भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 313, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 313

२२६ मृच्छकटिकम्

वधूः—अहं क्खु रअणसट्ठि उववसिदा आसि। तंहि जहाविहवाणु- सारेण वम्हणो पडिग्गाहिदव्वो, सो अ ण पडिग्गाहिदो; ता तस्स किदे पडिच्छ इमं रअणमालिअं । ( अहं खलु रत्नषष्ठीमुपोषिता आसम् । तस्मिन् यथाविभवानुसारेण ब्राह्मणः प्रतिग्राहयितव्यः, स च न प्रतिग्राहितः, तत् तस्य कृते प्रतीच्छ इमां रत्नमालिकाम् । ) विदूषकः—( गृहीत्वा ) सोत्थि। गमिस्सं, पिअवअस्सस्स णिवेदेमि । ( स्वस्ति। गमिष्यामि। प्रियवयस्यस्य निवेदयामि । ) वधूः—अज्ज मित्तेअ ! मा क्खु मं लज्जावेहि । ( इति निष्क्रान्ता ) ( आर्य मैत्रेय ! मा खलु मां लज्जितां कुरु : ) विदूषकः—( सविस्मयम् ) अहो ! से महाणुभावदा । ( अहो ! अस्या महानुभावता । ) चारुदत्तः—अये ! चिरयति मैत्रेयः । मा नाम वैक्लव्यादकार्यं कुर्यात् । मैत्रेय ! मैत्रेय !


वधू—मैंने रत्नषष्ठी व्रत रखा था। उसमें अपनी सम्पत्ति के अनुसार ब्राह्मण को दान देना चाहिये; वह नहीं दिया है, अतः उसके लिये इस रत्नावली को ले लीजिये । विदूषक—( लेकर ) आपका कल्याण हो । प्रिय मित्र से निवेदित करूँगा । वधू—आर्य मैत्रेय ! मुझे लज्जित मत करें । ( यह कह कर निकल जाती है । )

टीका—उपसर्प=समीपं गच्छ, पुरस्तान्मुखः = पुरस्तात् = पूर्वस्यां दिशि, मुखं यस्य सः, अभिमुख इत्यर्थः, प्रतीच्छ=गृहाण, रत्नषष्ठीम्=एतन्नाम्ना प्रसिद्धं व्रतम्, यस्यां रत्नदानं विहितमिति यावत्, अत्र अत्यन्तसंयोगे द्वितीया बोध्या, न च 'अभुक्त्यर्थस्य' इत्यनेन निषेधात् कथमत्र कर्मत्वम्, "गत्यर्थ०" (पा. सू. २।३।१२ ) इति सूत्रे 'हरिदिनमुपोषितः' इत्युदाहरणदानेन वसतेरत्र स्थितिरर्थः, भोजन- निवृत्तिस्त्वार्थिकेति व्याचख्युः । यथाविभवानुसारेण=सम्पत्त्यनुरूपम्, अत्र यथा- विभवम् इत्यव्ययीभावेनैव निर्वाहे सम्भवे 'अनुसार' शब्दप्रयोगश्चिन्त्यः । प्रति- ग्राहितव्यः = दातव्यः, तस्य = व्रतस्य, मा लज्ज मदाशयं ज्ञात्वा मम लज्जाकरं न वदेति भावः ।

अर्थ—विदूषक—( आश्चर्य के साथ ) अहो, इसकी अतिशय उदारता । चारुदत्त—अरे, मैत्रेय देर कर रहा है । कहीं दुःख या व्याकुलता के कारण ( आत्महत्या आदि ) अकार्य न कर डाले । मैत्रेय ! मैत्रेय !