मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 764, कुल 804 में से
संदर्भ में पढ़ें७१० मीमांसादर्शनम् [ सू० पक्षान्तरोपन्यासो युक्त इतीतिकरणो हेत्वर्थः । पूर्वं ग्रन्थशेषत्वेऽनुसमासश्चर्थः । पक्षान्तर- करणबीजमाह—तदेतदिति । आदावेव वाशब्दप्रयोगेणाऽस्य व्याख्यानस्य परमतत्वं सूचितम् । व्यक्तिविशिष्टाकृतिपक्षनिरासस्य विस्तरोक्त्यभावेनोपसंहारानर्थक्यात्तस्माच्छब्द इत्यस्य वाञ्जस्येन तदर्थाप्रतीतेः । \ ननु गुणभूतैतस्य चाकृतिर्गुणभावेन विवक्षितेत्येतदनुभाषणाथंतवावगतेः साधारणया- योगात्सिद्धान्तोपसंहारं च विनास्य पक्षस्यानवतारादश्रुतोपसंहारापत्तेरिति स्वमतेन व्याचष्टे—यद्वेति । व्यक्तिधर्मत्वेनाकृतेः ततः प्राक् प्रतीत्ययोगादन्वयव्यतिरेकाक्षेपार्थत्वेन सङ्गतिरित्याशयः । ननु व्यक्तिविशिष्टाकृतिपक्षोपन्यासात् कथं शुद्धाया व्यक्तेः शब्दार्थत्वं सिद्धयेदित्याशङ्कयाह—अनेनेति । आकृतेः शब्दार्थत्वं मदभिमतमनेन पूर्वपक्षिणाऽभ्युपगत- मेव क्रियासम्भवश्च व्यक्तिविशेषाणाद्भाविष्यतीत्यभिप्रायेण सिद्धान्ते व्यक्तेरपि गुणत्वेना- मिधानमिच्छति, ततोऽहं पूर्वं शुद्धव्यक्तेरभिधानं साधयिष्यामीत्यनेनाभिप्रायेणेदमुच्यत- इत्यन्वयः । व्यक्तिविशिष्टायां तदिति परिहारभाष्यं व्याचष्टे—इतरस्स्विति । व्यक्त्यभिधानपक्षोक्तसर्वदोषोपलक्षणार्थत्वमस्य दर्शयितुमाह — यदीति । तस्मादिति ग्रन्थे पूर्वोक्तान्वयव्यतिरेकसाधितव्यक्तिप्रत्ययनिमित्तविभागोपसंहारार्थत्वेन स्पष्टत्वादव्याख्यायाऽत्र ग्रन्थपातनिकार्थं शुद्धाकृतिपक्षं सिद्धान्त्युक्तमुपसंहरति—तेनेति । पूर्वव्याख्यानेन शब्दः शुद्धाकृतिप्रत्ययस्य निमित्तं व्यक्तिप्रत्ययस्य एवेत्युपसंहारभाष्य- व्याख्यानार्थोऽयं ग्रन्थः । नन्वाकृतेर्व्यक्तिधर्मत्वाच्छुद्धाया वाच्यत्वं न युक्तमित्याशङ्कार्थं नन्विति भाष्यं व्याचष्टे—नन्विति । न तु गुणीभाव इति परिहारभाष्यं व्याचष्टे- नैवमिति । वस्तुतो व्यक्तिधर्मत्वेऽप्याकृतेः शब्दतः स्वरूपमात्रेण प्रतीतेः शुद्धाभिधानाविरोध इत्याशयः । व्यक्त्यभिधानेऽप्याकृतेरुपलक्षणत्वाद्व्यक्त्यन्तरप्रयोगः, व्यवस्था वोपपद्येति पूर्वपक्षिणोक्ते यत्सिद्धान्तिते एवं तर्हीत्यादिनोपलक्षणत्वे सत्याकृतेरपि विशेषणत्वेना- भिधानम् — प्रसज्येतेत्युक्तम् । तदाक्षेपार्थं ननु चेत्याशङ्काभाष्यं व्याचष्टे-- नन्विति । भाष्यकारीयदण्डशब्दो- दाहरणमाक्षेप्तुमुपन्यस्यति—भाष्येति । द्वेधाऽऽक्षिपति— नन्विति । आद्यमाक्षेपं परिहरति- यत्त्विति । विशेषणोपलक्षणशब्दयोर्व्यावर्त्तकत्वापरपर्यायविशेषणत्वात्स्वतन्त्रस्यैव व्यावर्त्तं- कस्योपलक्षणत्वादस्त्येव भेद इत्याशङ्क्य परिहारान्तरमाह—यद्वेति । किं तत्सामान्यमित्य- पेक्षिते यथा दण्डो विशिष्टवाचिना प्रत्ययेनानभिधेयः तथाकृतिरपि तदुपलक्षितव्यक्तिवाचिना गोशब्देनेत्यनभिधेयैव । यथा दण्डो व्यावर्त्तकस्तथाकृतिरपीति विशेषवत्त्वेन वेति सामान्य- द्वयमुक्तम् । आकृतिविशिष्टेति वास्मिन्परिहारे तदुपलक्षिताभिप्रायमुपचाराद् व्याख्येयम् । समाधानमुपसंहरति -- ततश्चेति । ननूपलक्षणत्वेऽप्याकृतेः सामान्यप्रत्ययश्च न प्राप्नोतीति दूषणं परिहर्तुमशक्यम् । उपलक्षणस्योपलक्ष्ये स्वानुरक्तप्रत्ययजनकत्वाददर्शनात् । न ह्येकापवरकस्याक्षत्रयस्य यदिदानीमस्मिन्नपवरकेऽस्ति, तदक्षशब्दवाच्यमित्येकापवरकत्व- मुपलक्षणीकृत्य केनचित्सम्बन्धकथने कृतेऽपि, व्यवहारकालेऽक्षशब्दोच्चारणादेकापवर-