भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 371, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 371
चतुर्थोऽङ्कः२८३

गेहम् । भोः ! के यूयं बन्धुला नाम ? )
बन्धुलाः—वयं खलु—

परगृहललिताः परान्नपुष्टाः
परपुरुषैर्जनिताः पराङ्गनासु ।
परधननिरता गुणेष्ववाच्या
गजकलभा इव बन्धुला ललामः ॥ २८ ॥


रहा है। अरे ! बन्धुल नामवाले तुम लोग कौन हो ?

**टीका—**दरिद्रजनानाम्=निर्धनलोकानाम्, लोभस्य=लिप्सायाः, उत्पादनकरः=उत्थापकः, उपचितः=वृद्धिं गतः, तीव्रः, हिङ्गुतैल गन्धः=पक्वहिङ्गुमिश्रिततैल गन्धः, आहरति=चित्तमाकर्षति । नित्यम्=प्रतिदिनम्, सन्ताप्यमानम्=पाकादिना सन्तप्तम्, महानसम्=भोजनालयः, विविधानाम्=विभिन्नप्रकाराणाम्, सुरभीणाम्=गन्धयुतानाम्, धूमानाम्, उद्गारैः = उद्गीर्णैः, द्वारमुखैः=द्वाररूपिभिराननैः, निःश्वसिति इव = सन्तापाभिव्यक्तिं करोतीव । साध्यमानानाम्=पच्यमानानाम्, बहुविधानाम्=अनेकप्रकाराणाम्, भक्ष्याणाम्, भोजनानाम्=भक्ष्यातिरिक्तचर्व्यचोष्यादिभोजनानाम्, गन्धः=सौरभः, माम्=विदूषकम्, उत्सुकयते=भोजनायोत्सुकं करोति । रूपिदारकः=रूपिणां पश्वादीनां दारकः=हन्ता, पटच्चरम्=जीर्णवस्त्रखण्डम्, इव, पेशिम् धावति=शोधयति, ‘√धाव गतिशुद्ध्योः’ सूपकारः=पाचकः, बहुविधानाम्=अनेकप्रकाराणाम्, आहाराणाम् = भोज्यपदार्थानाम्, विकारम् = प्रकारम्, साधयति = निष्पादयति । वर्धितम् = सम्पन्नम्, भुङ्क्ष्व = भक्षय' इति=एतदर्थम्, पादोदकम्=पादप्रक्षालनाय जलम्, लप्स्ये=प्राप्स्यामीति काकुः, विविधालांकारशोभितैः=विभिन्नाभूषणभूषितैः, गन्धर्वाणाम्, अप्सरसां च गणैः=समूहैः इव, गणिकाजनैः=वेश्यालोकैः, बन्धुलैश्च=बन्धुलजनैश्च, स्वर्गायते=स्वर्गमिव आचरति ।

**अन्वयः—**परगृहललिताः, परान्नपुष्टाः, परपुरुषैः, पराङ्गनासु, जनिताः, परधननिरताः, गुणेषु, अवाच्याः, ( एते वयम् ) बन्धुलाः, गजकलभाः, इव, ललामः ॥ २८ ॥

**शब्दार्थः—**परगृहललिताः=दूसरों के घरों में पालित होनेवाले, परान्नपुष्टाः=दूसरों के अन्न से परिपुष्ट होनेवाले, परपुरुषैः=दूसरे पुरुषों द्वारा, पराङ्गनासु=दूसरों की स्त्रियों में, जनिताः=पैदा कराये गये, परधननिरताः=दूसरों के धन में अनुरक्त, गुणेषु = अच्छे गुणों में, अवाच्याः=अकथनीय, अर्थात् गुणहीन, ( ये हम ) बन्धुलाः=बन्धुल लोग, गजकलभा इव=हाथी के बच्चों के समान, ललामः=स्वच्छन्द विहार करते हैं ॥ २८ ॥

**अर्थ—बन्धुल—**हम लोग—