मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 174, कुल 760 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ८७
अपि च—
सङ्गं नैव हि कश्चिदस्य कुरुते, सम्भाषते नादरात्,
सम्प्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते ।
दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया,
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ ३७ ॥
पदम्, सुस्निग्धाः=अत्यन्तस्नेहयुक्ताः, प्रगाढाः इति यावत्, सुहृदः=सखायः, विमुखी-भवन्ति=पराङ्मुखा भवन्ति, मैत्रीं परित्यजन्तीति भावः, आपदः=विपत्तयः, स्फारी-भवन्ति=एकीभवन्ति ततो वृद्धिं गच्छन्तीत्यर्थः, सत्त्वम्=बलम्, ह्रासम्=क्षीणताम्, उपैति=प्राप्नोति, शीलशशिनः=शीलम्=आचरणम् एव शशी, तस्य, चारित्र्यचन्द्रस्य, कान्तिः=प्रभा, दीप्तिर्वा, परिम्लायते=परितो मालिन्यं गच्छति, परैः=अन्यैः, अपि, च, यत्, पापम्=निन्दितम्, अधर्मादिजनकम्, कर्म=कार्यम्, कृतम्=विहितम्, तत्=अन्यजनविहितं निन्दितं कर्म, तस्य = निर्धनपुरुषस्य, सम्भाव्यते = अनुमीयते, सर्वैरिति शेषः। दरिद्रतयाऽनेनैव धनादिलोभेनेदमकार्यं कृतमिति झटिति सर्वैरनुमीयते इति भावः। अत्र शीले शशित्त्वारोपात् रूपकालंकारः, शार्दूलविक्रीडितं वृत्तम्। तल्लक्षणम्—सूर्याश्वैर्याद मः सजौ, सततगाः, शार्दूलविक्रीडितम् ॥ ३६ ॥
विमर्श—विदूषक चारुदत्त का गहरा मित्र है किन्तु इस समय वह भी आज्ञा-पालन नहीं कर रहा है, इसका कारण, चारुदत्त अपनी निर्धनता ही समझता है। अतः यहाँ से तीन श्लोकों में निर्धनता के विषय में ही कहता है।
शीलशशिनः—शीलम्=आचरणम् एव शशी=चन्द्रः तस्य-यहाँ रूपक अलंकार है। इसमें शार्दूलविक्रीडित छन्द है। सन्तिष्ठते-सम् + √स्था + लट् प्र. पु. ए.व.-इसमें 'समवप्रविभ्यः स्थः' [ पा. सू. १।३।२२ ] सूत्र से आत्मनेपद होता है। विमुखीभवन्ति और स्फारीभवन्ति-ये नामधातु के रूप हैं। इनमें च्वि प्रत्यय आदि होता है। परिम्लायते -परि + √म्लै + लट् प्र० पु० ए० व०। सम्भाव्यते - भाववाच्य लट्लकार का रूप है ॥ ३६ ॥
अन्वयः—हि, कश्चित्, अस्य, सङ्गम्, नैव, कुरुते, ( अतः ), आदरात्, न, सम्भाषते, उत्सवेषु, धनिनाम्, गृहम्, सम्प्राप्तः, सावज्ञम्, अवलोक्यते, अल्पच्छदः, ( निर्धनः ), लज्जया, महाजनस्य, दूरात्, एव, विहरति, ( अतः अहम् इदम् ) मन्ये, निर्धनता, अपरम्, प्रकामम्, षष्ठम्, महापातकम् ॥ ३७ ॥
शब्दार्थ—हि=चूँकि, कश्चित्=कोई भी, अस्य=इस दरिद्र का, सङ्गम्=साथ, नैव=नहीं, कुरुते=करता है, अतः=इसलिये, ( कोई भी ) आदरात्=आदर से, न=नहीं, सम्भाषते=बोलता है, उत्सवेषु=उत्सवों, जलसों में, धनिनाम्=धनवानों के, गृहम्=घर को, सम्प्राप्तः=प्राप्त करने वाला, पहुँचने वाला, सावज्ञम्=अपमान के