मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
तृतीयोऽङ्कः २२४
रत्नावली तिष्ठति । एतामपि अतिशौण्डीरतया आर्यपुत्रो न ग्रहीष्यति । हञ्जे ! आर्यमैत्रेयं तावत् शब्दापय ।)
चेटो—जं अज्जा धूदा आणवेदि । (विदूषकमुपगम्य) अज्ज मित्तेअ ! धूदा दे सद्वावेदि । (यदार्या धूता आज्ञापयति । आर्य मैत्रेय ! धूता त्वां शब्दापयति ।)
विदूषकः—कहिं सा ? । (कस्मिन् सा ? )
चेटी—एसा चिट्ठदि, उवसप्प । (एषा तिष्ठति, उपसर्प । )
विदूषकः—(उपसृत्य) सोत्थि भोदीए । (स्वस्ति भवत्यै ।)
वधूः—अज्ज ! वन्दामि । अज्ज ! पुरत्थिआमुहो होहि । (आर्य ! वन्दे । आर्य पुरस्तान्मुखो भव ।)
विदूषकः—एसो भोदि ! पुरत्थिआमुहो संवुत्तोह्नि । (एष भवति ! पुरस्तान्मुखः संवृत्तोऽस्मि ।)
वधूः—अज्ज ! पडिच्छ इमं । (आर्य ! प्रतीच्छ इमाम् ।)
विदूषकः—किं ण्णदं ? (किं न्विदम् ? )
परन्तु अत्यधिक उदार होने के कारण आर्यपुत्र इसे भी नहीं लेंगे । सखी, आर्य मैत्रेय को बुलाओ ।
टीका—वधूः=चारुदत्तस्य भार्या, अपरिक्षतशरीरः = अपरिक्षतम् = चौरादि-प्रहारेण अपरिभ्रष्टम्, शरीरं यस्य सः, वेश्याजनस्य=वसन्तसेनायाः, परिक्षतः=परिभ्रष्टः, पुनः = परन्तु, अकार्यम् = न्यासापहरणरूपम्, अनुष्ठितम् = सम्पादितम्, कृतान्त=दैव । पुष्करस्य = कमलस्य, पत्रेषु = दलेषु, पतिता ये जलविन्दवस्तद्वत् चञ्चलैः=अस्थिरैः, भाग्यधेयैः=भाग्यैरित्यर्थः, स्वार्थे धेयप्रत्ययः, क्रीडसि-विहरसि, रत्नावली=रत्नानां हारविशेषः, तिष्ठति=धार्यते, अतिशौण्डीरतया=अतीवोदारतया, ग्रहीष्यति=पत्नीधनं पुरुषेण न ग्राह्यमिति भावनया नैव स्वीकरिष्यतीति भावः ।
अर्थ—चेटी—जैसी आर्या धूता की आज्ञा । (विदूषक के पास जाकर) आर्य मैत्रेय ! धूता आपको बुला रही हैं ।
विदूषक — वे कहाँ है ?
चेटी—वे यहाँ हैं, चलिये ।
विदूषक—(पास जाकर) आपका कल्याण हो ।
वधू—आर्य ! आपको प्रणाम है । आर्य, सम्मुख होइये ।
विदूषक—पूजनीये ! यह मैं आपके सामने हो गया हूँ ।
वधू—आर्य ! इसे ग्रहण कर लीजिये ।
विदूषक—यह क्या है ?
१५ मृ०
२२६ मृच्छकटिकम्
वधूः—अहं क्खु रअणसट्ठि उववसिदा आसि। तंहि जहाविहवाणु- सारेण वम्हणो पडिग्गाहिदव्वो, सो अ ण पडिग्गाहिदो; ता तस्स किदे पडिच्छ इमं रअणमालिअं । ( अहं खलु रत्नषष्ठीमुपोषिता आसम् । तस्मिन् यथाविभवानुसारेण ब्राह्मणः प्रतिग्राहयितव्यः, स च न प्रतिग्राहितः, तत् तस्य कृते प्रतीच्छ इमां रत्नमालिकाम् । ) विदूषकः—( गृहीत्वा ) सोत्थि। गमिस्सं, पिअवअस्सस्स णिवेदेमि । ( स्वस्ति। गमिष्यामि। प्रियवयस्यस्य निवेदयामि । ) वधूः—अज्ज मित्तेअ ! मा क्खु मं लज्जावेहि । ( इति निष्क्रान्ता ) ( आर्य मैत्रेय ! मा खलु मां लज्जितां कुरु : ) विदूषकः—( सविस्मयम् ) अहो ! से महाणुभावदा । ( अहो ! अस्या महानुभावता । ) चारुदत्तः—अये ! चिरयति मैत्रेयः । मा नाम वैक्लव्यादकार्यं कुर्यात् । मैत्रेय ! मैत्रेय !
वधू—मैंने रत्नषष्ठी व्रत रखा था। उसमें अपनी सम्पत्ति के अनुसार ब्राह्मण को दान देना चाहिये; वह नहीं दिया है, अतः उसके लिये इस रत्नावली को ले लीजिये । विदूषक—( लेकर ) आपका कल्याण हो । प्रिय मित्र से निवेदित करूँगा । वधू—आर्य मैत्रेय ! मुझे लज्जित मत करें । ( यह कह कर निकल जाती है । )
टीका—उपसर्प=समीपं गच्छ, पुरस्तान्मुखः = पुरस्तात् = पूर्वस्यां दिशि, मुखं यस्य सः, अभिमुख इत्यर्थः, प्रतीच्छ=गृहाण, रत्नषष्ठीम्=एतन्नाम्ना प्रसिद्धं व्रतम्, यस्यां रत्नदानं विहितमिति यावत्, अत्र अत्यन्तसंयोगे द्वितीया बोध्या, न च 'अभुक्त्यर्थस्य' इत्यनेन निषेधात् कथमत्र कर्मत्वम्, "गत्यर्थ०" (पा. सू. २।३।१२ ) इति सूत्रे 'हरिदिनमुपोषितः' इत्युदाहरणदानेन वसतेरत्र स्थितिरर्थः, भोजन- निवृत्तिस्त्वार्थिकेति व्याचख्युः । यथाविभवानुसारेण=सम्पत्त्यनुरूपम्, अत्र यथा- विभवम् इत्यव्ययीभावेनैव निर्वाहे सम्भवे 'अनुसार' शब्दप्रयोगश्चिन्त्यः । प्रति- ग्राहितव्यः = दातव्यः, तस्य = व्रतस्य, मा लज्ज मदाशयं ज्ञात्वा मम लज्जाकरं न वदेति भावः ।
अर्थ—विदूषक—( आश्चर्य के साथ ) अहो, इसकी अतिशय उदारता । चारुदत्त—अरे, मैत्रेय देर कर रहा है । कहीं दुःख या व्याकुलता के कारण ( आत्महत्या आदि ) अकार्य न कर डाले । मैत्रेय ! मैत्रेय !
तृतीयोऽङ्कः २२७
विदूषकः—(उपसृत्य) एसोम्हि । गेण्ह एदं । ( एषोऽस्मि, गृहाण एताम् )
( रत्नावलीं दर्शयति । )
चारुदत्तः—किमेतत् ?
विदूषकः—भो ! जं दे सदिस--दार-सङ्ग्रहस्य फलं । ( भोः ! यत् ते सदृशदारसंग्रहस्य फलम् । )
चारुदत्तः—कथं ब्राह्मणी मामनुकम्पते ? कष्टम् ! इदानीमस्मि दरिद्रः !
आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी, या नारी सार्थतः पुमान् ॥ २७ ॥
विदूषक—( समीप आकर ) मैं यह आ गया, इसे ले लीजिये । ( रत्नावली दिखाता है । )
चारुदत्त — यह क्या है ?
विदूषक—अरे, अपने योग्य पत्नी से विवाह करने का सुपरिणाम है ।
चारुदत्त—क्या ब्राह्मणी मुझ पर अनुकम्पा कर रही है । अब मैं ( वास्तव में ) दरिद्र हो गया !
