्यव्यक्त्युपलक्षणत्वेन सामान्यविशेषविनिर्मुक्ततोच्यत इत्येतदर्थप्रतिपादनार्थतया व्याख्यातुमाह - किं त्विति । नन्वन्यापोहवती सामान्यविशेषाभावोपलक्षिता चेद्व्यक्ति- र्वाच्यत्वेन कथ्यते, ततस्तदाश्रयत्वोक्तिविरुद्धयेतेत्याशङ्कय, सामान्यविशेषव्यतिरिक्तत्वं सामान्यविशेषरूपत्वाभाववाचिना विनिर्मुक्तशब्देनोच्यते नाश्रयत्वाभाव इति — व्यतिरेक- शब्देनोक्तम् । तृतीयेत्थम्भूतलक्षणा । सामान्यविशेषनिर्मुक्त इत्युक्तम् इति नेयं निमित्त- सप्तमी, किं तु व्यक्त्यन्तर इतिवदियमपि विषयसप्तमीत्याशयः । निमित्तत्वोक्तिनिराकरणस्य सिद्धान्त्युक्तानिष्टापत्तिपरिहारोपयोगितां दर्शयितुमाह — तत्रेति । व्याख्यातेऽर्थे भाष्यं योजयितुमाह — यो ह्यर्थ इति । तेनेत्याशङ्कोपसंहारभाष्यं व्याचष्टे—ततश्चेति । अनेन च तेनापशब्दाल्लक्षितेन व्यतिरिक्तत्वेनोपलक्षणेन व्यक्त्यन्तरे वृत्तिर्युक्ता । न चैतावता सामा- न्यायाभिधानापत्तिर्दोषो व्यक्त्यन्तरस्य सामान्यरूपत्वाभावादित्येवं भाष्यं व्याख्यातम् । यदीति परिहारभाष्यं गोत्वशावलेयत्वादिसामान्यविशेषाश्रयत्वैकार्थसमवायिनः सामान्य- विशेषविनिर्मुक्तत्वस्योपलक्षणत्वाभ्युपगमाच्छुद्धस्यापि चोपलक्षणत्वेऽपि पिङ्गाक्षत्वायुप- लक्षितस्य देवदत्तशब्दवाच्यत्वोक्तावपि सर्वस्मिंस्तदुपलक्षिते प्रयोगदर्शनेनोपलक्षणसद्भावे