मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 296, कुल 760 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः २०९
शर्विलकः— किं नु खलु अयमिह मां प्रविष्टं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति ? तत् किं व्यापादयामि ? उत लघुत्वादुत्स्वप्नायते । (दृष्ट्वा ।) अये, जर्जर-स्नानशाटीनिबद्धं दीपप्रभयोद्दीपितं सत्यमेवैतदलङ्कणभण्डम् । भवतु, गृह्णामि । अथवा, न युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम् । तद् गच्छामि ।
विदूषकः— भो वअस्स ! साविदोसि गोबम्हणकामाए, जइ एदं सुवण्णभण्डअं ण गेण्हसि । ( भो वयस्य ! शापितोऽसि गोब्राह्मणकाम्यया, यदि एतत् सुवर्णभाण्डं न गृह्णासि । )
पणवः=पटहभेदो वाद्ययन्त्रविशेषः, कथमिति जिज्ञासायाम्, भवनप्रत्ययात् = होचितविभूतिविश्वासात्; गृहस्यास्य बहिराडम्बरमालोक्य मयैतद्विश्वस्तं यदेतद्धनिकगृहमिति । तथा चात्र ममाभीष्टसिद्धिर्भविष्यतीति भावः । पुस्तकाः=पुस्तकानि, पुस्तकशब्द उभयलिङ्गः । राजभयात्=राजकर्तृकाहरणभीतेः, चोरभयात्=चोरकर्तृकापहरणभीतेः, भूमिष्ठम्=भूमितलनिखातम्, धारयति=स्वामित्वेनाधिकरोति, बीजम्=भूमितलनिहितधनस्य सदसद्भावज्ञापकं पदार्थ-विशेषम् मन्त्रविशेषं वा, स्फारीभवति=प्रसरति; निखातधने सति भूतले समन्त्रबीजे निक्षिप्ते तस्य बहुलीभावः स्यादिति चौरशास्त्रप्रसिद्धिः, परन्तु अत्र तु न तथेति वास्तविकदरिद्रत्वं निश्चितम् । उत्स्वप्नायते=उत्कृष्टः=सत्यत्वेन प्रशस्यः स्वप्नो यस्य सः=उत्स्वप्नः, तद्वदाचरतीति क्यङि उत्स्वप्नायते, शयान एव किञ्चित् जल्पतीति भावः ।
अर्थ—शर्विलक— तो क्या यह सचमुच मुझे यहाँ आया हुआ देखकर "मैं दरिद्र हूँ" ऐसा (सूचित करता हुआ) मेरी हँसी उड़ा रहा है । तो क्या मार डालूँ ? अथवा दुर्बल मनवाला होने से बड़बड़ा रहा है । (देख कर) अरे, सचमुच ही पुरानी नहाने वाली साड़ी में बँधा हुआ, दीपक की कान्ति से चमकने वाला सोने के गहनों का डिब्बा है । अच्छा तो ले लेता हूँ । अथवा अपने समान दशा वाले कुलपुत्र को दुखी करना ठीक नहीं है । अतः चलता हूँ ।
विदूषक— मित्र ! तुम्हें गाय और ब्राह्मण की शपथ है यदि इस सुवर्णभाण्ड को नहीं लेते हो ।
टीका— उपहसति=उपहासं करोति, अत्र धनादिप्राप्तिभ्रान्त्या व्यर्थमेव प्रविष्ट इति उपहसतीति भावः, व्यापादयामि=हन्मि, जर्जरस्नानशाटीनिबद्धम्=जर्जरा या स्नानशाटी=अभ्यङ्गशाटिका, तया परिवेष्टितम्, दीपप्रभया=प्रदीपप्रकाशेन, उद्दीपितम् = देदीप्यमानं जातम्, तुल्यावस्थम् = तुल्या = समाना निर्धनतारूपा अवस्था=दशा यस्य तं तादृशम्, कुलपुत्रजनम् = सत्कुले उत्पन्नम्, पीडयितुम्=बाधितुम्; गोब्राह्मणकाम्यया=गवां ब्राह्मणानाञ्च काम्यया=अभिलाषेण,
१४ मृ०