भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 312, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 312

तृतीयोऽङ्कः २२४

रत्नावली तिष्ठति । एतामपि अतिशौण्डीरतया आर्यपुत्रो न ग्रहीष्यति । हञ्जे ! आर्यमैत्रेयं तावत् शब्दापय ।)

चेटो—जं अज्जा धूदा आणवेदि । (विदूषकमुपगम्य) अज्ज मित्तेअ ! धूदा दे सद्वावेदि । (यदार्या धूता आज्ञापयति । आर्य मैत्रेय ! धूता त्वां शब्दापयति ।)

विदूषकः—कहिं सा ? । (कस्मिन् सा ? )

चेटी—एसा चिट्ठदि, उवसप्प । (एषा तिष्ठति, उपसर्प । )

विदूषकः—(उपसृत्य) सोत्थि भोदीए । (स्वस्ति भवत्यै ।)

वधूः—अज्ज ! वन्दामि । अज्ज ! पुरत्थिआमुहो होहि । (आर्य ! वन्दे । आर्य पुरस्तान्मुखो भव ।)

विदूषकः—एसो भोदि ! पुरत्थिआमुहो संवुत्तोह्नि । (एष भवति ! पुरस्तान्मुखः संवृत्तोऽस्मि ।)

वधूः—अज्ज ! पडिच्छ इमं । (आर्य ! प्रतीच्छ इमाम् ।)

विदूषकः—किं ण्णदं ? (किं न्विदम् ? )


परन्तु अत्यधिक उदार होने के कारण आर्यपुत्र इसे भी नहीं लेंगे । सखी, आर्य मैत्रेय को बुलाओ ।

टीकावधूः=चारुदत्तस्य भार्या, अपरिक्षतशरीरः = अपरिक्षतम् = चौरादि-प्रहारेण अपरिभ्रष्टम्, शरीरं यस्य सः, वेश्याजनस्य=वसन्तसेनायाः, परिक्षतः=परिभ्रष्टः, पुनः = परन्तु, अकार्यम् = न्यासापहरणरूपम्, अनुष्ठितम् = सम्पादितम्, कृतान्त=दैव । पुष्करस्य = कमलस्य, पत्रेषु = दलेषु, पतिता ये जलविन्दवस्तद्वत् चञ्चलैः=अस्थिरैः, भाग्यधेयैः=भाग्यैरित्यर्थः, स्वार्थे धेयप्रत्ययः, क्रीडसि-विहरसि, रत्नावली=रत्नानां हारविशेषः, तिष्ठति=धार्यते, अतिशौण्डीरतया=अतीवोदारतया, ग्रहीष्यति=पत्नीधनं पुरुषेण न ग्राह्यमिति भावनया नैव स्वीकरिष्यतीति भावः ।

अर्थचेटी—जैसी आर्या धूता की आज्ञा । (विदूषक के पास जाकर) आर्य मैत्रेय ! धूता आपको बुला रही हैं ।

विदूषक — वे कहाँ है ?

चेटी—वे यहाँ हैं, चलिये ।

विदूषक—(पास जाकर) आपका कल्याण हो ।

वधू—आर्य ! आपको प्रणाम है । आर्य, सम्मुख होइये ।

विदूषक—पूजनीये ! यह मैं आपके सामने हो गया हूँ ।

वधू—आर्य ! इसे ग्रहण कर लीजिये ।

विदूषक—यह क्या है ?

१५ मृ०