टीका—महानुभावता=महाशयत्वम्, अस्याः=चारुदत्तस्य पत्न्याः, वैक्लव्यात्=शोकातिरेकात, अकार्यम् = आत्महत्यादिरूपमनुचितं कार्यम्, चिरयति = विलम्बं करोति, सदृशदारसङ्ग्रहस्य=स्वानुरूपपत्नीग्रहणस्य, सुपत्नीलक्षणम्—
सेवादासी, रतौ वेश्या, भोजने जाननी-समा ।
विपत्काले परं मित्रं सा भार्या भुवि दुर्लभा ॥
अन्वयः—आत्मभाग्यक्षतद्रव्यः, स्त्रीद्रव्येण, अनुकम्पितः पुरुषः, अर्थतः, नारी, ( भवति ), या नारी, सा, अर्थतः पुमान्, भवति ॥ २७ ॥
शब्दार्थ—आत्मभाग्यक्षतद्रव्यः = अपने दुर्भाग्य से विनष्ट धनवाला, स्त्री-द्रव्येण=स्त्री के धन से, अनुकम्पितः=अनुगृहीत होने वाला, पुरुषः=पुरुष, अर्थतः=धन से ( अर्थात् धन के कारण ) नारी=स्त्री, ( भवति=हो जाता है और ) या नारी = जो स्त्री, होती है, सा = वह, अर्थतः=धन के कारण, पुमान् = पूरुष हो जाती है ॥ २७ ॥
अर्थ—अपने दुर्भाग्य के कारण विनष्ट धनवाला तथा स्त्री के धन से अनुगृहीत होने वाला पुरुष धन ( न होने ) के कारण स्त्री ( अर्थात् स्त्री के समान ) हो जाता है, जो स्त्री होती है वह धन ( होने ) के कारण पुरुष ( अर्थात् पुरुषतुल्य, प्रधान ) बन जाती है ॥ २७ ॥
टीका—धूताया दत्तां विदूषकहस्तस्थां रत्नावलीं विलोक्य सनिर्वेदमाह—
३२८ मृच्छकटिकम्
अथवा नाहं दरिद्रः । यस्य मम---
विभवानुगता भार्या सुखदुःखसुहृद् भवान् । सत्यञ्च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ २८ ॥
आत्मभाग्येति । आत्मनः=स्वस्य, भाग्येन=दुर्देवेन, क्षतम्=विनष्टम्, द्रव्यम्=धनं यस्य सः, भाग्यशब्दः सौभाग्यदौर्भाग्योभयसाधारणः प्रसङ्गात् योजनीयः, स्त्री-द्रव्येण=स्त्रीधनेन, अनुकम्पितः=अनुगृहीतः, पुरुषः=जनः, अर्थतः=धनेन, धनाभावेनेति यावत्, नारी=स्त्री, या नारी = स्त्री, सा, अर्थतः = धनेन, पुमान्=पुरुषः भवति । अत्र धनस्य सत्त्वासत्त्वाभ्यामेव स्त्रीत्वं पुरुषत्वं च नियम्यते इति भावः । अत्र पुरुषस्य अर्थतो नारीत्वे पूर्वार्द्धगतपदद्वयस्य हेतुत्वेन काव्यलिङ्गमलङ्कारः, पथ्यावक्त्रं वृत्तम् ॥ २७ ॥
विमर्श---इदानीमस्मि दरिद्रः---यह चारुदत्तोक्ति अत्यन्त मार्मिक है। स्वाभिमान या पुरुषत्व पर होने वाले प्रहार को सहन करना चारुदत्त के वश के बाहर है। अर्थतः पुरुषो नारी---जब धन नहीं होता है तो पुरुष नारी बन जाता है क्योंकि उसमें शक्ति एवं सामर्थ्य नहीं रह पाते हैं। इसके विपरीत धन होने पर स्त्री पुरुष बन कर बड़े-बड़े कार्य करने में समर्थ हो जाती है। काव्यलिङ्ग अलंकार और पथ्यावक्त्र छन्द है ॥ २७ ॥
अन्वयः---( यस्य, मम-इति गद्यस्थेनान्वयः ) स्त्री, विभवानुगता, भवान्, सुखदुःखसुहृत्, सत्यम्, चं, न, परिभ्रष्टम्, यत्, दरिद्रेषु, दुर्लभम् ॥ २८ ॥
शब्दार्थः---( यस्य = जिस, मम = मेरी-इन गद्यस्थ पदों के साथ जोड़ना चाहिये ) स्त्री=पत्नी, विभवानुगता = विभव के अनुसार निर्वाह करने वाली है, भवान्=आप, सुखदुःखसुहृत्=सुख और दुःख के मित्र हैं, च=और, सत्यम्=सत्य, न=नहीं, परिभ्रष्टम् = छूटा, यत्=यह ( तीन बातें ), दरिद्रेषु = निर्धन लोगों में, दुर्लभम्=कष्ट से मिलने वाली हैं ॥ २८ ॥
अर्थ---अथवा मैं दरिद्र नहीं हूँ।
जिस मेरी पत्नी सम्पत्ति के अनुसार चलनेवाली है, आप सुख और दुःख के साथी हैं, और सत्य नहीं छूटा है, ये ( तीनों चीजें ) दरिद्रों में दुर्लभ होती हैं ॥ २८ ॥
टीका---आत्मनोऽदारिद्र्यं निरूपयन्नाह-स्त्रीति। स्त्री = पत्नी, विभवानुगता=विभवस्य = धनादेः, अनुसारिणी=अनुकूलकार्यकर्त्री, यथा धनादिकं भवति तथैव निर्वाहसमर्थेति भावः, भवान्=मैत्रेयः, सुखदुःखसुहृत्=सुखे दुःखे च, सम्पत्तौ विपत्तौ च सुहृत् = सखा, सत्यम् = सत्यभाषणम्, च, न=नैव, परिभ्रष्टम्=नष्टम्, यत्=पूर्वोक्तत्रयम्, दरिद्रेषु=निर्धनेषु, दुर्लभम्=दुष्प्रापम् । एवञ्च एषु त्रिषु सत्सु मम दारिद्र्यं नैवेति सिद्धम् । पथ्यावक्त्रं वृत्तम् ॥ २८ ॥
तृतीयोऽङ्कः २२९
मैत्रेय ! गच्छ रत्नावलीमादाय वसन्तसेनायाः सकाशम्; वक्तव्या च सा मद्वचनात्—“यत् खल्वस्माभिः सुवर्णभाण्डमात्मीयमिति कृत्वा विश्रम्भात् द्यूते हारितम्, तस्य कृते गृह्यतामियं रत्नावली” इति ।
विदूषकः—मा दाव अक्खाइदस्स अभुत्तस्स अप्पमुल्लस्स चोरेहिं अवहदस्स कारणादो चदुस्समुद्दसारभूदा रअणावली दीअदि । ( मा तावत् अखादितस्य अभुक्तस्य अल्पमूल्यस्य चौरैरपहृतस्य कारणात् चतुःसमुद्रसारभूता रत्नावली दीयते ।)
चारुदत्तः—वयस्य ! मा मैवम् ।
यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः ।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ २६ ॥
**विमर्श—**हर स्थिति में निर्वाह कर लेनेवाली पत्नी, हर दशा में साथ निभाने वाला मित्र और सत्यवचन की रक्षा — ये तीनों चारुदत्त अपने पास समझ रहा है । अतः वह दरिद्र नहीं है । दरिद्र नहीं है — इसके लिये तीन कारणों का उल्लेख करने से समुच्चय अलंकार है । पथ्यावक्त्र छन्द है ॥ २८ ॥
अर्थ—मैत्रेय ! रत्नावली लेकर वसन्तसेना के पास जाओ । और मेरी ओर से कहना — “सुवर्णभाण्ड को अपना समझ कर विश्वास से जुये में हार गया, उसके बदले में यह रत्नावली ले लो ।”
विदूषक— ( जो बेंचकर ) न खाया गया, न भोगा गया, अल्प मूल्यवाला, चोरों द्वारा चुराया गया जो सुवर्णभाण्ड था उसके बदले में चारों समुद्रों की सारभूत रत्नावली दी जा रही है ।
टीका—सकाशम् = समीपम्, विश्रम्भात् = विश्वासात्, हारितम्=पराजितम्, अखादितम्=विक्रीय धनं प्राप्य न भक्षितम्, अभुक्तस्य = धारणादिना अनुपयुक्तस्य, चतुःसमुद्रसारभूता=चतुर्णां सागराणाम्, तत्त्वभूता अतिमूल्यवतीति भावः ।
**अन्वयः—**तया, यम्, विश्वासम्, समालम्ब्य, अस्मासु, न्यासः, कृतः, तस्य, महतः, प्रत्ययस्य, एव एतत्, मूल्यम्, प्रदीयते ॥ २९ ॥
शब्दार्थ—तया=उस वसन्तसेना ने, यम् = जिस, विश्वासम्=विश्वास को, समालम्ब्य = मानकर, अस्मासु = हम लोगों के पास, न्यासः=धरोहर, कृतः=रखी, तस्य=उस, महतः = महान्, प्रत्ययस्य = विश्वास का, एव = ही, मूल्यम्=कीमत, प्रदीयते=दी जा रही है ॥ २६ ॥
**अर्थ—चारुदत्त—**मित्र ! ऐसा मत कहो—
उस वसन्तसेना ने जिस विश्वास को मानकर हम लोगों के पास धरोहर रखी थी, उस महान् विश्वास का ही यह मूल्य चुकाया जा रहा है ॥ २९ ॥
३३० | मृच्छकटिकम्
तद्वयस्य ! अस्मच्छरीरपृष्टिकया शापितोऽसि, नैनामग्राहयित्वा अत्रा- गन्तव्यम् । वर्द्धमानक !
