मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 332, कुल 760 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः २४५
तद्विज्ञाप्यतां वसन्तसेना—
अयं तव शरीरस्य प्रमाणादिव निर्मितः ।
अप्रकाशो ह्यलङ्कारः मत्स्नेहाद्धार्यतामिति ॥ ७ ॥
मदनिका—सव्विलअ ! अप्पकासो अलङ्कारओ अअं च जणो त्ति दुवेवि ण जुज्जदि । ता उवणेहि दाव, पेक्खामि एदं अलङ्कारअं । (शर्विलक !
कुर्वन्नपि अहं सदैवोचित्यं विचार्यैव प्रवृत्तो भवामि । एवञ्च मयानुचितं नानुष्ठित-मिति भावः । अत्र काव्यलिङ्गमलङ्कारः, शार्दूलविक्रीडितं वृत्तम् ॥ ६ ॥
**अन्वयः—**तव, शरीरस्य, प्रमाणात् इव, निर्मितः, अयम्, अप्रकाशः, अलङ्कारः, मत्स्नेहात्, हि, धार्यताम् ॥ ७ ॥
**शब्दार्थ—**तव = तुम्हारे, वसन्तसेना के, शरीरस्य = देह अर्थात् अवयवों के, प्रमाणात् = नाप से, इव = मानों, निर्मितः = बनाया गया, अयम् = यह, अप्रकाशः = प्रकाशित न करने योग्य, न दिखाने लायक, अलङ्कारः = आभूषण को, मत्स्नेहात् = मुझ मदनिका में स्नेह करने के कारण, हि = अवश्य, धार्यताम् = धारण कीजिये ॥७॥
**अर्थ—**इसलिये [मदनिके !] वसन्तसेना से यह कहो—
तुम्हारे [वसन्तसेना के] शरीर की [अवयवों की] नाप से मानों बनाये गये, सबके सामने न दिखाने योग्य, इस गहने को मुझ [मदनिका] पर स्नेह करने के कारण अवश्य धारण कर लीजिये ॥ ७ ॥
**टीका—**किं विज्ञापनीयमित्याह—अयमिति । तव = वसन्तसेनायाः, शरीरस्य = देहस्य, अवयवानामिति भावः, प्रमाणात् = परिमाणात्, इव, अत्र ल्यब्लोपे पञ्चमी, परिमाणं गृहीत्वेत्यर्थः; निर्मितः = घटितः, अयम् = पुरो दृश्यमानः, अप्रकाशः = अनुचितः प्रकाशो यस्य सः, अप्रकाशनीय इत्यर्थः, अलङ्कारः = भूषणम्, मत्स्नेहात् = मदनिकायाम्, अनुरागात्, हि = अवश्यम्, धार्यताम् = गृह्यताम् । एवञ्च शर्विलकेन मदनिकायाः निष्क्रयार्थं समर्पितमिति न क्वापि प्रकाशनीयम् । अत्र शरीरप्रमाणनिर्मितत्वेऽपि तत्त्वसम्भावनात् उत्प्रेक्षालङ्कारः, पध्यावक्त्रं वृत्तम् ॥७॥
**विमर्श—अप्रकाशः—**अनुचितः प्रकाशः = प्रदर्शनं यस्य सः, जिसको दिखाना ठीक नहीं है । कुछ लोगों ने इसे क्रियाविशेषण मानकर 'अप्रकाशं धार्यताम्' यह लिखा है। कुछ ने 'अप्रकाशयम्' यह माना है। परन्तु प्रथम पाठ ही अधिक तर्कसंगत है । 'प्रमाणात्' यहाँ **'प्रमाणं विलोक्य'—**इस अर्थ में 'ल्यब्लोपे कर्मण्यधिकरणे च' इस वार्तिक से पञ्चमी है । मत्स्नेहात् मयि = मदनिकायाम्, स्नेहः-तस्मात् । शरीर के प्रमाण से निर्मित न होने पर उसमें उस प्रकार बनने की सम्भावना के कारण उत्प्रेक्षा अलङ्कार है, और पध्यावक्र छन्द है ॥ ७ ॥
**अर्थ—मदनिका—**अरे शर्विलक ! न दिखाने लायक आभूषण; और यह [वेश्या ] जन--ये दोनो बातें संगत नहीं हो रहीं है। [अर्थात् वेश्या तो