भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 251, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 251

द्वितीयोऽङ्कः १६३

वसन्तसेना—साहु, हञ्जे ! साहु ! मए वि एव्वं ज्जेव हिअएण मन्तिदं ।
( साधु हञ्जे ! साधु । मयापि एवमेव हृदयेन मन्त्रितम् । )
चेटो—अज्ज ! तदो तदो ? ( आर्य्य ! ततस्ततः ? )
संवाहकः—अज्जए ! शे दाणि अणुकक्रोशकिदेहिं पदाणेहिं...... !
( आर्ये ! स इदानीमनुक्रोशकृतैः प्रदानैः...... ! )
वसन्तसेना—किं उवरदविहवो संवृत्तो ? ( किमुपरतविभवः संवृत्तः ? )
संवाहकः—अणाजक्खिदे ज्जेव कहं अज्जआए विण्णादं ? । ( अनाख्यात-
मेव कथमार्यया विज्ञातम् ? )
वसन्तसेना—किं एत्थ जाणीअदि । दुल्लहा गुणा विहवा अ । अपेएसु
तडाएसु बहुदरं उदअं भोदि ।
( किमत्र ज्ञायते । दुर्लभा गुणा विभवाश्च ।
आपेयेषु तडागेषु बहुतरमुदकं भवति । )
चेटी—अज्ज ! किंणामधेओ क्खु सो ? । ( आर्य ! किंनामधेयः खलु सः ? )


वसन्तसेना—वाह दासी ! वाह । मैंने भी मन में ऐसा ही सोचा ।

**टीका—पाटलिपुत्रम्=**एतन्नामकं स्थानम्, **गृहपतिदारकः=**गृहपतिर्ग्रामाध्यक्षः इति पृथ्वीधरः, तस्य ग्रामाध्यक्षस्य पुत्रः, **संवाहकस्य=**संवाहयति=मर्दयति-इति संवाहकः = शरीरयन्त्रमर्दकः तस्य, **सुकुमारा=**अतीवकोमला, **कला=**विद्या, **आजीविका=**आजीवयतीति, जीवनपालनसाधनम्, **अतिनिर्विण्णम्=**अति=अत्यधिकम्, **निर्विण्णः=**खेदो यस्मिन् तत् महाखेदयुतम्, **आहिण्डकानाम्=**स्वगृहपर्यटकानां जनानाम्, विभिन्नस्थानावलोकनार्थं भ्रमणप्रियाणां वा, **अपूर्वस्य=**अद्भुतस्य, **देशस्य=**नगरस्य, **दर्शनस्य=**अवलोकनस्य, **कुतूहलेन=**औत्सुक्येन, **इह=**अत्र उज्जयिन्याम्, **एकः=**पूज्यत्वात् अगृहीतनामा, **प्रियदर्शनः=**सुरूपः, **कीर्त्तयति=**प्रचारयति, **अपकृतम्=**अपकारम्, **दक्षिणतया=**उदारतया, **परकीयमिव=**अन्यदीयमिव, **शरणागतानाम्=**रक्षार्थमाश्रितानाम् **वत्सलः=**अनुरागी, **मनोरथान्तरस्य=**मनोरथस्यान्तरः, तस्य, मनोरथाभिमुखस्येत्यर्थः, **अलङ्करोति=**विभूषयतीत्यत्र काकुः, **मन्त्रितम्=**चिन्तितम् ।।

अर्थ--चेटी--आर्य ! इसके बाद ?

संवाहक--आर्ये ! वे इस समय करुणावश किये गये दानों के कारण...... ।

वसन्तसेना--क्या निर्धन हो गये ?

संवाहक--बिना कहे हुये ही आप कैसे समझ गयीं ?

वसन्तसेना--इसमें जानना क्या ? सद्गुणों और धन का ( एक व्यक्ति में ) मिलना कठिन है । जिनका पानी नहीं पीने योग्य=अपेय होता है उन्हीं तालाबों में खूब पानी रहता है ।

चेटी--आर्य ! उन महानुभाव का नाम क्या है ?