मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 333, कुल 760 में से
संदर्भ में पढ़ें| २४६ | मृच्छकटिकम् |
|---|
अप्रकाश्योऽलङ्कारकः अयं च जनं इति द्वयमपि न युज्यते । तदुपणय तावत् प्रेक्षे एतमलङ्कारकम् ।)
शर्विलकः—इदमलङ्करणम् । (इति साशङ्कं समर्पयति ।)
मदनिका—(निरूप्य) दिट्ठपुरुव्वो विअ अअं अलङ्कारओ । ता भणेहि कुदो दे एसो ? (दृष्टपूर्वक इवायमलङ्कारः ! तद्भण कुतस्ते एषः ?)
शर्विलकः—मदनिके ! किं तव अनेन । गृह्यताम् ।
मदनिका—(सरोषम्) जइ मे पच्चअं ण गच्छसि, ता किं णिमित्तं मं णिक्किणासि ? । (यदि मे प्रत्ययं न गच्छसि, तत् किं निमित्तं मां निष्क्रीणासि?)
शर्विलकः—अयि ! प्रभाते मया श्रुतं श्रेष्ठिचत्वरे—यथा सार्थवाहस्य चारुदत्तस्य इति ।
(वसन्तसेना मदनिका च मूर्च्छां नाटयतः ।)
शर्विलकः—मदनिके ! समाश्वसिहि । किमिदानीं त्वम्—
विषादस्रस्तसर्वाङ्गी संभ्रमभ्रान्तलोचना ।
नीयमानाऽभुजिष्यात्वं कम्पसे नानुकम्पसे ॥ ८ ॥
प्रदर्शन के लिये ही सभी के सामने आभूषण धारण करती है अतः इन्हें गुप्त रखना सम्भव नहीं है ।] तो लाओ, इस आभूषण को देखूँ ।
शर्विलक—यह अलंकार है । (इस प्रकार शङ्कित होकर देता है ।)
मदनिका—(देखकर) यह तो पहले देखा हुआ लगता है; तो बताओ यह तुम्हें कहाँ से मिला ?
शर्विलक—मदनिके ! तुम्हें इससे क्या ? लो ।
मदनिका—(क्रोध के साथ) यदि मुझ पर विश्वास नहीं है तो किस लिये मुझे मुक्त करा रहे हो ?
शर्विलक—अरे ! सबेरे मैंने सेठों की चौक में यह सुना—'सार्थवाह चारुदत्त का है ।'
टीका—अप्रकाशः = अनुचितः प्रकाशो यस्य सः, अप्रकाशनीय इत्यर्थः, अलङ्कारकः=अलङ्कारसमूहः, अय जनः=वेश्याजनः, द्वयम्=अलङ्कारधारणम्, अप्रकाशनीयत्वञ्च, युज्यते = उचितं भवति; प्रेक्षे = विलोकयामि, साशङ्कम्=सन्देहयुक्तम्, दृष्टपूर्वकः=पूर्वं दृष्टः, पूर्वं विलोकितः, तत्=तस्मात्, कुतः=कस्मात् स्थानात् लब्ध इति शेषः, ते = तव, अनेन = आभूषणप्राप्तिस्थानादिविषयकज्ञानेन, किम् = किम् प्रयोजनमित्यर्थः, मे=मदनिकायाः, प्रत्ययम्=विश्वासम्, गच्छसि=करोषि, किंनिमित्तम्=किमर्थम्, निष्क्रीणासि=धनादिदानेन दास्यात् मोचयसि ? ॥ ७ ॥
अन्वय—अभुजिष्यात्वम्, नीयमाना, (अपि), विषादस्रस्तसर्वाङ्गी, संभ्रमभ्रान्तलोचना, कम्पसे, [माम्] न, अनुकम्पसे ॥ ८ ॥