मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 271, कुल 760 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः १८३
द्यूत-प्रसक्तमनुष्यो न शक्यो वारयितुं योऽपि स्वाभाविकदोषो न शक्यो वारयितुम् ॥२॥
कावि वेला अज्जचारुदत्तश्श गन्धव्वं शुणिदुं गदश्श । अदिकमदि अद्धल- अणी, अज्ज वि ण आगच्छदि । ता जाव वाहिल-दुआलशालाए गदुअ शुविशं । ( कापि वेला आर्य-चारुदत्तस्य गान्धर्व्वं श्रोतुं गतस्य । अतिक्रामति अर्द्धरजनी, अद्यापि नागच्छति । तद्यावत् बहिर्द्वारशालायां गत्वा स्वप्स्यामि । )
( इति तथा करोति । )
( ततः प्रविशति चारुदत्तो विदूषकश्च । )
चारुदत्तः--अहो अहो ! साधु, साधु रेभिलेन गीतम् । वीणा हि नाम असमुद्द्रोत्थितं रत्नम् । कुतः--
उत्कण्ठितस्य हृदयानुगुणा वयस्या सङ्केतके चिरयति प्रवरो विनोदः ।
प्रसक्तः, लोलुपः वा, बलीवर्दः=वृषभः, वारयितुम्=अवरोद्धुम्, न=नैव, शक्यः, अन्य-कलत्रप्रसक्तः=पर-स्त्री-प्रेमासक्तः, वारयितुम्=पृथक् कर्तुं न, शक्यः, द्यूते=द्यूत-क्रीडायाम्, प्रसक्तः=अनुरक्तः, मनुष्यः=पुरुषः, वारयितुम्=विरक्तीकर्तुम्, न शक्यः, यो कश्चनापि स्वाभाविकः = प्रकृतिसिद्धः, दोषः = दुर्गुणः, अस्ति, सः, न=नैव, वारयितुम्=निवारयितुम्, शक्यः । अत्र चेटः चारुदत्तस्यातिदयालुतामविचारितदानित्वं च दोषत्वेनाङ्गीकरोति । अत एव चारुदत्तस्य दुःखमिति तस्य भावः । अत्रा-प्रस्तुतप्रशंसानामकोऽलङ्कारः, शक्वरी जातिः वृत्तम् ॥२॥
विमर्शः--इस श्लोक में चेट चारुदत्त की अतिशय करुणाशीलता और दान-शीलता को स्वाभाविक दोष मानता है । अतः श्लोकवर्णित अन्य दोष जिस प्रकार नहीं छोड़े जा सकते उसी प्रकार दानप्रवृत्ति भी छोड़ना असम्भव है । इसके अतिरिक्त शकार की परस्त्री-लोलुपता तथा सम्वाहक आदि की द्यूतप्रियता भी अपरित्यज्य है । यहाँ स्वाभाविक दोषसामान्य के कथन के द्वारा प्रस्तुत चारुदत्त की दानप्रियता की प्रतीति कराई गई है । अतः अप्रस्तुतप्रशंसा अलंकार और शक्वरी जाति छन्द है ॥ २ ॥
अर्थ--गाना सुनने के लिये गये हुये चारुदत्त को कितनी देर हो चुकी है । आधी से अधिक रात बीत चुकी है । अभी तक नहीं आये हैं । तो तब तक बाहर दरवाजे वाले कमरे में सोता हूँ ( सोऊँगा ) ।
( इस प्रकार वैसा ही करता है । )
( इसके बाद चारुदत्त और विदूषक प्रवेश करते हैं । )
अन्वयः--( वीणा-इति गद्यस्थेन सम्बन्धः ) उत्कण्ठितस्य, हृदयानुगुणा, वयस्या, सङ्केतके, चिरयति, ( सति ), प्रवरः, विनोदः, विरहातुराणाम्, प्रियतमा, संस्थापना, रक्तस्य, रागपरिवृद्धकरः, प्रमोदः ( अस्ति ) ॥ ३ ॥