भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 249, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 249

द्वितीयोऽङ्कः । १६१

माथुरः--भूदाइं सुवण्णाइं । ( भूतानि सुवर्णानि । )

द्यूतकरः--लाअउलं गदुअ णिवेदेम्ह ? । ( राजकुलं गत्वा निवेदयावः ? )

माथुरः--एस धूत्तो अदो णिक्कमिअ अण्णत्त गमिस्सदि; ता उअरोधे-णेढव गेण्हेम्ह । ( एष धूर्त्त अतो निष्क्रम्य अन्यत्र गमिष्यति; तदुपरोधेनैव गृह्णीवः । )

( वसन्तसेना मदनिकायाः संज्ञां ददाति । )

मदनिका--कुदो अज्जो ? को वा अज्जो ? कस्स वा अज्जो ? किं वा वित्तिं अज्जो उवजीअदि ? कुदो वा भअं ? । (कुत आर्य्यः ? को वा आर्य्यः ? कस्य वा आर्य्यः ? किं वा वृत्तिम् आर्य्य उपजीवति ? कुतो वा भयम् ? )

संवाहकः-शुणादु अज्जआ । अज्जे ! पाडलिउत्ते मे जन्मभूमी, गहवइ-दालके हग्गे, संवाहअश्श वित्तिं उवजीआमि । ( शृणोतु आर्या । आर्ये ! पाटलिपुत्रं मे जन्मभूमिः, गृहपति-दारकोऽहम् । संवाहकस्य वृत्तिमुपजीवामि । )


माथुर--बहुत स्वर्ण ( मिलेंगे । )

द्यूतकर--क्या राजकुल ( पुलिस थाने में ) सूचित कर दें ?

माथुर--यह धूर्त यहां से निकल कर कहीं दूसरी जगह जायगा । अतः इसे निकलने का रास्ता घेरकर ही पकड़ें ।

( वसन्तसेना मदनिका को पूछने के लिये इशारा करती है । )

मदनिका--श्रीमन् आप कहाँ से आये हैं ? आप कौन हैं ? किसके सम्बन्धी हैं ? कौन सा व्यापार करके जीवन-यापन करते हैं ? तथा आपको किससे डर है ?

टीका--अत्र=श्लोक-प्रतिपादिताथंविषये, लक्षितः=लक्ष्यभूतः, कलहायिताः=कलहं कृतवन्तः इत्यर्थे 'शब्दवैरकलहाभ्रकण्वमेघेभ्य करणे' ( पा. सू. ३.१.१७ ) इत्यनेन क्यङ्, ततो निष्पन्नात् नामधातोः क्त प्रत्ययः। भग्ना=विदीर्णा। रुधिरपथम्=पतितरक्तविन्दुयुक्तमार्गम्, अनुसृत्य=अनुसरणं कृत्वा । भूतानि सुवर्णानि=प्रचुराणि स्वर्णखण्डानि, मिलिष्यन्तीति शेषः । निवेदयावः=सूचयावः, अत्र काकुः । अतः=वसन्तसेनागृहात्, निष्क्रम्य=निर्गत्य, तत्=तस्मात्, उपरोधेनैव=निर्गममार्गावरोधेनैव, गृह्णीवः=धारयावः । संज्ञां ददाति=अस्य शरणागतस्य नामादिकं पृच्छेति कटाक्षेण सूचयतीत्यर्थः । कुतः=कस्मात् स्थानात् आगत इति शेषः, कस्य=कस्य सम्बन्धीतिभावः । वृत्तिम्=जीविकाम्, उपजीवति=आश्रयतीति भावः, कुतः=कस्मात् जनादिकात्, भयम्=भीतिः-इद सर्वं कथयतु इति भावः ।

अर्थ--संवाहक--आर्या ! सुनें । मेरी जन्मभूमि पटना है । मै गृहपति ( ग्रामप्रधान ) का पुत्र हूँ । संवाहक=शरीर दबाने की वृत्ति=नौकरी से जीविका चलाता हूँ ।

११ मृ०