मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 113, कुल 760 में से
संदर्भ में पढ़ें८४ मृच्छकटिकम्
रहा है ) ? अच्छा, गृहिणी [ घर की मालकिन ] को बुलाकर वास्तविक स्थिति का पता लगाता हूँ। ( नेपथ्य=पर्दे की ओर देखकर ) आर्ये ! इधर तो [ आना ] ।
टीका-अविद अविद=खेदाश्चर्ययोः बोधकमव्ययम्, शुष्कपुष्करनालानीव=शुष्काणि=नीरसानि यानि पुष्कराणि=कमलानि तेषाम्, नालानि इव=दण्डानि इव, म्लानानि=शिथिलानि, मे=मम सूत्रधारस्येत्यर्थः; कुटुम्बिन्या=भार्यया 'भार्या जायाऽथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ।' [ अमरकोषः २।६।६ ] उपपादितम् = विरचितं निर्मितं वा, अपरम् इव-अन्यत् किञ्चित् नवीनम् इव, सविधानकम्=आयोजनम्, आयामि-तण्डुलोदकप्रवाहा=तण्डुलानां प्रक्षालने प्रयुक्तमुदकं तण्डुलोदकम्, तस्य प्रवाहः=प्रसारः, आयामी=अतिविस्तृतः तण्डुलोदकप्रवाहो यस्यां सा तादृशी, रथ्या=गृहसम्मुखवर्ती मार्गः; लोहकटाह-परिवर्तन-कृष्णसारा=लोहकटाहस्य=लोह-निर्मितपात्रविशेषस्य प्रक्षालनार्थं विहितेन परिवर्तनेन=इतस्ततः सञ्चालनपूर्वकं-घर्षणेन, कृतविशेषका=कृतः=धृतः विशेषकः=तिलको यया सा तादृशी, युवती = युवतिः, इव, भूमिः=पृथ्वी, अधिकतरम्=अतीव, शोभते=शोभायमाना दृश्यते । स्निग्धगन्धेन=स्निग्धानाम्=घृतादौ पक्वानां भोज्यपदार्थानां सुगन्धेन, स्निग्धेन गन्धेन इति व्यस्तः पाठो नोचितः, बहुत्र समस्तपाठस्यैवो पलम्भात्, गन्धे स्निग्धताया अनुभवाभावाच्च; उद्दीप्यमाना=वृद्धिमुपगता, उद्दीप्तेति यावत्, इव=तुल्यम्, बुभुक्षा=प्रबला क्षुधा, बाधते=कष्टायते; ( पूर्वार्जितम्=पूर्वजैः अर्जितं भूमौ निहितम् ) पूर्वविहितम्=पूर्वजपुरुषैः भूमौ सङ्गोप्य सुरक्षितम्, निधानम्=निधिः, धनादिकोषः, उपपन्नम्=लब्धम्, उत्पन्नमिति पाठे प्रत्यक्षतामुपगतम्, भवेत्=स्यादिति सम्भावनायाम् । ओदनमयम्=ओदनयुक्तम्, अन्नमयमिति पाठे 'अन्नयुक्तम्' इत्यर्थः, प्रेक्षे=पश्यामि, पश्यामि-इति पाठान्तरम् । प्रातराशः=कल्यभोजनम्, प्राणात्ययम्=प्राणानामत्ययो विनाशो यथा स्यात् तथेति क्रियाविशेषणमिदम् 'प्राणाधिकम्' इति पाठे प्राणेषु अधिकं यथा स्यात् तथेति बोध्यम् । बाधते=दुःखायते, संविधानकम्=आयोजनम्, वर्णकम्=कस्तूर्यादिकं समालम्भनम्, पिनष्टि=चूर्णयति, सुमनसः=पुष्पाणि, गुम्फति=ग्रथ्नाति, तु=आश्चर्ये, कुटुम्बिनीम्=पत्नीम्, शब्दायित्वा=आहूय पृष्ट्वेति भावः, परमार्थम्=सत्यताम्, ज्ञास्यामि=जानामि, वेत्स्यामि वा, वर्तमानसामीप्ये वैकल्पिकौ लट्, इतः=इह आगच्छ, 'तावत्' इदं वाक्यालङ्कारे ।
विमर्श-शुष्कपुष्करनालानीव=जिस प्रकार कमलदण्ड सूखने पर अत्यन्त मलिन हो जाता है, उसी प्रकार भूख के कारण सूत्रधार के शरीरावयव शिथिल हो रहे हैं, उसे कुछ भी करने की इच्छा नहीं हो रही है—'बुभुक्षितं न प्रतिभाति किञ्चित्', ठीक ही कहा गया है ।
आर्ये !-नियमानुसार शिष्टाचार के लिए पुरुषपात्र स्त्री के लिए 'आर्ये' और स्त्रीपात्र पुरुष के लिये 'आर्य' यह सम्बोधन शब्द प्रयुक्त करते हैं 'वाच्यो