भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 369, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 369

चतुर्थोऽङ्कः

२८१

इमा अपराश्च कुसुमरसमत्ता इव मधुकर्यः अतिमधुरं प्रगीता गणिकादारिकाः नृत्यन्ते, नाटयं पाठ्यन्ते सशृङ्गारम् । अपवल्गिता गवाक्षेषु वातं गृह्णन्ति सलिल-गर्गर्यः । आदिशतु भवती ।)

चेटी— एदु एदु अज्जो । इमं पञ्चमं पओट्ठं पविसदु अज्जो । ( एतु एतु आर्यः । इमं पञ्चमं प्रकोष्ठं प्रविशतु आर्यः । )

विदूषकः-— ( प्रविश्य दृष्ट्वा च ) हीहो भो ! इध वि पञ्चमे पओट्ठे अअं दलिद्द-जण लोहुप्पादनअरो आहरइ उवचिदो हिङ्गु तेलगन्धो । विविहसुरहि-धूमूग्गारेहिं णिच्चं सन्तादिज्जमाणं णीससदि विअ महाणसं दुआरमुहेहिं । अधिअं उसुसावेदि मं सासिज्जमाणं-बहुविह-भक्ख-भोअण-गन्धो । अअं अवरो पडच्चरं विअ पोट्टिं धोअदि रुपिदारओ । बहुविहा-हारविआरं उवसाहेदि सूवआरो । वज्झन्ति मोदआ, पच्चन्ति अपूवआ । ( आत्मगतम् ) अवि दाणिं इह वड्ढिअं भुञ्जसु त्ति पादोदअं लहिस्सं ? ( अन्यतोऽवलोक्य च ) इदो गन्धव्व-सुरगणेहिं विअ विविहालङ्कारसोहि-देहिं गणिआजणेहिं बन्धूलेहिं अ जं सच्चं सम्भोअदि एदं गेहं । भोः ! के


सहित नाटय पढ़ाया जा रहा है। झरोखों पर रखी गयी पानी की सुराहियाँ हवा ले रही हैं। आप ( आगे के मार्ग का ) आदेश दीजिये ।

टीका—-युवतीनाम्=तरुणीनाम्, करैः=हस्तैः, ताडिताः=वादिताः, मृदङ्गाः= मुरजाख्याः, वाद्यविशेषाः, जलधराः इव=मेघा इव, नदन्ति=अव्यक्तं शब्दं कुर्वन्ति । क्षीणां पुण्यं यासां ताः, समाप्तपुण्यफलाः, तारकाः = तारागणा इव, कांस्यतालाः= कांस्यनिर्मितवाद्यविशेषाः, निपतन्ति=परस्परम्, अन्योन्योपरि पतन्ति । मधुकरस्य =भ्रमरस्य, विरुतम्=गुञ्जनम् इव मधुरम्=हृदयहारि, क्रियाविशेषणमेतत् ! ईर्ष्या-प्रणयकुपिता = अन्यस्त्रीसम्पर्कजन्य-प्रणयकोपयुक्ता, अङ्के = क्रोडे, आरोपिता = स्थापिता, कररुहाणाम् = नखानाम्, परामर्शेन=स्पर्शेन, सार्यते=प्रसाद्यते, वाद्यते च, कुसुमानाम्=पुष्पाणाम्, रसैः, मत्ता=क्षीबाः, मधुकर्यः=भ्रमर्यः, इव, प्रगीताः= प्रकृष्टगानयुक्ताः, गणिकानाम् = वेश्यानाम्, दारिकाः = कन्यकाः, सशृङ्गारम्= शृङ्गारपूर्वकम्, पाठ्यन्ते=शिक्षन्ते । गवाक्षेषु=वातायनेषु, अपवल्गिताः=संस्थापिता सलिलगर्गर्यः=जलघटिकाः, गृह्णन्ति=आत्मसात्कुर्वन्ति ।

अर्थ—चेटी—-आइये आर्य ! आइये । इस पांचवें प्रकोष्ठ में आर्य ! प्रवेश करें ।

शब्दार्थ—-दरिद्रजनलोभोत्पादनकरः = निर्धनों के लोभ को पैदा करनेवाला, उपचितः = तीव्र, बढ़ा हुआ, हिङ्गुतैलगन्धः = हींगयुक्त तेल की गन्ध, आहरति= अपनी ओर खींच रही है । सन्ताप्यमानम् = सन्तप्त=आगयुक्त किया जानेवाला, महानसम्=रसोई घर, विविधसुरभिधूमोग्दारैः=विभिन्न प्रकार के सुगन्धित धुँओं को निकालने वाले, द्वारमुखैः=द्वाररूपी मुखों से, निःश्वसिति इव=मानो उच्छ्वास

मृच्छकटिकम् (सटीक संस्कृत नाटक) · पृष्ठ 369, कुल 760 में से · BharatKosha