एताभिरिष्टकाभिः सन्धिः क्रियतां सुसंहतः शीघ्रम् । परिवाद-बहुलदोषान्न यस्य रक्षां परिहरामि ? ॥ ३० ॥
**टीका--**स्वल्पमूल्यकसुवर्णभाण्डस्य कृते महामूल्यवती-रत्नावलीदानं नोचित- मिति विदूषकोक्तिं खण्डयन्नाह-यमिति । तया = वसन्तसेनया, यम् = अनुभूतम्, विश्वासम् = प्रत्ययम्, समालम्ब्य = आश्रित्य, अस्मासु = मादृशदरिद्रजनेषु इत्यर्थः, न्यासः = निक्षेपः, कृतः = स्थापितः, तस्य = तादृशस्य, महतः = उदारस्य, प्रत्ययस्य = विश्वासस्य, एव, मूल्यम् = मूल्यस्वरूपम्, प्रतिदानमिति यावत्, दीयते = प्रत्यर्प्यते । एवञ्च नेयं सुवर्णभाण्डस्य मूल्यम्, प्रत्युत विश्वासमूल्यं मत्वा मया प्रदीयते इति भावः । अतिशयोक्तिरलंकारः पथ्यावक्त्रं वृत्तम् ॥ २९ ॥
**विमर्शः--**अस्मासु-हम लोगों जैसे निर्धन व्यक्ति धरोहर के रखने योग्य नहीं होते हैं फिर भी वसन्तसेना ने हम लोगों पर विश्वास करके धरोहर रखी । अब विश्वासघात करना ठीक नहीं है । यहाँ पथ्यावक्त्र छन्द है ॥ २९ ॥
**अर्थ--**अतः हे मित्र ! मेरे शरीर का स्पर्श करके तुम्हें शपथ है कि इस रत्नावली को दिये बिना यहाँ वापस मत आना ।
**अन्वयः--**एताभिः, इष्टकाभिः, सन्धिः, शीघ्रम्, सुसंहतः, क्रियताम्, परिवाद- बहुलदोषात्, यस्य, रक्षाम्, न, परिहरामि ॥ ३० ॥
**शब्दार्थ--**एताभिः = इन (निकाली गई), इष्टकाभिः = ईंटों से, सन्धिः = सेन्ध को, शीघ्रम् = जल्दी ही, सुसंहतः = भरी हुई, क्रियताम् = कर डालो, परिवाद- बहुलदोषात् = लोकापवाद में बहुत दोष होने के कारण, यस्य = जिस, सेन्ध की, रक्षाम् = मरम्मत को, न = नहीं, परिहरामि = उपेक्षा कर सकता हूँ ॥ ३० ॥
**अर्थ--**वर्द्धमानक !
इन ईंटों से इस सेंध को शीघ्र ही भर डालो । लोगों में फैले हुये अपयश में बहुत दोष होने के कारण जिस सेन्ध की मरम्मत की उपेक्षा नहीं कर सकता हूँ ॥ ३० ॥
**टीका--**लोकापवादभीतः शीघ्रं सन्धिपूरणाय प्रयासमाह -- एताभिरिति । एताभिः = बहिर्निःसारिताभिः, इष्टकाभिः = पक्वमृत्खण्डैः सन्धिः = छिद्रम्, शीघ्रम् = सत्वरम्, संहतः = परिपूर्णः, क्रियताम् = विधीयताम् । परिवादबहुलदोषात् = लोकापवादे दोषाधिक्यात्, यस्य = सन्धेः, रक्षाम् = रक्षणम्, पुनः यथास्थानस्थापनम्, न = नैव, परिहरामि = उपेक्षे, काव्यलिङ्गमलङ्कारः, आर्या वृत्तम् ॥ ३० ॥
**विमर्श--**परिवादबहुलदोषात् -- देखने पर लोगों में यह प्रवाद फैल सकता
तृतीयोऽङ्कः
२३१
वयस्य मैत्रेय ! भवताप्यकृपणशौण्डैर्यमभिधातव्यम् ।
विदूषकः—भो ! दलिद्दो किं अकिवणं मन्तेदि ? ( भोः ! दरिद्रः किम् अकृपणं मन्त्रयति ? )
चारुदत्तः—अदरिद्रोऽस्मि सखे ! ( 'यस्य मम---विभवानुगता भार्या' इत्यादि पुनः पठति ।) तद्गच्छतु भवान् । अहमपि कृतशौचः सन्ध्या-मुपासे ।
इति निष्क्रान्ताः सर्वे ।
इति सन्धिच्छेदो नाम तृतीयोऽङ्कः ।
है कि चारुदत्त ने स्वयं ही चोरी करने के लिये सेंध लगा ली है । इसी प्रकार के अन्य दोष आरोपित किये जा सकते हैं । अतः सेंध को, जितनी जल्दी हो भर देना चाहिये । पूर्वार्द्ध के प्रति हेतुरूप से उत्तरार्द्ध का कथन होने से काव्यलिङ्ग अलंकार है और आर्या छन्द है ॥ ३० ॥
मित्र मैत्रेय ! आप को भी ( वसन्तसेना के साथ ) अत्यन्त उदारता से बात करनी है ।
विदूषक—अरे ! दरिद्र भी क्या उदारता से कह सकता है ?
चारुदत्त—मित्र मैं दरिद्र नहीं हूँ । ( जिस मेरी -धनानुसार निर्वाह करने वाली पत्नी है--इत्यादि को फिर पढ़ाता है ।) तो आप जायें । मैं भी शौच=स्नानादि से निवृत्त होकर ( प्रातःकालिक ) सन्ध्योपासना करता हूँ ।
इस प्रकार सभी निकल जाते हैं ।
॥ इस प्रकार सन्धिच्छेद ( सेंध फोड़ना ) नामक तीसरा अङ्क समाप्त हुआ है ॥
॥ जय-शङ्करलाल-त्रिपाठि-विरचित भावप्रकाशिका-व्याख्या में मृच्छकटिक का तृतीय अङ्क समाप्त हुआ ॥
—: :०: :—
चतुर्थोऽङ्कः (मदनिका-शर्विलक)
चतुर्थोऽङ्कः
( ततः प्रविशति चेटी । )
चेटी—आणत्तह्मि अत्ताए अज्जआये सआसं गन्तु । एसा अज्जआ चित्तफलअ-णिसण्ण-दिट्ठी मंदणिआए सह किं पि मन्तअन्ती चिट्ठदि । ता जाव उपसप्पामि । ( इति परिक्रामति ) । ( आज्ञप्तास्मि मात्रा आर्यायाः सकाशं गन्तुम् । एषा आर्या चित्रफलकनिषण्णदृष्टिर्मदनिकया सह किमपि मन्त्रयन्ती तिष्ठति । तद्यादुपसर्पामि । )
( ततः प्रविशति यथानिर्दिष्टा वसन्तसेना मदनिका च । )
वसन्तसेना—हञ्जे मदणिए ! अवि सुसदिसी इअं चित्ताकिदी अज्ज-चारुदत्तस्स ? ( हञ्जे मदनिके ! अपि सुसदृशी इयं चित्राकृतिः आर्यचारुदत्तस्य ?)
मदनिका—सुसदिसी । ( सुसदृशी । )
वसन्तसेना—कधं तुमं जाणासि ? । ( कथं त्वं जानासि ? )
मदनिका—जेण अज्जआए सुसिणिद्धा दिट्ठी अणुलग्गा । ( येन आर्यायाः सुस्निग्धा दृष्टिरनुलग्ना । )
वसन्तसेना—हञ्जे ! किं वेस-वास-दाक्खिण्णेण मदणिए ! एव्वं भणासि ? । ( हञ्जे ! किं वेशवासदाक्षिण्येन मदनिके ! एवं भणसि ? ) ।
( इसके बाद चेटी प्रवेश करती है । )
अर्थ—चेटी—[ वसन्तसेना की ] माता ने वसन्तसेना के पास जाने की आज्ञा दी है । वह वसन्तसेना चित्रफलक ( तस्वीर ) पर आँख गड़ाये हुये मदनिका के साथ ( कुछ ) बातचीत करती हुई बैठी है । तो अब उनके पास चलती हूँ । ( इस प्रकार कहकर रंगमंच पर घूमती है । )
( इसके बाद उपर्युक्त रीति से बैठी हुई वसन्तसेना और मदनिका प्रवेश करती है । )
वसन्तसेना—चेटि मदनिके ! क्या आर्य चारुदत्त की यह चित्राकृति ( चित्र में बनी हुई आकृति ) मेरी सुन्दर आकृति के योग्य है ?
