मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 151, कुल 760 में से
संदर्भ में पढ़ें| ६४ | मृच्छकटिकम |
|---|
( एषा नाणक-मोषि-काम-कशिका, मत्स्याशिका, लासिका,
निर्नासा, कुलनाशिका, अवशिका, कामस्य मञ्जूषिका ।
एषा वेशवधूः, सुवेशनिलया, वेशाङ्गना, वेशिका,
एतान्यस्या दश नामकानि मया कृतानि, अद्यापि मां नेच्छति ॥ २३ ॥
तस्कराः पण्डका मूर्खाः सुख-प्राप्तधनास्तथा ।
लिङ्गिनश्छिन्नकामाद्या आसां प्रायेण वल्लभाः ॥
मत्स्याशिका=मीनभक्षिका, लासिका=लास्यकर्त्री नर्तकीति भावः, निर्नासा=अल्पनासा, निम्ननासेति वा, अपमानितेति भावः, निर्नाशा-इति पाठे निः=निश्चयेन नाशः=पतनम्, नरकादिगमनम् वा यस्याः सा, निम्नाशा-इति पाठे तु निम्ना=तुच्छा, आशा=अभिलाषः यस्याः सा-तुच्छविषयिणीच्छावतीत्यर्थः, कुलनाशिका=कुलस्य=वंशस्य, नाशिका=विनाशिका, अत्र नाशः स्वस्याः कुलस्य स्वासक्तपुरुषाणाञ्च कुलस्येति बोध्यम्, उभयकुलविनाशीकेति भावः, अवशिका=प्रचुरदानादिप्रदानेनापि कस्यापि वशतामनापन्ना, कामस्य=मदनस्य, रत्यादेरित्यर्थः, मञ्जूषिका = पेटिका, मञ्जूषा, अस्तीति शेषः, एषा=वसन्तसेना, वेशवधूः=वेशस्य=वेश्यालयस्य वधूः=स्त्री, सुवेशनिलया=शोभनानां वेशानां-भूषणादीनां वस्त्राणाञ्च, निलयः = आश्रयभूता, तदलंकृतेति भावः, यद्वा-सुवेशः = सुन्दरः वेश्यालयः, आश्रयः = भवनं यस्याः सा, वेशाङ्गना = वेशस्य = वेश्यालयस्य अङ्गना=उत्तमा नारी, नारीबहुत्वेऽपि अस्यामेवोत्तमत्त्वमिति भावः, वेशिका=वेशः=वेश्यालयः अस्ति आश्रयत्वेन यस्याः सा, दश=दशसंख्याकानि, नामकानि=प्रियनामानि, मया-शकारेण, कृतानि =विहितानि, तथापि अद्य=अस्मिन् क्षणे अपि माम्=शकारम्, न=नैव, इच्छति=कामयते । अष्टानां दशानां नाम्नामुच्चारणे देवता अपि प्रसन्ना भवन्ति किन्तु इयं नैव प्रसीदतीति कष्टकरम् । अत्रेदं बोध्यम्-गणनायां एकादश-नामानि सिध्यन्ति, श्लोके च दशैवोल्लिखितानीति विरोधः, किञ्च वेश-वधूः, सु-वेश-निलया, वेशाङ्गना, वेशिका-इत्यत्र चतुर्धा वेशशब्दस्य प्रयोगोऽसमीचीनः इति शंकायामुच्यते यत् शकारस्य वचनमिदमतो नात्र तर्कः औचित्यं वा विचारणीयम् । सार्थकविशेषणतया परिकरालंकारः, शार्दूलविक्रीडितं वृत्तम् ॥ २३ ॥
विमर्श—(१) निर्नासा—इसमें ‘निर्’ यह अल्पार्थक अव्यय है=अल्प नाक वाली, नीचीनाकवाली, नाक का ऊँचा होना प्रतिष्ठा का और नीचा होना अप्रतिष्ठा का सूचक है। (२) निर्नाशा—यह भी पाठ है—निः=निश्चयेन नाशः=पतनम्=नरकादिगमनम् यस्याः सा=वेश्या की नरकयातना पुराणादि में प्रतिपादित है। (३) निम्नाशा—निम्ना=निकृष्टा, आशा=अभिलाषः यस्याः सा-जो तुच्छ से तुच्छ वस्तु की इच्छा कर सकती है।