भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 174, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 174

प्रथमोऽङ्कः ८७

अपि च—

सङ्गं नैव हि कश्चिदस्य कुरुते, सम्भाषते नादरात्,
सम्प्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते ।
दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया,
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ ३७ ॥


पदम्, सुस्निग्धाः=अत्यन्तस्नेहयुक्ताः, प्रगाढाः इति यावत्, सुहृदः=सखायः, विमुखी-भवन्ति=पराङ्मुखा भवन्ति, मैत्रीं परित्यजन्तीति भावः, आपदः=विपत्तयः, स्फारी-भवन्ति=एकीभवन्ति ततो वृद्धिं गच्छन्तीत्यर्थः, सत्त्वम्=बलम्, ह्रासम्=क्षीणताम्, उपैति=प्राप्नोति, शीलशशिनः=शीलम्=आचरणम् एव शशी, तस्य, चारित्र्यचन्द्रस्य, कान्तिः=प्रभा, दीप्तिर्वा, परिम्लायते=परितो मालिन्यं गच्छति, परैः=अन्यैः, अपि, च, यत्, पापम्=निन्दितम्, अधर्मादिजनकम्, कर्म=कार्यम्, कृतम्=विहितम्, तत्=अन्यजनविहितं निन्दितं कर्म, तस्य = निर्धनपुरुषस्य, सम्भाव्यते = अनुमीयते, सर्वैरिति शेषः। दरिद्रतयाऽनेनैव धनादिलोभेनेदमकार्यं कृतमिति झटिति सर्वैरनुमीयते इति भावः। अत्र शीले शशित्त्वारोपात् रूपकालंकारः, शार्दूलविक्रीडितं वृत्तम्। तल्लक्षणम्—सूर्याश्वैर्याद मः सजौ, सततगाः, शार्दूलविक्रीडितम् ॥ ३६ ॥

विमर्श—विदूषक चारुदत्त का गहरा मित्र है किन्तु इस समय वह भी आज्ञा-पालन नहीं कर रहा है, इसका कारण, चारुदत्त अपनी निर्धनता ही समझता है। अतः यहाँ से तीन श्लोकों में निर्धनता के विषय में ही कहता है।

शीलशशिनः—शीलम्=आचरणम् एव शशी=चन्द्रः तस्य-यहाँ रूपक अलंकार है। इसमें शार्दूलविक्रीडित छन्द है। सन्तिष्ठते-सम् + √स्था + लट् प्र. पु. ए.व.-इसमें 'समवप्रविभ्यः स्थः' [ पा. सू. १।३।२२ ] सूत्र से आत्मनेपद होता है। विमुखीभवन्ति और स्फारीभवन्ति-ये नामधातु के रूप हैं। इनमें च्वि प्रत्यय आदि होता है। परिम्लायते -परि + √म्लै + लट् प्र० पु० ए० व०। सम्भाव्यते - भाववाच्य लट्लकार का रूप है ॥ ३६ ॥

अन्वयः—हि, कश्चित्, अस्य, सङ्गम्, नैव, कुरुते, ( अतः ), आदरात्, न, सम्भाषते, उत्सवेषु, धनिनाम्, गृहम्, सम्प्राप्तः, सावज्ञम्, अवलोक्यते, अल्पच्छदः, ( निर्धनः ), लज्जया, महाजनस्य, दूरात्, एव, विहरति, ( अतः अहम् इदम् ) मन्ये, निर्धनता, अपरम्, प्रकामम्, षष्ठम्, महापातकम् ॥ ३७ ॥

शब्दार्थ—हि=चूँकि, कश्चित्=कोई भी, अस्य=इस दरिद्र का, सङ्गम्=साथ, नैव=नहीं, कुरुते=करता है, अतः=इसलिये, ( कोई भी ) आदरात्=आदर से, न=नहीं, सम्भाषते=बोलता है, उत्सवेषु=उत्सवों, जलसों में, धनिनाम्=धनवानों के, गृहम्=घर को, सम्प्राप्तः=प्राप्त करने वाला, पहुँचने वाला, सावज्ञम्=अपमान के