भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 186, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 186

६८ | मृच्छकटिकम्

मा दुग्गदोत्ति परिहवो णत्थि कअन्तस्स दुग्गदो णाम ।
चारित्तेण विहीणो अड्ढो विअ दुग्गदो होइ ॥ ४३ ॥

( मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम ।
चारित्र्येण विहीन आढ्योऽपि च दुर्गतो भवति ॥ ४३ ॥ )


अन्वयः— (अयं, जनः ), दुर्गतः, 'इति, परिभवः, मा, (कार्षीः ), कृतान्तस्य, (समक्षम्), दुर्गतः, न, अस्ति, नाम, च, चारित्र्येण, विहीनः, आढ्यः, अपि, दुर्गतः, भवति ॥ ४३ ॥

शब्दार्थ— (अयं जनः=यह व्यक्ति), दुर्गतः=दरिद्र (है), इति=इसलिये, परिभवः=अपमान, मा=मत, (कार्षीः=करो); कृतान्तस्य=यमराज के (समक्षम्=सामने) दुर्गतः=दरिद्र, न=नहीं, अस्ति=है, नाम च=प्रत्युत, चारित्र्येण=सदाचरण से, विहीनः=रहित, आढ्यः=धनी, अपि=भी, दुर्गतः=दरिद्र, भवति=होता है ॥४३॥

अर्थ— (यह) दरिद्र है इसलिये (किसी का) अपमान मत करो, क्योंकि यमराज के सामने कोई दरिद्र नहीं है। धनी भी चरित्र से विहीन निर्धन ही होता है। अतः दरिद्र समझ कर चारुदत्त अथवा उसके सम्बन्धियों का अपमान करना अनुचित है ॥ ४३ ॥

टीका— (अयम्) दुर्गतः=दुखं प्राप्तः दरिद्रः, इति=हेतोः, (तस्य) परिभवः=अवमानना, मा=नैव, (कार्षीः) हि, कृतान्तस्य=यमराजस्य, (समक्षम्) दुर्गतः=दरिद्रः, न=नैव, अस्ति=भवति, नाम, इदं सम्भावनायाम् । यमस्य समक्षम् निश्चयेन कश्चिदपि दरिद्रो धनी वा न भवति । चारित्र्येण=सदाचारेण, शास्त्र-सम्मताचारेण, विहीनः=रहितः, आढ्यः=धनवान्, अपि दुर्गतः=दरिद्रो, भवति=वर्तते। एवञ्च धनेन अस्य धनिकत्वं नैव द्रष्टव्यम्, प्रत्युत शिष्टाचारेणेति भावः। प्रथमवाक्यार्थस्य द्वितीयवाक्यार्थेन समर्थनात् काव्यलिङ्गम् । अप्रस्तुतप्रशंसा चेत्यनयोः संसृष्टिः। गाथा छन्दः । तल्लक्षणम्—

विषमाक्षरपादत्वात्, पादौ रसमञ्जस धर्मवत् ।
यश्छन्दसि नोक्तमत्र, गायेति तत् कथितं सूरिभिः ॥४३॥

विमर्श— दुर्गतः—दुर्=कष्टं गतः=प्राप्तः अर्थात् दरिद्रः । परिभवः=तिरस्कार । चारित्र्येण—चरित्र शब्द से स्वार्थिक ष्यञ् प्रत्यय हैं अतः चरित्र, चारित्र और चारित्र्य सभी समानार्थक ही हैं । कृतान्तः=कृतः अन्तः येन सः—सभी का अन्त करनेवाला यमराज । इसमें काव्यलिङ्ग और अप्रस्तुतप्रशंसा की निरपेक्षरूपेण स्थिति होने से संसृष्टि है। गाथा छन्द है। लक्षण संस्कृत टीका में देखिये ॥४२॥