मदनिका—( हाँ ), यह ( आपके ) अनुरूप ही है ।
वसन्तसेना—तुम कैसे जान रही हो ?
मदनिका—क्योंकि आर्या ( आप ) की स्नेहमयी दृष्टि इस पर लगी हुई है ।
वसन्तसेना—चेटी मदनिके ! क्या वेश्या के घर पर रहने से ( सीखी गई ) चतुरता के कारण ऐसा कह रही हो ?
२३३
चतुर्थोऽङ्कः
मदनिका—अज्जए ! किं जो ज्जेव जणो वेसे पडिवसदि, सो ज्जेव अलीअदक्खिणो भोदि ? । (आर्ये ! किं य एव जनो वेशे प्रतिवसति, स एव अलीकदक्षिणो भवति ? )
वसन्तसेना—हज्जे ! णाणा-पुरिससङ्गेण वेस्साजणो अलीअदक्खिणो भोदि। (हञ्जे ! नानापुरुषसङ्गेन वेश्याजनः अलीकदक्षिणो भवति ।)
मदनिका—जदो दाव अज्जआए दिट्ठी इध अभिरमदि हिअअं च; तस्स कारणं किं पुच्छीअदि ? । (यतस्तावद् आर्याया दृष्टिरिह अभिरमते हृदयञ्च, तस्य कारणं किं पृच्छयते ? )
वसन्तसेना—हज्जे ! सहीजणादो उवहसणीअदां रक्खामि। (हञ्जे ! सखीजनादुपहसनीयतां रक्षामि । )
मदनिका—अज्जए ! एव्वं णेदं । सहीजणचित्ताणुवत्ती अवलाजणो भोदि। (आर्ये ! एवं नेदम् । सखीजनचित्तानुवर्त्ती अबलाजनो भवति ।)
**मदनिका—**आर्ये ! क्या जो कोई भी व्यक्ति वेश्यागृह में रहता हैं, वह असत्य बोलने में कुशल हो जाता है ?
**वसन्तसेना—**चेटी ! विभिन्न प्रकार के लोगों का साथ होने के कारण वेश्यायें असत्यभाषण में चतुर हो जाती हैं।
**टीका—**चेटी=वसन्तसेनागृहे स्थिता काचन दासी । मात्रा=वसन्तसेनायाः पालनकर्त्र्या जनन्या माधवसेनया, सकाशम् = समीपम्, चित्रफलके = चित्रपटे, निषण्णा=अनुलग्ना, दृष्टिः नेत्रद्वयं यस्याः सा, चारुदत्तचित्रावलोकनसंलग्ननेत्रा, मदनिकया=तन्नाम्न्या दास्र्या, मन्त्रयन्ती = गुप्तमालपन्ती, उपसर्पामि = समीपं गच्छामि, यथानिर्दिष्टा=चित्रफलकनिषण्णदृष्टिरिति भावः सुसदृशी=मत्सौन्दर्यानु-रूपसौन्दर्यवतीत्यर्थः, चित्राकृतिः = चित्ररूपेण विद्यमाना आकृतिः = आकारः, सुसदृशी=तवाकृतिसम्वादिनी, सुस्निग्धा=अत्यनुरापूर्णा, अनुलग्ना=संसक्ता, वेशे=वेश्यालये, वासेन=निवासेन, दाक्षिण्येन=पाटवेन, अलीके=असत्यभाषणे, दक्षिणः=कुशलः, नानापुरुषाणाम्=विविधजनानाम्, सङ्गेन=सङ्गत्या ।
**अर्थ—मदनिका—**जब आर्या की आखें और हृदय इस [ चित्रफलक ] में अनुरक्त हो रहे हैं [ अर्थात् आखों और मन दोनों से आपको यह चित्र अच्छा लग रहा है । ] तो इस ( अत्यनुराग ) का कारण क्यों पूछ रहीं हैं ?
**वसन्तसेना—**सखि ! सखी लोगों की हँसी की रक्षा करना चाहती हूँ । (उनकी हँसी=मजाक का पात्र बनने से बचना चाहती हूँ । )
**मदनिका—**आर्ये ! ऐसी बात नहीं है । स्त्रियाँ अपनी सखियों की भावना के अनुकूल व्यवहार करने वाली होती हैं ।
२३४ मृच्छकटिकम्
प्रथमा चेटी—( उपसृत्य ) अज्जए ! अत्ता आणवेदि—'गहिदावगुण्ठणं पक्खदुआरए सज्जं पवहणं । ता गेच्छ' त्ति । ( आर्ये ! माता आज्ञापयति— 'गृहीतावगुण्ठनं पक्षद्वारे सज्जं प्रवहणं तद्गच्छ' इति । )
वसन्तसेना—हज्जे ! किं अज्जचारुदत्तो मं णइस्सदि ? । ( हञ्जे ! किम् आर्य-चारुदत्तो मां नेष्यति ? )
चेटी—अज्जए ! जेण पवहणेण सह सुवण्ण-दससाहस्सिओ अलङ्कारओ अणुपैसिदो । ( आर्ये ! येन प्रवहणेन सह सुवर्ण-दशसाहस्रिकोऽलङ्कारः अनुप्रेषितः । )
वसन्तसेना—को उण सो ? ( कः पुनः सः ? )
चेटी—एसो ज्जेव राअस्सालो संठाणओ । ( एष एव राजश्यालः संस्थानकः ) ।
वसन्तसेना—(सक्रोधम्) अवेहि । मा पुणो एव्वं भणिस्ससि । ( अपेहि । मा पुनरेवं भणिष्यसि ।
चेटी—पसीददु पसीसदु अज्जआ । सन्देसेण म्हि पेसिदो । ( प्रसीदतु प्रसीदतु आर्या । सन्देशेनास्मि प्रेषिता ) ।
वसन्तसेना—अहं सन्देसस्य ज्जेव कुप्पामि । ( अहं सन्देशस्यैव कुप्यामि )
चेटी—ता किंत्ति अत्तं विण्णविस्सं । ( तत् किमिति मातरं विज्ञापयिष्यामि ? )
पहली चेटी—( समीप जाकर ) आर्ये ! माता जी यह आज्ञा दे रही हैं— बगलवाले दरवाजे पर ढंकी हुई गाड़ी ( रथ ) सजी हुई खड़ी है, अतः आप ( उससे ) जायें ।
वसन्तसेना—सखि ! क्या आर्य चारुदत्त मुझे ले जायेंगे ?
चेटी—आर्ये ! जिसने गाड़ी के साथ साथ दस हजार सोने के अलंकार [ मोहरें या अशर्फी आदि ] भेजे हैं ।
वसन्तसेना—वह कौन है ?
चेटी—वही राजा का शाला संस्थानक ।
वसन्तसेना—( क्रोध के साथ ) दूर हट जाओ । फिर कभी ऐसा मत कहना ।
चेटी—आर्या, प्रसन्न हो जाँय, प्रसन्न हो जाँय । मैं तो [ माता के ] सन्देश से यहाँ भेजी गयी हूँ ।
वसन्तसेना—मैं भी सन्देश पर ही नाराज हो रही हूँ ।
चेटी—तो माता जी से क्या कहूँगी ?
