मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 369, कुल 760 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः
२८१
इमा अपराश्च कुसुमरसमत्ता इव मधुकर्यः अतिमधुरं प्रगीता गणिकादारिकाः नृत्यन्ते, नाटयं पाठ्यन्ते सशृङ्गारम् । अपवल्गिता गवाक्षेषु वातं गृह्णन्ति सलिल-गर्गर्यः । आदिशतु भवती ।)
चेटी— एदु एदु अज्जो । इमं पञ्चमं पओट्ठं पविसदु अज्जो । ( एतु एतु आर्यः । इमं पञ्चमं प्रकोष्ठं प्रविशतु आर्यः । )
विदूषकः-— ( प्रविश्य दृष्ट्वा च ) हीहो भो ! इध वि पञ्चमे पओट्ठे अअं दलिद्द-जण लोहुप्पादनअरो आहरइ उवचिदो हिङ्गु तेलगन्धो । विविहसुरहि-धूमूग्गारेहिं णिच्चं सन्तादिज्जमाणं णीससदि विअ महाणसं दुआरमुहेहिं । अधिअं उसुसावेदि मं सासिज्जमाणं-बहुविह-भक्ख-भोअण-गन्धो । अअं अवरो पडच्चरं विअ पोट्टिं धोअदि रुपिदारओ । बहुविहा-हारविआरं उवसाहेदि सूवआरो । वज्झन्ति मोदआ, पच्चन्ति अपूवआ । ( आत्मगतम् ) अवि दाणिं इह वड्ढिअं भुञ्जसु त्ति पादोदअं लहिस्सं ? ( अन्यतोऽवलोक्य च ) इदो गन्धव्व-सुरगणेहिं विअ विविहालङ्कारसोहि-देहिं गणिआजणेहिं बन्धूलेहिं अ जं सच्चं सम्भोअदि एदं गेहं । भोः ! के
सहित नाटय पढ़ाया जा रहा है। झरोखों पर रखी गयी पानी की सुराहियाँ हवा ले रही हैं। आप ( आगे के मार्ग का ) आदेश दीजिये ।
टीका—-युवतीनाम्=तरुणीनाम्, करैः=हस्तैः, ताडिताः=वादिताः, मृदङ्गाः= मुरजाख्याः, वाद्यविशेषाः, जलधराः इव=मेघा इव, नदन्ति=अव्यक्तं शब्दं कुर्वन्ति । क्षीणां पुण्यं यासां ताः, समाप्तपुण्यफलाः, तारकाः = तारागणा इव, कांस्यतालाः= कांस्यनिर्मितवाद्यविशेषाः, निपतन्ति=परस्परम्, अन्योन्योपरि पतन्ति । मधुकरस्य =भ्रमरस्य, विरुतम्=गुञ्जनम् इव मधुरम्=हृदयहारि, क्रियाविशेषणमेतत् ! ईर्ष्या-प्रणयकुपिता = अन्यस्त्रीसम्पर्कजन्य-प्रणयकोपयुक्ता, अङ्के = क्रोडे, आरोपिता = स्थापिता, कररुहाणाम् = नखानाम्, परामर्शेन=स्पर्शेन, सार्यते=प्रसाद्यते, वाद्यते च, कुसुमानाम्=पुष्पाणाम्, रसैः, मत्ता=क्षीबाः, मधुकर्यः=भ्रमर्यः, इव, प्रगीताः= प्रकृष्टगानयुक्ताः, गणिकानाम् = वेश्यानाम्, दारिकाः = कन्यकाः, सशृङ्गारम्= शृङ्गारपूर्वकम्, पाठ्यन्ते=शिक्षन्ते । गवाक्षेषु=वातायनेषु, अपवल्गिताः=संस्थापिता सलिलगर्गर्यः=जलघटिकाः, गृह्णन्ति=आत्मसात्कुर्वन्ति ।
अर्थ—चेटी—-आइये आर्य ! आइये । इस पांचवें प्रकोष्ठ में आर्य ! प्रवेश करें ।
शब्दार्थ—-दरिद्रजनलोभोत्पादनकरः = निर्धनों के लोभ को पैदा करनेवाला, उपचितः = तीव्र, बढ़ा हुआ, हिङ्गुतैलगन्धः = हींगयुक्त तेल की गन्ध, आहरति= अपनी ओर खींच रही है । सन्ताप्यमानम् = सन्तप्त=आगयुक्त किया जानेवाला, महानसम्=रसोई घर, विविधसुरभिधूमोग्दारैः=विभिन्न प्रकार के सुगन्धित धुँओं को निकालने वाले, द्वारमुखैः=द्वाररूपी मुखों से, निःश्वसिति इव=मानो उच्छ्वास