भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 223, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 223

द्वितीयोऽङ्कः १३५

( प्रविश्य अपटीक्षेपेण संभ्रान्तः । )

संवाहकः—कट्टे एशे जूदिअलभावे। हीमाणाहे ! (कष्ट एष द्यूतकरभावः। आश्चर्यम् !)


**टीका—**हीनकुसुमम्=हीनानि=निर्गतानि कुसुमानि यस्मात् यस्य वा तम्, मञ्जरीरहितम्, सहकारपादपम्=आम्रवृक्षम्, मधुकर्य्यः=भ्रमर्य्यः, न सेवन्ते=नैवाश्रयन्ति । मधुकर्य्यः=मधु=क्षौद्रं कुर्व्वन्ति इति अन्वर्थोपपादनार्थं पुष्पितसहकारवृक्षस्यैव सेवनमावश्यकमित्यर्थः। अत्र पृथ्वीधरः- मधुकुर्व्वन्ति=सेवन्ते, मत्ता इत्यर्थः । मधु कुर्व्वन्त्येव केवलं न स्वयं सेवन्ते । तथा गणिका धनार्थमेव केवलं स्वदेहं परोपकरणीकृत्य अलब्धरतयो वृथाजन्मभाजो भवन्तीत्यर्थः ।' मनीषितः=मनसः=हृदयस्य, ईषितः=वाञ्छितः, सहसा=झटिति अविचारपूर्वकमिति भावः, अभिसार्यते=दूत्यादिद्वारा स्वयं वाऽभिसारः क्रियते, सहसा=विस्रम्भोत्पादनात् पूर्वमेव, अभिसार्यमाणः = अभिसरणविषयीक्रियमाणः, प्रत्युपकारदुर्बलतया = प्रत्युपकारे=ममाभिसरणरूपोपकारस्य प्रतिदाने, दुर्बलतया=असमर्थतया धनाद्यभावादित्यर्थः, दुर्लभदर्शनः=दुर्लभम्=दुष्प्राप्यम्, दर्शनम्=साक्षात्कारः मेलनं वा, मा भविष्यतीत्यत्र काकुः, न भविष्यति ? अर्थात् प्रत्युपकारासमर्थतया व्रीडया न कदाप्यात्मानं मां दर्शयिष्यति अतो न सहसाऽभिसार्यते । निक्षिप्तः=स्थापितः । दशसुवर्णस्य=दशानां सुवर्णानां समाहारः दशसुवर्णम्, तस्य=तात्कालिक-दशसंख्याक-सुवर्ण-मुद्रासमूहस्येत्यर्थः, हेतौ षष्ठी । रुद्धः=तद्दानाय परिगृहीतः, गृहाण=धारय, प्रदृष्टोऽसि=अवलोकितोऽसि मयेति शेषः । 'नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि च' इत्युक्तेः पलायमानस्य संवाहकस्य प्रवेशं सूचयन्नेपथ्ये माथुरो वदति—'अले भट्टा' इत्यादि ।

**विमर्शः—**मधुकर्यः=मधु को बनाती या एकत्रित ही करती हैं, स्वयं सेवन नहीं कर पाती हैं । इसी प्रकार वेश्यायें भी धनादि के लिये अपने शरीर का विक्रय करती है, रतिसुख नहीं पाती हैं अतः उनका जन्म व्यर्थ है । दुर्लभदर्शनः मा भविष्यति—वसन्तसेना का आशय यह है कि जब तक उसे मुझपर पूरा विश्वास नहीं हो जाता है, तब तक अचानक मिलना ठीक नहीं है । क्योंकि आवेश में कुछ करने के बाद वह उसके प्रत्युपकार-स्वरूप धनादि मुझे नहीं दे सकेगा । फलस्वरूप अत्यन्त लज्जित होकर फिर कभी भी नहीं मिलना चाहेगा । अतः मुझे पहले उसका विश्वास जीतना है । दशसुवर्णस्य उस समय सोने का प्रचलित सिक्का आदि रहा होगा । अभिसारिका—

अभिसारयते कान्तं या मन्मथवशम्वदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥

मृच्छकटिकम् (सटीक संस्कृत नाटक) · पृष्ठ 223, कुल 760 में से · BharatKosha