भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 262, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 262
१७४मृच्छकटिकम्

अवणेध वालअजणं तुरिदं आरुहध वूक्ख-पासादं ।
कि ण हु पेक्खध पुरदो दुट्ठो हत्थी इदो एदि ॥ १८ ॥
( अपनयत बालकजनं त्वरितमारोहत वृक्षप्रासादम् ।
किं नु खलु प्रेक्षध्वं पुरतो दुष्टो हस्ती इत एति ॥ १८ ॥ )


यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः ।
तं गन्धहस्तिनं प्राहुर्नृपतेर्विजयावहम् ॥

प्रेक्षिष्ये=अवलोकयिष्ये, एतेन=हस्तिदर्शनादिना, यथाव्यवसितम् = निश्चयानुसारम् = अनुष्ठास्यामि = करिष्यामि, कस्मिन्, कस्मिन् = कुत्र, कुत्र इति इति पाठान्तरम्, दुर्मनुष्य = दुष्टमनुष्य !, अवस्थिताम्=विराजमानाम्, न=नैव प्रेक्षसे=अवलोकयसि, परितुष्टमुखः=परितुष्टम्=प्रसन्नम् मुखं यस्य सः, हृष्टाननः, वञ्चितासि=अलब्धावसराऽसि, आलानस्तम्भम् = बन्धनस्तम्भम्, भङ्क्त्वा=सन्त्रोट्य, महामात्रम्=हस्तिपकम्, व्यापाद्य=मारयित्वा, संक्षोभम्=सन्त्रासं कुर्वन्, अत्रान्तरे=एतन्मध्ये, जनेन=लोकेन, इति जातावेकवचनम्, लोकैरित्यर्थः ।

**अन्वयः—**बालकजनम्, अपनयत, वृक्षप्रासादम्, आरोहत, पुरतः, किम्, नु, प्रेक्षध्वम्, दुष्टः, हस्ती, इतः, ( एव ), एति ॥ १८ ॥

**शब्दार्थ—**बालकजनम् = बच्चों को, अपनयत = दूर हटाओ, वृक्षप्रासादम् = पेड़ और मकानों पर, त्वरितम् = जल्दी से, आरोहत = चढ़ जाओ, पुरतः = आगे, किम् = क्या, नु खलु = नहीं, प्रेक्षध्वम् = देख रहे हो, दुष्टः = दुष्ट बिगड़ा हुआ, हस्ती = हाथी, इतः = इसी ओर, एति = जा रहा है, ( आ रहा है ) ॥ १८ ॥

**अर्थ—**बच्चों को हटाओ । पेड़ों और मकानों पर जल्दी से चढ़ जाओ । क्या सामने नहीं देख रहे हो ? दुष्ट ( बिगड़ा हुआ ) हाथी इसी ओर आ रहा है ॥ १८ ॥

**टीका—**बालकजनम् = शिशुजनम्, अपनयत = दूरं कुरुत, वृक्षप्रासादम् = वृक्षः = तरुः, प्रासादः, = भवनम्-एषां समाहारद्वन्द्वः, त्वरितम् = शीघ्रम्, आरोहत = समारोहत, आरुह्यात्मानं रक्षेतेति भावः, पुरतः = अग्रे, समक्षम्, किम्, न खलु = नैव खलु प्रेक्षध्वम् = पश्यथ, दुष्टः = मत्त: बन्धनमुक्तः, हस्ती = गजः, इतः = अस्यां दिश्येव, एति = आगच्छतीत्यर्थः । अत्र प्रेक्षध्वमिति लोट् न युक्तः, प्रेक्षध्वे इति लट् एव समीचीनः । आर्या वृत्तम् ॥ १८ ॥

**विमर्श—**अपनयत-अप + √णीञ् + लोट् म. पु. ब. व. । आरोहत - आङ् + √रुह् + लोट् म. पु. ब. व. । वृक्षप्रासादम्-वृक्षाश्च प्रासादश्च इत्येतेषां समाहारद्वन्द्वः, इसी लिये एकवचन है । किम् न खलु प्रेक्षध्वम्-यहाँ कि नु खलु यह भी पाठ है । प्रेक्षध्वम्-इस लोट् की अपेक्षा प्रेक्षध्वे-यह लट् प्रयोग अधिक उचित है। एति- गत्यर्थक √इण् + लट् प्र. पु. ए. व. । यहाँ तात्पर्यवश 'आता है' यह अर्थ करना चाहिये । इसमें आर्या छन्द है ॥ १८ ॥