भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 100, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 100

प्रथमोऽङ्कः ११


अर्थ- [इस प्रकरण के रचयिता कवि] शूद्रक ऋग्वेद, सामवेद, गणितशास्त्र [अङ्कविद्या एवं ज्योतिष शास्त्र] चौंसठ कलाओं, नाट्यशास्त्र, और हस्तिसंचालन की शिक्षा को प्राप्त करके; भगवान् शङ्कर की कृपा से [ अज्ञानरूपी ] अन्धकार से रहित नेत्रों को [ ज्ञाननेत्रों को ] प्राप्त कर के और अपने पुत्र को राजा देखकर अर्थात् अपने पुत्र को अपने राजसिंहासन पर प्रतिष्ठित कर के; अत्यन्त उत्थान कराने वाले अश्वमेधनामक यज्ञ को सम्पन्न करके; और एक सौ वर्ष तथा दश दिनों की आयु प्राप्त करके अग्नि में प्रविष्ट हो गये [ अथवा अग्निहोत्रानुष्ठान में लग गये ] ॥४॥

टीका- ऋग्वेदम् = एतन्नाम्ना प्रसिद्धं प्राचीनतमं स्तुतिसंग्रहात्मकं वैदिकं ग्रन्थम्, अनेन देवतास्तुतिनैपुण्यमुक्तम्; सामवेदम् = गेयमन्त्रसमूहात्मकं तन्नाम्ना प्रसिद्धं ग्रन्थम्, एतेन मन्त्रगाननैपुण्यमुक्तम्; गणितम् = अङ्कविद्यां ज्योतिषशास्त्रञ्च; कलाम् = चतुःषष्टिसङ्ख्याकां कलाम्, तत्प्रतिपादकग्रन्थं वा, वैशिकीम् = विशः = वैश्यस्य इयमित्यर्थे ठकि, वैश्यसम्बन्धिनीं वाणिज्यरूपां कलामित्यर्थः, यद्वा "वेशो वेश्याजनसमाश्रयः" [अमरकोषः २।२।२] इति कोशात् वेशशब्दो वेश्यापरः, तत्र भवां विद्यमानां वा कलां वेश्याजनविषयिणीं कलामित्यर्थः, एतेन अस्मिन् विषयेपि नैपुण्यमुक्तम् । यद्वा—'नामग्रहणे नामैकदेशग्रहणं' मिति नियमेन वेशः = अग्निवेश इति नामा नृपः, तेन, कृतां कलां चतुःषष्टि कला-प्रतिपादकं ग्रन्थमित्यर्थः । यद्वा—वेशः = नेपथ्यग्रहणं तत्सम्बन्धिनीं कलाम् = नाट्यकलामित्यर्थः, हस्तिशिक्षाम् = गजपरिपालन-सञ्चालननैपुण्यम्; ज्ञात्वा = विदित्वा; शिवस्य = शङ्करस्य, प्रसादात् = कृपाबलात्, व्यपगततिमिरम् = व्यपगतम् = दूरीभूतं तिमिरम् = अज्ञानान्धकारम् याभ्यां तादृशे, चक्षुषी = नयने, च, उपलभ्य = सम्प्राप्य, एतेन सर्वपदार्थविषयकयथार्थ-ज्ञानवत्त्वं सूचितम्, भ्रमादीनां निरासश्च कृतः; पुत्रम् = आत्मजम्, राजानम् = राजपदे प्रतिष्ठितम्, वीक्ष्य = विलोक्य, एतेन वार्द्धक्यं पुत्रादिविषये चिन्तारहित्यं च सूचितम्; परमसमुदयेन = परमः = सर्वाधिकः, समुदयः = अभ्युन्नतिः यस्मात्, येन वा तादृशेन, यद्वा परमः = प्रकृष्टः, समुदयः = समरो यस्मिन् सस्तादृशेन, अश्वमेधेन = एतन्नाम्ना प्रसिद्धेन यागविशेषेण, इष्ट्वा = यागं कृत्वा; दशदिनसहितम् = दशदिनाधिकम्, शताबदम् = शतवर्षपरिमितम्, आयुः = जीवनकालम्, च, लब्ध्वा = प्राप्य, अग्निम् = अनलम्, प्रविष्टः = गतः, देहपरित्यागः कृत इति भावः । अत्रत्यो विशिष्ट-विचारोऽग्रे विमर्शे द्रष्टव्यः । स्रग्धरा वृत्तम् ॥ ४ ॥

विमर्श- प्रस्तुत श्लोक में 'वैशिकीम्' शब्द के अनेक अर्थ हैं और यह 'कलाम्' का विशेषण हैं—(१) विशः = वैश्यस्य इयम्-इस अर्थ में ठक् = इक प्रत्यय करने पर 'वाणिज्यरूपी कला को' यह अर्थ होता है। (२) वेश = वेश्याजनसमाश्रयः = वेश्यालय, इससे सम्बन्धित कला को । (३) वेशः = नेपथ्यग्रहण, इससे सम्बन्धित कला = 'नाट्य-