चतुर्थोऽङ्कः २३५
वसन्तसेना--एव्वं विण्णाविदव्वा--'जइ मं जीअन्तीं इच्छसि ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वा।' ( एवं विज्ञापयितव्या--यदि मां जीवन्तीमिच्छसि, तदा एवं न पुनरहं मात्रा आज्ञापयितव्या । )
चेटी--जधा दे रोअदि । ( यथा ते रोचते । ) ( इति निष्क्रान्ता । )
( प्रविश्य )
शर्विलकः--
दत्त्वा निशाया वचनीयदोषं निद्राञ्च जित्वा नृपतेश्च रक्ष्यान् ।
स एष सूर्योदयमन्दरश्मिः क्षपाक्षयाच्चन्द्र इवास्मि जातः ॥ १ ॥
वसन्तसेना--इस प्रकार से कहना-'यदि मुझे जीवित [ रहने देना ] चाहती हैं तब फिर कभी भी माता जी के द्वारा इस प्रकार की आज्ञा नहीं मिलनी चाहिये।'
चेटी--जैसी आपकी इच्छा । ( यह कर निकल जाती है । )
टीका--यतः=यस्मात् कारणात्, आर्यायाः=पूज्यायाः वसन्तसेनायाः, इह=अस्मिन् चित्रफलके, अभिरमते = अनुरक्तं भवति, तस्य = अनुरागातिशयस्य, किं पृच्छयते=कथं प्रश्नः क्रियते, एवं मनोहरे दयितेऽभिसारे विलम्बस्तेऽनुचित इति भावः, उपहसनीयताम्=उपहासयोग्यत्वम्, निर्धने असमाने वाऽभिरमणं मौर्थ्य-मित्यादिसखीजनकृतोपहासादात्मानं रक्षामीति भावः, अबलाजनः = नारीलोकः, सखीजनचित्तानुवर्त्ती=सखीभावानुसारी, गृहीतम्=धृतम्, अवगुण्ठनम्=आच्छादनम्, यस्मिन् येन वा, प्रवहणम्=शकटम्, पक्षद्वारे=पार्श्ववर्त्तिद्वारसम्मुखे, सज्जम्=प्रस्तुतम्, सुवर्णदशसाहस्रिकः=सुवर्णानाम्, तदानीं प्रसिद्ध-स्वर्णमुद्राणाम्, दशभिः सहस्रैः क्रीतः, तेन क्रीतम्' [ पा. सू. ५।१।३७ ] इति ठक् ।
अन्वयः--निशायाः, वचनीयदोषम्, दत्त्वा, निद्राम्, च, नृपतेः, रक्ष्यान्, च, जित्वा, सः, एषः, ( अहम् ), क्षपाक्षयात् सूर्योदयमन्दरश्मिः, चन्द्रः, इव, जातः, अस्मि ॥ १ ॥
शब्दार्थ--निशायाः=रात को, वचनीयदोषम्=निन्दा के दोष को, दत्त्वा=देकर, च=और, निद्राम्=अपनी नींद को, च=तथा, नृपतेः=राजा के, रक्ष्यान्=रक्षापुरुषों, सिपाहियों को जीत कर, अर्थात् उनसे बच कर, सः=वह, एषः=यह, ( अहम्=मैं ), क्षपाक्षयात्=रात बीत जाने के कारण, सूर्योदयमन्दरश्मिः=सूर्य के उदित हो जाने के कारण फींकी किरणों वाले, चन्द्रः=चन्द्रमा के, इव=समान, जातः अस्मि=हो गया हूँ ॥ १ ॥
( प्रवेश करके )
अर्थ--शर्विलक--रात को निन्दा का दोष देकर अर्थात् चोरी आदि निन्दित कार्य रात में होते हैं, ऐसा अपवाद देकर, ( अपनी ) नींद को तथा राजा के
२३६ | मृच्छकटिकम्
अपि च—
यः कश्चित्त्वरितगतिर्निरीक्षते मां सम्भ्रान्तं द्रुतमुपसर्पति स्थितं वा। तं सर्वं तुलयति दूषितोऽन्तरात्मा स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः ॥२॥
सिपाहियों को जीत कर अर्थात् उनसे बचकर यह मैं, सूर्योदय होने के कारण फीकी किरणोंवाले चन्द्र के समान ( निष्प्रभ ) हो गया हूँ ॥ १ ॥
टीका--चारुदत्तस्य भवनात् सुवर्णभाण्डं चोरयित्वा निशाया अवसाने शङ्कितः सन् स्वदुर्बलतां वर्णयति--दत्तेवेति । निशायाः=रजन्याः, सम्बन्धविवक्षया षष्ठी, वचनीयदोषम्=अनर्थकरीति अपवादरूपं दूषणम् दत्त्वा=आरोप्य, निद्राम्=आत्मनः स्वापम्, च, नृपतेः = राज्ञः, च, रक्ष्यान् = रक्षापुरुषान्, पाल्यान् जनान् जित्वा= पराजित्य, तेषां दृष्टिपथमनागत्य, सः एषः=पूर्वोक्तवैशिष्ट्ययुतः, अहम्=शर्विलकः, क्षपायाः = निशायाः क्षयात् = अवसानात्, सूर्योदयेन = दिनकरप्रकाशेन, मन्दाः= निष्प्रभाः, रश्मयः=किरणाः यस्य सः तादृशः चन्द्रः इव=निशाकर इव, जातः= संवृत्तः, अस्मि । अत्रोपमालंकारः, उपेन्द्रवज्रा वृत्तम् ॥ १ ॥
विमर्श--रक्ष्यान् -रक्ष धातु सकर्मक है अतः कर्म में ही यत् प्रत्यय होगा कर्ता में नहीं । अतः रक्ष्यान्=रक्षणीयान् यह अर्थ होता है। यहाँ तात्पर्य रक्षक पुरुषों से है। अतः इसे राजा से रक्ष्य और नगर के रक्षक--इस अर्थ में मान लेना चाहिये । जगद्धर ने इसके स्थान पर 'रक्षान्' यह पाठ माना है। वचनीयदोषम्= रात ही सभी अपराधों को कराती है, इस प्रकार की निन्दा को । यहाँ शर्विलक और चन्द्र की उपमा है। इन्द्रवज्रा उपेन्द्रवज्रा की उपजाति छन्द है ॥ १ ॥
अन्वयः--यः, कश्चित्, त्वरितगतिः, [सन्], सम्भ्रान्तम्, माम्, निरीक्षते; वा, स्थितम्, [माम् ], द्रुतम्, उपसर्पतिः; दूषितः, अन्तरात्माः, तम्, सर्वम्, तुलयति; हि, मनुष्यः, स्वैः, दोषैः, शङ्कितः भवति ॥ २ ॥
शब्दार्थ--यः=जो, कश्चित् = कोई भी (व्यक्ति), त्वरितगतिः = तेजी से चलनेवाला, [ सन्=होता हुआ ], सम्भ्रान्तम्=चोरी करने के कारण घबराये हुये, माम्=मुझ शर्विलक को, निरीक्षते=देखता है; वा=अथवा, स्थितम्=छिपकर खड़े हुये, [माम् = मेरे समीप ], द्रुतम् = जल्दी से, उपसर्पति=आ जाता है; दूषितः = अपराधी; अन्तरात्मा=मेरा मन, अन्तःकरण, तम्=उन, सर्वम्=सभी को, तुलयति=सन्देह की दृष्टि से तौलता है, मानता है, हि = क्योंकि, मनुष्यः=पुरुष, स्वैः=अपने, दोषैः = दोषों=अपराधों से, [ ही ], शङ्कितः = शङ्काग्रस्त, भवति = होता है ॥ २ ॥
अर्थ--और भी-- जो कोई भी जल्दी-जल्दी चलता हुआ घबड़ाये हुये मुझे [शर्विलक को]
चतुर्थोऽङ्कः
मया खलु मदनिकायाः कृते साहसमनुष्ठितम् ।
परिजनकथासक्तः कश्चिन्नरः समुपेक्षितः
क्वचिदपि गृहं नारीनाथं निरीक्ष्य विवर्जितम् ।
नरपतिबले पार्श्वयाते स्थितं गृहदारुवद्
व्यवसितशतैरेवंप्रायैर्निशा दिवसीकृता ॥ ३॥
देखता है; अथवा [ छिपकर ] खड़े हुये मेरे समीप जल्दी से आता है;, दोषी मेरा मन उन सबको शङ्काग्रस्त होकर सोंचता है; क्योंकि मनुष्य अपने ही दोषों [ अपराधों ] के कारण शङ्कालु हो जाता है ॥ २ ॥
