भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 308, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 308

तृतीयोऽङ्कः २२१

चारुदत्तः— कथं न्यासः। ( मोहमुपगतः )

विदूषकः— समस्ससदु भवं। जइ णासो चोरेण अवहदो, तुमं किं मोहं उवगदो? । ( समाश्वसितु भवान् । यदि न्यासश्चोरेणापहृतः, त्वं किं मोहमुपगतः ? )

चारुदत्तः— ( समाश्वस्य ) वयस्य !

कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति । शङ्कनीया हि लोकेऽस्मिन् निष्प्रतापा दरिद्रता ॥ २४ ॥


चारुदत्त— क्या धरोहर थी ? ( मूर्छित हो जाता है । )

विदूषक— आप धैर्य धारण करें । यदि चोर ने धरोहर चुरा ली तो आप क्यों मूच्छित हो गये ?

टीका— तपस्वी = वराकः, सार्थवाहसुतस्य = चारुदत्तस्य, समासादितम् = प्राप्तम्, चौरहतकम् = चौरश्चासौ हतकश्च इति चौरहतकः = दुष्टचौरः, निष्क्रामयिष्यामि = अपहरिष्यामि, परिहासस्य = उपहासस्य, देशकालम् = स्थानसमयम्, दिष्ट्या = भाग्येन, न्यासः = निक्षेपः, वसन्तसेनाया इति शेषः, समाश्वसितु = समाश्वस्तो भवतु ।।

अन्वयः— कः, भूतार्थम्, श्रद्धास्यति, सर्वः, माम्, तुलयिष्यति, हि, अस्मिन्, लोके, निष्प्रतापा, दरिद्रता, शङ्कनीया, ( भवति ) ॥ २४ ॥

शब्दार्थ— कः=कौन, भूतार्थम्=बीती सच बात पर, श्रद्धास्यति=विश्वास करेगा, सर्वः=सभी कोई, माम्=मुझे, तुलयिष्यति=तौलेंगे, अर्थात सन्देह करेंगे, हि=क्योंकि, अस्मिन्=इस, लोके = ससार में, निष्प्रतापा = प्रतापहीन, दरिद्रता=गरीबी, शङ्कनीया=शङ्का करने योग्य, भवति=होती है ॥ २४ ॥

अर्थ—चारुदत्त—( धैर्य धारण करके ) मित्र !

कौन बीती हुई सच बात पर विश्वास करेगा ? सभी मुझ पर सन्देह करेंगे, क्योंकि इस संसार में प्रतापशून्य निर्धनता सन्देह करने योग्य होती है, अर्थात् दरिद्र पर सभी लोग शंका करने लग जाते हैं ॥ २४ ॥

टीका वसन्तसेनायाः न्यासापहारे कथं मोह इति विदूषकोक्तिमुत्तरयन्नाह— क इति । कः = जनः, भूतार्थम् = सञ्जातं यथार्थम्, 'चौरेणेव तत्सुवर्णभाण्डमपहृतं न त्वनेन'–इत्येवं रूपम्, श्रद्धास्यति = विश्वासिष्यति, **हि=**यतः, अस्मिन् लोके= संसारे, निष्प्रतापा = प्रतापहीना, दरिद्रता = निर्धनता, **शङ्कनीया=**शङ्कास्थानम्, भवतीति भावः । अत्र सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः अलंकारः, अनुष्टुप् वृत्तम् ॥ २४ ॥