मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 124, कुल 760 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ३७
एसो अ अज्जचारुदत्तस्स पिअवअस्सेण चुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्जस्स अज्जचारुदत्तस्स उवणेदव्वो त्ति । ता जाव अज्जचारुदत्तं पेक्खामि । [ परिक्रम्य अवलोक्य च ] एसो अज्ज चारुदत्तो सिद्धीकिददेवकज्जो गिहदेवदाणं बलिं हरेन्तो इदो ज्जेव आअच्छदि । ( एष च आर्यचारुदत्तस्य प्रियवयस्येन चूर्णवृद्धेन जातीकुसुमवासितः प्रावारकः अनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्य उपनेतव्य इति । तद् यावदार्यचारुदत्तं प्रेक्षे । [ परिक्रम्यावलोक्य च ] एष आर्यचारुदत्तः सिद्धीकृतदेवकार्यो गृहदेवतानां बलिं हरन् इत एवागच्छति । )
[ ततः प्रविशति यथानिर्दिष्टश्चारुदत्तो रदनिका च । ]
मिवायुः, तेषु सुरभिः=सौरभयुक्तः गन्धः येषां तैः, उद्गारे सुगन्धप्रदायिभिरित्यर्थः, मोदकैः=मिष्ठान्नविशेषैः 'लड्डू' इति प्रसिद्धैः, अशितः=तृप्तः, अभ्यन्तरे=गृहमध्ये यत् चतुःशालकम्, चतुर्णां शालकानां समुदायः, स्वार्थे कः, तस्य द्वारे=प्रमुखनिर्गमनप्रदेशे, उपविष्टः=स्थितः ह्रस्वा मल्लाः मल्लकाः-पात्रविशेषाः ( भाषायां 'प्याला' इति ) पत्रपुटो वा ( भाषायां 'दोना' इति ) तेषां शतम्, तेन परिवृतः=परिव्याप्तः, अभिवृतः वा, चित्रकारः=रङ्गजीवः, इव=तुल्यम्, अङ्गुलीभिः=हस्ताग्रभागैः, स्पृष्ट्वा स्पृष्ट्वा=पौनः पुन्येन स्पर्शं कृत्वा; अपनयामि=त्यजामि, नैव खादामि, अत्र वर्तमानसमीपे भूतकाले लट् बोध्यः तेन 'अपानयम्' इत्यर्थः । अयं भावः-यथा कश्चित् चित्रकारः मल्ल कम्=वर्णिकापात्रम् एकं स्पृष्ट्वा तूलिकां झटिति दूरीकरोति, तदनन्तरमपरं वर्णिकापात्रं स्पृशति, तदपि दूरीकरोति । एवं क्रमेणावश्यकतानुसारं पात्रस्थवर्णं स्पृष्ट्वा स्पृष्ट्वा दूरीकरोति, तथैव मैत्रेयोऽपि विविधभोजनपरिपूरितानां पात्राणां स्पर्शमेव कृत्वा [ स्वल्पमेवास्वाद्य ] तानि पात्राणि त्यजन् आसीत् । नगरचत्वरस्य=नगरमध्यभागस्य, वृषभ इव=बलीवर्द इव, भाषायां प्रसिद्धः 'साँड़' इव, रोमन्थायमानः=भोजनोत्तरं ताम्बूलादिचर्वणेन मुखमध्यभागं हनुप्रदेशं चालयन्, तिष्ठामि=उपविशामि, अत्रापि वर्तमानसमीपे लट्, तेन 'अतिष्ठम्' इत्यर्थः, सः=पूर्ववर्णितवैशिष्ट्ययुक्तः, अहम्=मैत्रेयः, इदानीम्=अस्मिन् काले, तस्य=चारुदत्तस्य, दरिद्रतया=निर्धनतया, यस्मिन् तस्मिन्=यत्र तत्र, चरित्वा=भ्रमित्वा, गृहपारावत इव=गृहपालितकपोतसदृशः, आवासनिमित्तम्=रात्रि-निवासहेतुम् एव, अत्र=चारुदत्तस्य गृहे, आगच्छामि=आव्रजामि, आश्रयामीति वा ।
अर्थ—आर्य चारुदत्त के प्रियमित्र चूर्णवृद्ध ने चमेली के फूलों [ की गन्ध ] से सुवासित [ सुगन्धयुक्त ] यह दुपट्टा, भेजा है, कि [ इसे ] देवताओं की पूजा से निवृत्त आर्य चारुदत्त को देना है। तो तब तक आर्य चारुदत्त को देखता हूँ। ( घूमकर और देखकर ) देवपूजन सम्पादित कर चुकने वाले आर्य चारुदत्त गृहदेवताओं के लिये बलि [ भेंट ] लाते हुये इधर ही आ रहे हैं।