टीका—स्वापराधेनात्मीयां शंकाग्रस्ततां वर्णयति - य इति । यः कश्चित्= यः कोऽपि जनः, त्वरितगतिः=शीघ्रगतिकः, सन्, सम्भ्रान्तम् = अपराधकृत्यकरणात् भयभीतम्, माम्=शर्विलकम्, निरीक्षते=विलोकयति; वा=अथवा, स्थितम्=एकान्ते अवस्थितम्, माम् = शर्विलकम्, उपसर्पति = शर्विलक-समीपमागच्छति; दूषितः= सापराधः, अन्तरात्मा = अन्तःकरणम्, तम् = मन्निरीक्षकादिरूपम्, सर्वम्=समस्तं जनम्, तुलयति = परीक्षते, शंकादृष्ट्या चिन्तयति; हि=यतोहि, मनुष्यः=जनः, स्वैः = आत्मीयैः, दोषैः = दूषणैः अपराधैः वा, शङ्कितः=शङ्कास्थानम्, अन्यस्येति शेषः, भवति=जायते । चतुर्थपादार्थेन सामान्येन समर्थनात् अर्थान्तरन्यासः अलङ्कारः, प्रहर्षिणी वृत्तम् ॥ २ ॥
विमर्श—यहाँ समीप में आनेवाले पुरुषों आदि के द्वारा देखे जाने के कारण उत्पन्न हुई शर्विलक की दशाविशेष का समर्थन चतुर्थ पाद के द्वारा किया गया है । अतः अर्थान्तरन्यास अलंकार है । त्वरिता गतिः=गमनं यस्य सः । सम्भ्रान्तम्- सम् + $\sqrt{}$भ्रम् + क्त । तुलयति -तौलता है, समझता है, सन्देह करता है । शङ्कितः =शंका करने का विषय, अर्थात् उसका अपना ही आचरण ऐसा होने लगता है जिससे अन्य लोग शंका करने लग जाते हैं । इसमें प्रहर्षिणी छन्द है ॥ २ ॥
अर्थ—मैंने वास्तव में मदनिका [ प्राप्त करने ] के लिये ही इतना दुःसाहस किया है ।
अन्वयः—[ अत्रापि 'मया' इति योज्यम् ] परिजनकथासक्तः, कश्चित्, नरः, समुपेक्षितः; क्वचित्, अपि, नारीनाथम्, गृहम्, निरीक्ष्य, विवर्जितम्, नरपतिबले, पार्श्वयाते, गृहदारुवत्, स्थितम्; एवम्प्रायैः, व्यवसितशतैः, निशा, दिवसीकृता ।३।
शब्दार्थ—[ मया=मैंने ], परिजनकथासक्तः=बन्धुवर्गों से बातचीत में लगे हुये, कश्चित्=किसी, नरः=मनुष्य की, उपेक्षितः=उपेक्षा कर दी, उसे छोड़ दिया, क्वचिद् अपि = कहीं पर, गृहम् = घर को, नारीनाथम् = स्त्री रूपी स्वामीवाला अर्थात् केवल स्त्री ही रक्षक है उसे, निरीक्ष्य=देखकर, विवर्जितम्=छोड़ दिया;
२३८ | मृच्छकटिकम्
( इति परिक्रामति )
वसन्तसेना—हञ्जे ! इमं दाव चित्तफलं मम सअणीए ठाविअ तालवेण्टअं गेण्हिअ लहु आअच्छ । (हञ्जे ! इदं तावत् चित्रफलकं मम शयनीये स्थापयित्वा तालवृत्तकं गृहीत्वा लघु आगच्छ । )
उसमें नहीं घुसा; नरपतिबले = राजा के सिपाहियों के, पार्श्वयाते=समीप में आ जाने पर, गृहदारुवत् = मकान में लगे लकड़ी के खम्भों के समान अर्थात् निश्चल, स्थितम्=खड़ा हो गया, एवम्प्रायैः=इसी प्रकार के, व्यवसितशतै=सैंकड़ों, प्रयासों=कार्यों के द्वारा, निशा=रात को, दिवसीकृता=दिन बना दिया ॥ ३ ॥
अर्थ—( मैंने ) अपने परिवारवालों से बातचीत करते हुये किसी व्यक्ति की उपेक्षा कर दी ( वहाँ चोरी नहीं की )। कहीं पर केवल स्त्री को मालिक देखकर उस घर को भी छोड़ दिया । ( वहाँ भी चोरी नहीं की । ) राजा के सिपाहियों के पास में आ जाने पर मकान में लगे हुये लकड़ी के खम्भे के समान निश्चल खड़ा हो गया । इस प्रकार के सैकड़ों कार्यों से रात को दिन बना दिया ॥ ३ ॥
( ऐसा कहकर घूमता है । )
टीका—मया—इति गद्यस्थेनात्रापि अन्वयः, परिजनकथासक्तः = परिवारिक-जनैः, भृत्यादिजनैः वा सह वार्त्तालापे संलग्नः, कश्चित् नरः=कोपि पुरुषः, समुपेक्षितः=उपेक्षाविषयीकृतः, तत्र चौर्यं न कृतमिति भावः; क्वचिदपि=कुत्रचित् च, गृहम्=भवनम्, नारीनाथम् = स्त्रीमात्ररक्षितम्, निरीक्ष्य=अवलोक्य, विवर्जितम्=परित्यक्तम्, तत्रापि चौर्यं न कृतमिति भावः, नरपतिबले=राजपुरुषसमुदाये, पार्श्वयाते = समीपागते सति, गृहदारुवत् = भवने आधारतया निर्मितकाष्ठस्तम्भ इव, स्थितम्=अवस्थितम्; एवम्प्रायैः=एवम्भूतैः, व्यवसितशतैः=व्यापाराणाम्, प्रयासानां वा शतैः=अगणितैः, निशा=रात्रिः, दिवसीकृता=अदिवसः अपि दिवसवत् कृता। अत्र काव्यलिङ्गम्, अलंकारः हरिणीवृत्तम् ॥ ३ ॥
विमर्श—नारीनाथम् – नारी मात्र है नाथ=सहायक या रक्षक जिसकी । गृहदारुवत् – गृह = गृह में लगाये गये, दारु = स्तम्भादि के समान । व्यवसितशतैः—व्यवसितानां शतानि, यहाँ शत के बाद बहुवचन विवक्षित है । दिवसीकृता—अदिवसः दिवसः कृतः – अभूत-तद्भाव अर्थ में च्वि-प्रत्ययान्तरूप है । निशा को दिन बनाना रूपी कार्य के लिये सैंकड़ों उपायों का कारणरूप से उल्लेख होने से काव्यलिङ्ग अलंकार है और हरिणी छन्द है—न स म र स ला गः षड्वेदैर्हयैर्हरिणी मता ॥ ३ ॥
अर्थ—वसन्तसेना—चेटि ! इस चित्रफलक ( तस्वीर ) को मेरे शयनकक्ष में रखकर पंखा लेकर जल्दी से आ जाओ ।
चतुर्थोऽङ्कः २३६
मदनिका—जं अज्जआ आणवेदि । ( यदार्या आज्ञापयति । ) (इति फलकं गृहीत्वा निष्क्रान्ता । )
शर्विलकः—इदं वसन्तसेनाया गृहम् । तद्यावत् प्रविशामि । ( प्रविश्य ) क्व नु मया मदनिका द्रष्टव्या ?
( ततः प्रविशति तालवृन्तहस्ता मदनिका । )
शर्विलकः—( दृष्ट्वा ) अये इयं मदनिका—
मदनमपि गुणैर्विशेषयन्ती
रतिरिव मूर्त्तिमती विभाति येयम् ।
मम हृदयमनङ्गवह्नितप्तं
भृशमिव चन्दनशीतलं करोति ॥ ४ ॥
मदनिके !
मदनिका—आर्या की जैसी आज्ञा । ( चित्रफलक लेकर चली जाती है । )
शर्विलक—यह वसन्तसेना का घर है । तो इसमें प्रवेश करता हूँ । ( प्रवेश करके ) मुझे कहाँ मदनिका को देखना ( ढूढ़ना ) चाहिये ।
( इसके बाद ताड़ का पंखा लिये हुये मदनिका प्रवेश करती है । )
अन्वय—या, गुणैः, मदनम्, अपि, विशेषयन्ती, मूर्तिमती, रतिः, इव, विभाति, ( सा ) इयम्, अनङ्गवह्नितप्तम्, मम, हृदयम्, भृशम्, चन्दनशीतलम्, इव, करोति ॥ ४ ॥
शब्दार्थ—या=जो, गुणैः = सौन्दर्यादि विशेषताओं से, मदनम्=कामदेव को, अपि=भी, विशेषयन्ती=जीतती हुई, मूर्तिमती=शरीर-धारिणी, रतिः=कामदेव की पत्नी के, इव=समान, विभाति=शोभित हो रही है, अच्छी लग रही है; ( सा=वही ), इयम्=यह, अनङ्गवह्नितप्तम्=कामरूपी अग्नि से सन्तप्त, मम=मेरे, हृदयम् =चित्त को, भृशम्=बहुत अधिक, चन्दनशीतलम्=चन्दन के समान शीतल=ठण्डा, इव=सा, करोति=कर रही है ॥ ४ ॥
अर्थ—शर्विलक—( देखकर ) अरे यह मदनिका !
जो ( अपने सौन्दर्यादि ) गुणों के द्वारा कामदेव को भी जीतती हुई, शरीर-धारिणी, रति के समान शोभित हो रही है; वही यह कामाग्नि से सन्तप्त मेरे हृदय को चन्दन के समान अत्यधिक शीतल कर रही है ॥ ४ ॥
मदनिके !
