मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 363, कुल 760 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः २७५
चेटी-- एदु एदु अज्जो । इमं पढमं पओट्ठं पविसदु अज्जो । ( एतु एतु आर्यः । इमं प्रथमं प्रकोष्ठं प्रविशतु आर्यः । )
विदूषकः-- ( प्रविश्यावलोक्य च ) ही ही भोः ! इध वि पढ़मे पओट्ठे ससिगङ्क-मुणालसच्छाओ, विणिहिद-चूर्ण-मुट्ठिपाण्डुराओ विविह-रअण-पड़िवद्धकञ्चण-सोवाण सोहिदाओ, पासादपन्तिओ, ओलम्बिदमुत्तादामेहिं फटिअवादाअणमुहचन्देहिं णिज्झाअन्ती विअ उज्जयिणीं । सोत्तिओ विअ
ऐरावणस्य = सुरगजस्य, हस्तः = शुण्डादण्डः, तस्य भ्रमः यस्मिन् स, तद्वदाचरितः, ऐरावतशुण्डभ्रमजनक इति यावत्, यो मल्लिकादामगुणः = मल्लिकापुष्पमालागुणः, तेन अलङ्कृतस्य = विभूषितस्य, समुच्छ्रितेन = समुन्नतेन, दन्तिदन्ततोरणेन = गजदन्तविनिर्मितबहिर्द्वारेण अवभासितस्य = शोभायमानस्य । महारत्नानाम् = विशालमण्यादीनाम् उपरागेण = सम्पर्कण, शोभिना = सोभावता, इमानि तृतीयान्तपदानि सौभाग्यपताकानिवहस्य विशेषणानि बोध्यानि । पवनबलेन = वायुप्रघातेन, या आन्दोलना = इतस्ततश्चलनम्, तया ललन् = प्रकम्पमानः, अत एव, चञ्चलः = अस्थिरः अग्रहस्तः = कराग्रं यस्य तेन, इत एहि = अत्र आगच्छ, इति, व्याहरता = कथयता, इव, सौभाग्यपताकानाम् = मंगलार्थसज्जितपताकानाम्, निवहेन = समूहेन, उपशोभितस्य = शोभमानस्य, तोरणानाम्, धरणाय = अवलम्बनाय ये स्तम्भाः-तेषां वेदिकाः = मूलभागे मृदादिनिर्मिताः भूभागाः, तासु निक्षिप्तैः = स्थापितैः, समुल्लसद्भिः हरितवर्णैः चूतपल्लवैः = आम्रपल्लवैः ललामानाम = सुन्दराणाम्, स्फटिकानाम् = स्फटिकमणीनाम्, निर्मितैः मङ्गलकलसैः = जलपूर्णघटैः, अभिरामम् = शोभमानम्, उभयपार्श्वम् = उभयप्रान्तभागः यस्य तस्य, महासुरस्य = हिरण्यकशिप्वादेः वक्षःस्थलवत् दुर्भेद्यानि = विदारयितुमशक्यानि, वज्रैः = हीरकैः, तन्निर्मितकीलकादिभिरित्यर्थः, निरन्तरम् = घनरूपम् प्रतिबद्धानि = जटितानि, कनककपाटानि = स्वर्णमय-कपाटानि यत्र तस्य, दुर्गतानाम् = निर्धनानाम्, ये मनोरथाः = अभिलाषाः 'मम समीपेऽपि एतादृशं स्यादित्याङक्षाः' तेषाम्, आयासकरस्य = परिश्रमजनकस्य, वसन्तसेनाभवनद्वारस्य = वसन्तसेनायाः भवनस्य प्रमुखद्वारस्य, सश्रीकता = सौन्दर्यम् । मध्यस्थस्यापि = विषयोपभोगादुदासीनस्यापि, बलात् = हठात्, आकारयति = आकर्षतीति भावः ।
विमर्श-- इस गद्यांश में 'अहो' के बाद 'वसन्तसेनाभवनद्वारस्य सश्रीकता' यह मिलकर मुख्यवाक्य बनता है । षष्ठ्यन्त सभी पद इसी के विशेषण हैं । तृतीयान्त पद 'निवहेन' के विशेषण हैं ।
अर्थ--चेटी-- आइये, आर्य ! आइये, पहले प्रकोष्ठ ( भवनखण्ड ) में आर्य प्रवेश करिये ।