भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 298, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 298

तृतीयोऽङ्कः २११

शर्विलकः— अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः । तद् गृहीतम् ।
विदूषकः— दाणीं विक्किणिद-पण्णो विअ वाणिओ, अहं सुहं सुविस्सं ।
( इदानीं विक्रीतपण्य इव वाणिजः अहं सुखं स्वप्स्यामि )
शर्विलकः— महाब्राह्मण ! स्वपिहि वर्षशतम् । कष्टम्, एवं मदनिका-गणिकार्थे ब्राह्मणकुलं तमसि पातितम् । अथवा, आत्मा पातितः !

धिगस्तु खलु दारिद्र्यमनिवेदितपौरुषम् ।
यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥ १६ ॥


शर्विलक— ब्राह्मण का आग्रह टाला नहीं जा सकता, अतः ले लिया ।
विदूषक— अब बेचने योग्य सामान को बेच कर निश्चिन्त हुये बनिया के समान सुख से सोऊँगा ।
शर्विलक— महाब्राह्मण ! सौ वर्ष सोओ । कष्ट है, वेश्या मदनिका के लिये ब्राह्मणकुल को अन्धकार में इस प्रकार गिरा दिया है । अथवा आत्मा ( अपने आप ) को ही गिरा दिया है ।

टीका— अनतिक्रमणीया = अनुल्लङ्घनीया, भगवती=शक्तिमयी, अस्ति च, अयं प्रारम्भसूचकोऽनर्थकः शब्द इति बोध्यम्, सार्थकत्वे अन्वयोपपादनासम्भवात्; आग्नेयः=अग्निदेवताकः, अग्निशमनकारक इति भावः । देशकालः=आदेशस्य समयः द्वन्द्वे तु एकवचनं पुंस्त्वं च चिन्त्यम, विचरितुम् = सङ्क्रमितुम्, पक्षद्वया-निलेन=पक्षद्वयजनितपवनेन, भद्रपीठेन = तन्नामकेन, अप्रतिग्राहकस्य = अगृहीतुः, अकार्यम्=चौर्यम्, प्रणयम् = प्रार्थनाम्, जिघृक्षति = ग्रहीतुम् इच्छति, अग्रहस्तः= कराग्रभागः सव्यहस्तम्=दक्षिणहस्तम्, विक्रीतपण्यः=विक्रीतं पण्यं=विक्रेयं वस्तु येन सः।

अन्वयः— अनिवेदितपौरुषम्, दारिद्र्यम्, धिक्, अस्तु, खलु, यत्, एतत्, गर्हितम्, कर्म, निन्दामि, च, करोमि, च ॥ १६ ॥

शब्दार्थ— अनिवेदितपौरुषम्=अप्रदर्शितपौरुषवाली, दारिद्र्यम्=गरीबी को, धिक्=धिक्कार, अस्तु=हो, खलु=निश्चयेन, यत्=क्योंकि, एतत्=इस, गर्हितम्=निन्दित, कर्म=चोरी की, निन्दामि=बुराई भी करता हूँ, च=और, करोमि=कर भी रहा हूँ ॥ १६ ॥

अर्थ— जिसमें पौरुष प्रदर्शित नहीं हो पाता ऐसी गरीबी को निश्चित ही धिक्कार है । क्योंकि इस निन्दित चोरी की बुराई भी कर रहा हूँ और (उसे ही) कर भी रहा हूँ ॥ १६ ॥

टीका— एतादृशदुष्कृतिनिदानतया दारिद्र्यमेव निन्दन्नाह —धिगस्त्विति । अनिवेदितम्=अप्रदर्शितम्, अकथितं वा पौरुषम्=पुरुषकारः यत्र तादृशम्, अनिवेदित-