टीका—स्वाभिलषितां दयितां मदनिकां विलोक्य तस्याः सौन्दर्यवर्णनपूर्वकं स्वहृदयभावं प्रकटयति -मदनमपीति । या = पुरोवर्तिनी, मदनिकेत्यर्थः, गुणैः = सौन्दर्यादिवैशिष्ट्यैः, मदनम् अपि=कामदेवम् अपि, अन्येषां तु का कथा, विशेष-
| २४० | मृच्छकटिकम् |
|---|
मदनिका—(दृष्ट्वा) अम्मो ! कथं सव्विलओ ? सव्विलअ ! साअदं ते । कहिं तुमं ? । ( अहो कथं शर्विलकः ! शर्विलक ? स्वागतं ते । कस्मिन् त्वम् ? )
शर्विलकः—कथयिष्यामि ।
( इति सानुरागमन्योन्यं पश्यतः । )
वसन्तसेना—चिरअदि मदणिआ, ता कहिं णु क्खु सा ? ( गवाक्षकेण दृष्ट्वा ) कधं एसा केणावि पुरिसकेण सह मन्तअन्ती चिट्ठदि । जधा अदिसिणिद्धाए णिच्चलदिट्ठिए आपिवन्ती विअ एदं णिज्झाअदि, तधा तक्केमि, एसो सो जणो एदं इच्छदि अभुजिस्सं कादुं । ता रमदु रमदु । मा कस्सावि पीदिच्छेदो भोदु । ण क्खु सद्दाविस्सं । ( चिरयति मदनिका । तत् कस्मिन् नु खलु सा ? कथमेषा केनापि पुरुषकेण सह मन्त्रयन्ती तिष्ठति । यथा अतिस्निग्धया निश्चलदृष्ट्या आपिबन्तीव एतं निध्यायति तथा तर्कयामि—एष स जन एनामिच्छति अभुजिष्यां कर्तुम् । तत् रमतां रमताम् । मा कस्यापि प्रीतिच्छेदो भवतु । न खलु शब्दापयिष्यामि । )
यन्ती=जयन्ती, आकर्षयन्ती वा, मूर्तिमती = शरीरधारिणी, रतिः = कामदेवभार्या, इव= यथा, विभाति= सुशोभते, ( सा= पूर्वोक्तविशेषणविशिष्टा ), इयम्= दृश्यमाना, अनङ्गवह्नितप्तम्= कामानलसन्तप्तम्, मम= शर्विलकस्य, हृदयम्= चित्तम्, भृशम्= अत्यधिकम्, चन्दनशीतलम् = चन्दनानुलेपवत् शीतस्पर्शम्, इव= यथा, करोति= विदधाति। ॥ ४ ॥
विमर्श—मदनमपि-- जिसने कामदेव को भी जीत लिया उसके लिये मुझ जैसे को आकृष्ट करना आश्चर्य की बात नहीं है । विशेषयन्ती= जीतती हुयी, अथवा मोहित करती हुयी । चन्दनशीतलम्= चन्दनम् इव शीतलम् । यहाँ पूर्वार्द्ध में मदनिका की मूर्तिमती रति के रूप में सम्भावना के कारण द्रव्योत्प्रेक्षा तथा विना चन्दन के शीतल होने वाले हृदय में चन्दनशीलता की सम्भावना के कारण गुणोत्प्रेक्षा है । पुष्पिताग्रा छन्द है ॥ ४ ॥
अर्थ—मदनिका-- ( देखकर ) अहो क्या शर्विलक ? शर्विलक ! तुम्हारा स्वागत है । तुम कहाँ ?
शर्विलक— बताऊँगा ।
( इस प्रकार दोनों प्रेम से एक दूसरे को देखते हैं । )
वसन्तसेना— मदनिका देर लगा रही है । तो कहाँ चली गई होगी ? ( झरोखे से देखकर ) क्या, यह तो किसी प्रिय पुरुष से बातचीत करती हुई बैठी है । अत्यन्त प्रेम से युक्त, निश्चल दृष्टि से इस पुरुष का पान-सा करती हुई, जिस प्रकार से देख रही है उससे मैं यह अनुमान कर रही हूँ कि यह वही पुरुष है जो
चतुर्थोऽङ्कः २४१
मदनिका--सव्विलअ ! कहेहि । ( शर्विलक ! कथय । )
( शर्विलकः--सशङ्कं दिशोऽवलोकयति । )
मदनिका--सव्विलअ ! किं ण्णेदं ? ससङ्को विअ लक्खीअसि । ( शर्विलक ! किं न्विदम् ? सशङ्क इव लक्ष्यसे । )
शर्विलकः--वक्ष्ये त्वां किञ्चित् रहस्यम्, तद्विविक्तमिदम् ?
मदनिका--अध इं ? ( अथ किम् ? )
वसन्तसेना--कधं परमरहस्सं । ता ण सुणिस्सं । ( कथं परमरहस्यम् ? तत् न श्रोष्यामि । )
शर्विलकः--मदनिके ! किं वसन्तसेना मोक्ष्यति त्वां निष्क्रयेण ?
वसन्तसेना--कधं मम सम्बन्धिणी कथा । ता सुणिस्सं इमिणा गबक्खण ओवारिदसरीरा । ( कथं मम सम्बन्धिनी कथा । तत् श्रोष्यामि अनेन गवाक्षेण अपवारितशरीरा । )
मदनिका--सव्विलअ ! भणिदा मए अज्जआ । तदो भणादि, जइ मम सच्छन्दो, तदा विणा अत्यं सव्वं परिजनं अभुजिस्सं करइस्सं । अध सव्विलअ ! कुदो दे एत्तिओ विहवो, जेण मं अज्जआसआसादो मोआ-इस्सि । ( शर्विलक ! भणिता मया आर्या; ततो भणति--यदि मम स्वच्छन्दः
इसे [ मदनिका को ] दासी के कार्य से मुक्त कराना चाहता है। तो रमण करे, रमण करे [ आनन्द उठाये ], किसी का भी प्रीतिच्छेद [ प्रेमव्यापारभंग ] न हो । [ अतः इसे ] नहीं बुलाऊँगी ।
मदनिका--शर्विलक ! बताओ ।
( शर्विलक शंकाभरी दृष्टि से चारों ओर देखता है । )
मदनिका--शर्विलक ! यह क्या है ? तुम शंकाग्रस्त से दिखाई दे रहो ।
शर्विलक--तुम्हें कुछ रहस्य=गुप्त बातें बताऊँगा । तो क्या यह एकान्त स्थान है ?
मदनिका--और क्या ?
वसन्तसेना--क्या बहुत गोपनीय बात है । तो नहीं सुनूंगी ।
शर्विलक--मदनिके ! क्या वसन्तसेना धन के बदले तुम्हें मुक्त कर देगी ?
वसन्तसेना--क्या मेरे विषय में बात है ? तो शरीर छिपाकर इस झरोखे से बात सुनूंगी ।
मदनिका--शर्विलक ! मैंने आर्या ( वसन्तसेना ) से कहा था, तो उन्होंने उत्तर दिया था-'यदि मेरी स्वतन्त्रता ( शक्ति ) होती तब तो बिना धन लिये ही
१६ मृ०
| २४२ | मृच्छकटिकम् |
|---|
तदा बिना अर्थं सर्वं परिजनमभुजिष्यं करिष्यामि। अथ शर्विलक ! कुतस्ते एतावान् विभवः येन मामाय्यासकाशात् मोचयिष्यसि ? )
शर्विलकः—
दारिद्र्येणाभिभूतेन त्वत्स्नेहानुगतेन च।
अद्य रात्रौ मया भीरु ! त्वदर्थे साहसं कृतम् ॥ ५ ॥
सभी दासियों को मुक्त कर देती।' फिर शर्विलक ! तुम्हारे पास इतना धन कहाँ जिससे तुम मुझे आर्या के पास से मुक्त करा सकोगे ?
