मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 136, कुल 760 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ४६
शब्दार्थ—[नरः = मनुष्य], दारिद्र्यात् = दरिद्रता के कारण, ह्रियम् = लज्जाको, एति = प्राप्त करता है, ह्रीपरिगतः = लज्जित [ व्यक्ति ], तेजसः = तेज से, प्रभ्रश्यते = भ्रष्ट हो जाता है, निस्तेज हो जाता है, निस्तेजाः = तेजहीन, परिभूयते = अपमानित होता है, परिभवात् = अपमान के कारण, निर्वेदम् = ग्लानि को, आपद्यते = प्राप्त करता है, निर्विष्णः = ग्लानियुक्त, शुचम् = शोक को, एति = प्राप्त करता है, शोकपिहितः = शोक से व्याकुल, [ व्यक्ति ] बुद्ध्या = विवेक के द्वारा, परित्यज्यते = छोड़ दिया जाता है, निर्बुद्धिः = बुद्धिहीन, क्षयम् = विनाश, को, एति = प्राप्त करता है, अहो ! = आश्चर्य है, निधनता = दरिद्रता, सर्वापदाम् = समस्त आपत्तियों का, आस्पदम् = स्थान [ अस्ति = है ] । १४ ।।
**अर्थ—**दरिद्रता के कारण [ व्यक्ति ] लज्जा को प्राप्त करता है [ सर्वत्र लज्जित होता है ]; लज्जित [ व्यक्ति ] तेज से भ्रष्ट हो जाता है [ निस्तेज हो जाता है ], तेजहीन [ व्यक्ति ] अपमानित होता है, अपमान से ग्लानि प्राप्त करता है, ग्लानियुक्त [व्यक्ति] शोक प्राप्त करता है, शोकाकुल [व्यक्ति] को बुद्धि = विवेक द्वारा त्याग दिया जाता है, बुद्धिहीन = अविवेकी विनाश को प्राप्त करता है । अहो ! निर्धनता (गरीबी) समस्त आपत्तियों का निवासस्थल है । [सभी विपत्तियों का मूल कारण निर्धनता ही है ] ।। १४ ।।
**टीका—**दारिद्र्यस्य सर्वविपत्तिमूलत्वमाह—दारिद्र्येति । ( मनुष्यः ) दारिद्र्यात् = निर्धनत्वात्, ह्रियम् = लज्जाम्, एति = प्राप्नोति, लज्जितो भवतीत्यर्थः, ह्रीपरिगतः = ह्रिया = लज्जया, परिगतः = युक्तः = लज्जितः, तेजसः = प्रतापात्, प्रभ्रश्यते = प्रभ्रष्टो भवति, निस्तेजाः जायते इत्यर्थः, निस्तेजाः = तेजःशून्यः, परिभूयते = तिरस्क्रियते, सर्वैरिति भावः, परिभवात् = तिरस्कारात्, निर्वेदम् = ग्लानिम्, आपद्यते = सर्वतः प्राप्नोति, निर्विष्णः = ग्लानियुक्तः, खिन्नमनाः, शुचम् = शोकम्, एति = गच्छति, शोकपिहितः = शोकेन = दुःखेन पिहितः = युक्तः, दुःखीत्यर्थः, बुद्ध्या = विवेकेन, परित्यज्यते = परिहीयते, कर्तव्याकर्तव्य विवेकशून्यो भवतीत्यर्थः, निर्बुद्धिः = विवेकशून्यः, क्षयम् = विनाशम्, एति = गच्छति, अहो ! इति आश्चर्यसूचकमव्ययम्, निधनता = दरिद्रता, धनहीनता, सर्वापदाम् = सकलापत्तीनाम्, आस्पदम् = आश्रयः, मूलकारणं वेति । एवञ्च दरिद्रताया प्रभावोऽवर्णनीय इति बोध्यम् । कारणमाला अलङ्कारः, शार्दूलविक्रीडितं छन्दः ।।१४।।
विमर्श—निर्विष्णः—निर् + √ विद् + क्त । द् तथा त के स्थानों पर न्, न आदेश और णत्व होता है । निधनता—यहाँ छन्द की दृष्टि से 'निर्' के अर्थ में 'नि' उपसर्ग है—निवृत्तं धनं यस्मात् सः = निधनः, तस्य भावः-इस अर्थ में तल् प्रत्यय होता है । अतः निधनता = निर्धनता पर्याय हैं । निर्बुद्धिः क्षयमेति—इसका आधार गीता का वचन है—"बुद्धिनाशात् प्रणश्यति ।" ( गीता २।६३ )
४ मृ०