मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 329, कुल 760 में से
संदर्भ में पढ़ें| २४२ | मृच्छकटिकम् |
|---|
तदा बिना अर्थं सर्वं परिजनमभुजिष्यं करिष्यामि। अथ शर्विलक ! कुतस्ते एतावान् विभवः येन मामाय्यासकाशात् मोचयिष्यसि ? )
शर्विलकः—
दारिद्र्येणाभिभूतेन त्वत्स्नेहानुगतेन च।
अद्य रात्रौ मया भीरु ! त्वदर्थे साहसं कृतम् ॥ ५ ॥
सभी दासियों को मुक्त कर देती।' फिर शर्विलक ! तुम्हारे पास इतना धन कहाँ जिससे तुम मुझे आर्या के पास से मुक्त करा सकोगे ?
टीका— कस्मिन्=कारणे वा, स्वागतम्=सुष्ठु आगतम्, चिरयति=विलम्बं करोति, चिरं करोति-इत्यर्थे णिच्, अन्योन्यम् = परस्परम्, पुरुषकेण=प्रियपुरुषेण, प्रियार्थे कः, मन्त्रयन्ती=गुप्तमालपन्ती, अतिस्निग्धया=अतिप्रेमपूरितया, निश्चल-दृष्टया = निर्निमेषलोचनेन, आपिबन्ती = पानं कुर्वन्ती, निध्यायति=विलोकयति, अभुजिष्याम्=अकिङ्करीं स्वाधीनामित्यर्थः, स्वेतरेण केनापि भोगयोग्यां न कर्तुमिति भावः। प्रीतिच्छेदः=प्रेमप्रवाहभङ्गः, आकारयिष्यामि=आह्वयिष्यामि। रहस्यम्=रहसि=एकान्ते भवम्, गोपनीयम्, विविक्तम्=निर्जनम्, निष्क्रयेण=द्रव्यविनिमयेन, अपवारितशरीरा=अपवारितम्=गोपितम् शरीरं यस्या सा, छन्दः=इच्छा, सामर्थ्य-मिति भावः ॥
अन्वय— हे भीरु, दारिद्र्येण, अभिभूतेन, त्वत्स्नेहानुगतेन, च, मया, त्वदर्थे, अद्य, रात्रौ, साहसम्, कृतम् ॥ ५ ॥
शब्दार्थ— हे भीरु !=हे डरनेवाली स्त्री, दारिद्र्येण = निर्धनता से, अभिभूतेन=पीडित, परेशान, च=और, त्वत्स्नेहानुगतेन=तुम्हारे प्रेम में आसक्त, मया=मुझ शर्विलक ने, त्वदर्थे=तुम्हारे [ मदनिका के ] लिये, अद्य=आज, रात्रौ=रात में, साहसम्=दुःसाहसिक कार्य अर्थात् चोरी, कृतम्=कर डाली ॥ ५ ॥
अर्थ—शर्विलक—
हे भीरु ( डरपोक ) स्त्री ! निर्धनता से पीड़ित और तुम्हारे प्रेमजाल में फंसे हुये मैंने तुम्हारे लिये आज रात में साहसिक कार्य अर्थात् चोर कर डाली ॥५॥
टीका— निर्धनस्य तव समीपे मम निष्क्रयार्थं सहसा धनागमः कुत इति शङ्कायां समाधिमाह-दारिद्र्येणेति। हे भीरु !=हे भयशीले मदनिके, दारिद्र्येण=निर्धनत्वेन, अभिभूतेन = आक्रान्तेन पीडितेन वा, त्वत्स्नेहानुगतेन = त्वदीयप्रणय-समासक्तेन, च, मया=शर्विलकेन, त्वदर्थे=मदनिकानिमित्तम्, अद्य रात्रौ=निशायाम्, साहसम् = सहसा=बलेन कृतम् यद्वा सहसा=अविविच्य कृतम् साहसं चौर्यरूपमिति यावत्, कृतम्=अनुष्ठितम्। पथ्यावक्त्रं वृत्तम् ॥ ५ ॥
विमर्श— अचानक धनी होने के विषय में स्पष्टीकरण देने के लिये शर्विलक का प्रस्तुत कथन है। साहसम् —'सहसा क्रियते यत्तु तत् साहसमिरहोच्यते' इस