टीका— कस्मिन्=कारणे वा, स्वागतम्=सुष्ठु आगतम्, चिरयति=विलम्बं करोति, चिरं करोति-इत्यर्थे णिच्, अन्योन्यम् = परस्परम्, पुरुषकेण=प्रियपुरुषेण, प्रियार्थे कः, मन्त्रयन्ती=गुप्तमालपन्ती, अतिस्निग्धया=अतिप्रेमपूरितया, निश्चल-दृष्टया = निर्निमेषलोचनेन, आपिबन्ती = पानं कुर्वन्ती, निध्यायति=विलोकयति, अभुजिष्याम्=अकिङ्करीं स्वाधीनामित्यर्थः, स्वेतरेण केनापि भोगयोग्यां न कर्तुमिति भावः। प्रीतिच्छेदः=प्रेमप्रवाहभङ्गः, आकारयिष्यामि=आह्वयिष्यामि। रहस्यम्=रहसि=एकान्ते भवम्, गोपनीयम्, विविक्तम्=निर्जनम्, निष्क्रयेण=द्रव्यविनिमयेन, अपवारितशरीरा=अपवारितम्=गोपितम् शरीरं यस्या सा, छन्दः=इच्छा, सामर्थ्य-मिति भावः ॥
अन्वय— हे भीरु, दारिद्र्येण, अभिभूतेन, त्वत्स्नेहानुगतेन, च, मया, त्वदर्थे, अद्य, रात्रौ, साहसम्, कृतम् ॥ ५ ॥
शब्दार्थ— हे भीरु !=हे डरनेवाली स्त्री, दारिद्र्येण = निर्धनता से, अभिभूतेन=पीडित, परेशान, च=और, त्वत्स्नेहानुगतेन=तुम्हारे प्रेम में आसक्त, मया=मुझ शर्विलक ने, त्वदर्थे=तुम्हारे [ मदनिका के ] लिये, अद्य=आज, रात्रौ=रात में, साहसम्=दुःसाहसिक कार्य अर्थात् चोरी, कृतम्=कर डाली ॥ ५ ॥
अर्थ—शर्विलक—
हे भीरु ( डरपोक ) स्त्री ! निर्धनता से पीड़ित और तुम्हारे प्रेमजाल में फंसे हुये मैंने तुम्हारे लिये आज रात में साहसिक कार्य अर्थात् चोर कर डाली ॥५॥
टीका— निर्धनस्य तव समीपे मम निष्क्रयार्थं सहसा धनागमः कुत इति शङ्कायां समाधिमाह-दारिद्र्येणेति। हे भीरु !=हे भयशीले मदनिके, दारिद्र्येण=निर्धनत्वेन, अभिभूतेन = आक्रान्तेन पीडितेन वा, त्वत्स्नेहानुगतेन = त्वदीयप्रणय-समासक्तेन, च, मया=शर्विलकेन, त्वदर्थे=मदनिकानिमित्तम्, अद्य रात्रौ=निशायाम्, साहसम् = सहसा=बलेन कृतम् यद्वा सहसा=अविविच्य कृतम् साहसं चौर्यरूपमिति यावत्, कृतम्=अनुष्ठितम्। पथ्यावक्त्रं वृत्तम् ॥ ५ ॥
विमर्श— अचानक धनी होने के विषय में स्पष्टीकरण देने के लिये शर्विलक का प्रस्तुत कथन है। साहसम् —'सहसा क्रियते यत्तु तत् साहसमिरहोच्यते' इस
चतुर्थोऽङ्कः २४३
वसन्तसेना--पसण्णा से आकिदी, साहसकम्मदाए उण उव्वेअणीआ । प्रसन्ना अस्य आकृतिः, साहसकर्मतया पुनरुद्वेजनीया । )
मदनिका--सव्विलअ ! इत्थीकल्लवत्तस्स कारणेण उहअं पि संसए विणिक्खित्तं । ( शर्विलक ! स्त्रीकल्यवर्त्तस्य कारणेन उभयमपि संशये विनि- क्षिप्तम् ! )
शर्विलकः--किं किम् ? ।
मदनिका--सरीरं चारित्तं च । ( शरीरं चारित्रञ्च )
शर्विलकः--अपण्डिते ! साहसे श्रीः प्रतिवसति ।
मदनिका--सव्विलअ ! अखण्डिदचारित्तोसि । ता ण क्खु ते मम कार- णादो साहसं करन्तेण अच्चन्तविरुद्धं आचरिदं ? ( शर्विलक ! अखण्डित- चारित्रोऽसि, तत् न खलु त्वया मम कारणात् साहसं कुर्वता अत्यन्तविरुद्धमा- चरितम् ? )
शर्विलकः--
नो मुष्णाम्यबलां विभूषणवतीं फुल्लामिवाहं लतां
वचन के अनुसार बलपूर्वक अथवा अविचारपूर्वक जो किया जाय वह 'साहस' कहा जाता है ॥ ५ ॥
अर्थ--वसन्तसेना--इसकी आकृति प्रसन्न है किन्तु दुःसाहसिक कर्म के कारण उद्वेग पैदा करनेवाली है ।
मदनिका--शर्विलक ! कलेवातुल्य स्त्री के कारण तुमने दोनों को ही सन्देह में डाल दिया ।
शर्विलक--किस-किस को ?
मदनिका--शरीर को और चरित्र को ।
शर्विलक--अरे मूर्ख ! साहस में ही लक्ष्मी निवास करती है ।
मदनिका--तुम अखण्डित [ निर्दोष ] चरित्रवाले हो । इसलिये मेरे कारण साहस करते हुये तुमने अत्यन्त विरुद्ध आचरण नहीं किया है ? [ अर्थात् अवश्य किया है । ]
टीका--प्रसन्ना=प्रसाद्युक्ता, शोभना वा, साहसकर्मतया=साहसम्=चौर्यादिकं कर्म यस्य सः, तस्य भावस्तया, उद्वेजयतीति कर्तरि अनीयर्, स्त्रीकल्यवर्तः=स्त्री-रूपी कल्यवर्तः, तस्य, अपण्डिते = अविदुषि, अज्ञे, श्रीः = लक्ष्मीः, अखण्डितम्, चारित्रम्=वृत्तम्, यस्य सः, अत्यन्तविरुद्धम्=लोकशास्त्रमर्यादाप्रतिकूलम्, आचरितम्=कृतम् । अत्र काकुः, अवश्यमेवाचरितमितिभावः ।
२४४ | मृच्छकटिकम्
विप्रस्वं न हरामि काञ्चनमथो यज्ञार्थमभ्युद्धृतम्। धात्र्युत्सङ्गतं हरामि न तथा बालं धनार्थी क्वचित् कार्य्याकार्य्यविचारिणी मम मतिश्चौर्य्येऽपि नित्यं स्थिता ॥ ६॥
**अन्वयः—**धनार्थी, अहम्, फुल्लाम्, लताम्, इव, विभूषणवतीम्, अबलाम्, नो, मुष्णामि, विप्रस्वम्, अथो, यज्ञार्थम्, अभ्युद्धृतम्, काञ्चनम्, न, हरामि, तथा, क्वचित्, धात्र्युत्सङ्गतम्, बालम्, न हरामि, चौर्ये, अपि मम, मतिः, नित्यम्, कार्या-कार्यविचारिणी, [ एव ], स्थिता ॥ ६ ॥
**शब्दार्थ—**धनार्थी = धन पाने का इच्छुक, अहम्=मैं शर्विलक, फुल्लाम्=फूली हुई, फूलों से युक्त, लताम्=लता के, इव=समान, विभूषणवतीम्=आभूषणों से सजी हुई, अबलाम्=स्त्री को, नो=नहीं, मुष्णामि=चुराता हूँ अर्थात् लूटता हूँ, विप्रस्वम्=ब्राह्मण का धन, ( नहीं चुराता हूँ ), अथो=और, यज्ञार्थम्=यज्ञ के लिये, अभ्युद्धृतम्=सुरक्षित रखे गये, काञ्चनम्=स्वर्णादि को, न=नहीं, हरामि=चुराता हूँ, तथा=और, क्वचित्=कहीं भी, धात्र्युत्सङ्गतम्=धाय की गोद में स्थित, बालम्=बच्चे को, न = नहीं, हरामि = चुराता हूँ, छीनता हूँ, चौर्ये = चोरी में, अपि=भी, मम=मेरी, मतिः=बुद्धि, नित्यम्=सदैव, कार्याकार्यविचारिणी=कर्तव्य और अकर्तव्य का विचार करनेवाली, ही, स्थिता=रहती है ॥ ६ ॥
अर्थ—शर्विलक— धन का इच्छुक मैं, फूली हुयी लता के समान आभूषणों से सजी हुई स्त्री को नहीं चुराता हूँ। (उसके आभूषण नहीं लूटता हूँ।) ब्राह्मण के धन को तथा यज्ञादि कार्यों के लिये संचित स्वर्ण को भी नहीं चुराता हूँ। कहीं भी धाय की गोद में स्थित बच्चे को नहीं चुराता हूँ (लेकर भागता हूँ)। चोरी में भी मेरी बुद्धि सदैव कर्तव्य तथा अकर्तव्य [ उचित और अनुचित ] का विचार करने वाली (ही) रहती है। अतः सोच समझकर ही मैंने चोरी की है ॥ ६ ॥
**टीका—**मदनिकयाधिक्षिप्तः विवेकानुगताचरणैः स्वकीयं निर्दोषत्वं साधयति—नो इति। धनार्थी=परकीयधनलिप्सुः, अहम् = शर्विलकः, फुल्लाम् = विकसितपुष्पयुक्ताम्, लताम्=वल्लीम् इव, विभूषणवतीम्=अलङ्कारविभूषिताम्, अबलाम्=नारीम्, तद्धनमित्यर्थः नो=नैव, मुष्णामि=चोरयामि; विप्रस्वम्=ब्राह्मणधनम्, अथो=तथा, यज्ञार्थम्=क्रत्वर्थम्, अभ्युद्धृतम्=निःसार्य सञ्चितम्, सुरक्षितम्, काञ्चनम्=स्वर्णम्, न=नैव, हरामि=चोरयामि; क्वचित्=क्वापि, धात्र्याः=पालनकर्त्र्याः, उत्संगे=अङ्के, गतम्=स्थितम्=विद्यमानम् बालम्=शिशुम्, न=नैव, हरामि=चोरयामि, चौर्ये=चौरकर्मणि, अपि, मे=शर्विलकस्य, मतिः=बुद्धिः, नित्यम् = सर्वदा, कार्याकार्यविचारिणी = कर्त्तव्याकर्त्तव्यविवेकिनी, स्थिता = तिष्ठति। चौर्यादिरूपमसत्कार्यं