मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 200, कुल 760 में से
संदर्भ में पढ़ें११२ मृच्छकटिकम्
शोट्ठिकं भणेशि लहुकं भणेशि । तथा भणेशि, जधा हगे अत्तण- केलिकाए पासाद-बालग्ग-कवोद-वालिआए उवविट्ठे शुणामि अण्णधा जदि भणेशि, तधा कवाल-तल-पविट्ठ-कवित्थगुड़िअं विअ मत्थअं दे मड़मड़ाइश्शं । ( स्वस्तिकं भणिष्यसि, लघुकं भणिष्यसि । तथा भणिष्यसि यथाऽ- हमात्मीयायां प्रासाद-बालाग्र-कपोत-पालिकायामुपविष्टः शृणोमि; अन्यथा यदि भणिष्यसि, तदा कपाट-तल-प्रविष्टं कपित्थगुलिकमिव मस्तकं ते मड़म- ड़ायिष्यामि । )
'भवति पूति' इसमें काकु है, अर्थात् अवश्य ही पूति=विकृत हो जाता है। अतः यदि चारुदत्त वसन्तसेना को शीघ्र ही नहीं भेजते हैं तो उसी का अनिष्ट होना निश्चित है । इसमें इन्द्रवज्रा छन्द है ॥ ५१ ॥
अर्थ--- भलाई के साथ कहना, जल्दी ही कहना । इस प्रकार से कहना कि मैं अपनी नवनिर्मित ऊपरी कपोतपालिका में बैठा हुआ सुन सकूँ । यदि इसके विपरीत कहोगे, तो किवाड़ के नीचे रक्खे हुये कैथा के समान तुम्हारी खोपड़ी मरमरा डालूँगा, चकनाचूर कर दूँगा ।
टीका---ससुवर्णा--- सुवर्णेन सहिता, स्वर्णालंकृता, सहिरण्या=हिरण्येन सहिता, स्वर्णयुक्ता, शकारवचनत्वात् पुनरुक्तिर्न चिन्त्या । केचित्तु--वर्णैः सह विद्यमाना, वाक्चातुरीसहितेति भाव इत्याहुस्तन्न, सुष्ठु=शोभनाः वर्णाः यस्याः सा---इति बहुव्रीहिणैव सिद्धे सहितार्थक 'स'कार-प्रयोगवैयर्थ्यापत्तेः । एवमेव---सुष्ठु वर्णेन सहिता---इत्यपि न; सुष्ठु शोभनं वा वर्णं यस्याः सेति बहुव्रीहिणैव निर्वाहात्, सूत्रधारीव = प्रमुखनटीव, कामदेवायतनोद्यानात् = कामदेवायतनाख्योद्याने गमन-कालात्, बलात्कारानुमीयमाना = बलात्कारेण=बलपूर्वकम्, अनुनीयमाना=प्रार्थ्यमाना, व्यवहारम् = विवादम्, निर्यात्यतः = समर्पयतः अनुबद्धा = अतिदृढ़ीभूता, मरणान्तकम् = मरणावधि, अत्र 'आङ्'अन्तक'--इत्यनयोरेकतरेणैव निर्वाह इति आमरणान्तकमिति चिन्त्यम् ।
स्वस्तिकम् = शकारानुकूलं यथा स्यात् तथा, 'शोभनम्' इति पाठान्तरम्, लघुकम् = शीघ्रम्, 'सकपटम्' इति पाठान्तरम्, अहम् = शकारः, प्रासादबालाग्रकपोत-पालिकायाम् = प्रासादस्य = हर्म्यस्य, यत् बालम् = नवनिर्मितम्, अग्रम् = अग्रभागः, तत्र या कपोतपालिका = कपोतानां पालिका = रक्षास्थानम्, विटङ्कम्, तत्र, 'कपोत-पालिकायान्तु विटङ्कं पुन्नपुंसकम्' इत्यमरः; अत्र शकारस्याभिप्रायो न स्पष्टतया प्रतीयते, अन्यथा = मदुक्ताद् विपरीतम, मडमडायिष्यामि = मडमड इति शब्दं करिष्यामि, चूर्णयिष्यामि इति भावः । कुत्रचित् 'अन्यथा यदि न भणिष्यसि' इति पाठस्तत्र यदि न भणिष्यसीत्यधिकम् 'अन्यथा' इत्यनेनैव निर्वाहात् । अतः मूलोक्तमेव समीचीनम् ।