भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 265, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 265

द्वितीयोऽङ्कः । १७७

वसन्तसेना—तदो तदो ? । ( ततस्ततः ? )
कर्णपूरकः

आहणिऊण सरोसं तं हत्थिं विज्झ-सेल-सिहराभं ।
माआविओ मए सो दन्तरन्तरसंठिओ परिव्वाजओ ॥ २० ॥
( आहत्य सरोषं तं हस्तिनं विन्ध्यशैल-शिखराभम् ।
मोचितो मया स दन्तरन्तरसंस्थितः परिव्राजकः ॥ २० ॥ )


उच्चैर्घोषितम्, व्यापाद्यते=हन्यते। प्रमादः=अनर्थः, अनिष्टः। अलम् सम्भ्रमेण—'गम्यमानापि क्रिया कारकविभक्ती प्रयोजिके' तितृतीया। विच्छिन्नः=त्रुटितः, अत एव च विसंष्ठुलः=अस्थिरः कम्पमानः, शृङ्खलानाम्=बन्धनसाधनीभूतलौहसूत्राणाम्, कलापः=समूहः, यस्य येन वा तम्, उद्वहन्तम्=धारयन्तम्, अन्नपिण्डोपपुष्टेन=अन्नसमूहेन उपपष्टः=परिपालितः, तेन, मया, वामचरणेन=वामपार्श्वगमनेन 'बाँया पेंतरा बदलकर' इति हिन्द्याम्, द्यूतलेखकम्=द्यूतकरं साम्प्रतं संन्यासिनम्, उद्घुष्य=सम्बोध्या, आकार्य्य वा, आकारितः=युद्धार्थमाहूतः।

अर्थ वसन्तसेना—इसके बाद ?

अन्वय—सरोषम्, विन्ध्यशैलशिखराभम्, तम्, हस्तिनम्, आहत्य, मया, दन्तरन्तरसंस्थितः, सः, परिव्राजकः, मोचितः ॥ २० ॥

शब्दार्थ—सरोषम्=क्रोधयुक्त, मत्त, विन्ध्यशैलशिखराभम्=विन्ध्याचल के शिखर के समान विशालकाय, तम्=उस दुष्ट, हस्तिनम्=हाथी को, आहत्य=मार कर, मया=मैंने, दन्तरन्तर-संस्थितः=दान्तों के बीच फँसे हुये, सः=उस, परिव्राजकः=बौद्ध संन्यासी को, मोचितः=छुड़ाया ॥ २० ॥

अर्थकर्णपूरक—गुस्सैल (क्रोधयुक्त), विन्ध्याचल पर्वत की चोटी के समान (विशालकाय) उस दुष्ट हाथी को मार कर मैंने उसके दान्तों में फँसे हुये बौद्ध संन्यासी को मुक्त करा दिया, जान से बचा लिया ॥ २० ॥

टीका—सरोषम्=सक्रोधम्, विन्ध्यशैलस्य=विन्ध्यपर्वतस्य, शिखरस्य=शैलस्य, आभा=कान्तिः, आकृतिर्वा यस्य तम्, विशालकायमित्यर्थः, तम्=पूर्वोक्तं दुष्टम्; गजम् = हस्तिनम्, आहत्य = प्रहृत्य, मया=कर्णपूरकेण, दन्तान्तरे=दत्तयोर्मध्ये संस्थितः=परिगृहीतः, परिव्राजकः=बौद्धसंन्यासी, मोचितः=मुक्तिं प्रापितः। अत्र केचित् 'सरोषम् आहत्य' इति क्रियाविशेषणं स्वीकुर्वन्ति। आत्रार्यायाः भेदः गीतिः वृत्तम् ॥२०॥

विमर्श—सरोषम्—इसे हाथी का विशेषण माना जाता है। किन्तु कुछ व्याख्याकारों ने 'सरोषम् आहत्य' क्रोधपूर्वक प्रहार करके-इस प्रकार क्रियाविशेषण माना है। दोनों सम्भव हैं। मोचितः—√मुच् + णिच् + क्त। इसमें आर्या छन्द का एक भेद गीति है। इसका लक्षण—

आर्या-पूर्वार्द्धसमं द्वितीयमपि भवति यत्र हंसगते ।
छन्दोविदस्तदानीं गीति ताममृतवाणि भाषन्ते ॥ २० ॥

१२ मृ०