मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 374, कुल 760 में से
संदर्भ में पढ़ें२०६ मृच्छकटिकम्
इमे अपरे अवधीरितपुत्रदारवित्ता मनुष्याः आसव-करकासहितपीतमदिरैर्गणिकाजनैर्मुक्ता आसवाः तान् पिबन्ति । आदिशतु भवती ।)
चेटी—एदु एदु अज्जो । इमं सत्त मं पओट्ठं पविसदु अज्जो । (एतु एतु आर्यः । इमं सप्तमं प्रकोष्ठं प्रविशतु आर्यः ।)
विदूषकः—(प्रविश्यावलोक्य च) हीही भो ! इध वि सत्तमे पओट्ठे सुसिलिट्ट-विहङ्ग-वाडीसुह-णिसण्णाई अण्णोण-चुम्बणपराई सुहं अणुभवन्ति पारावद-मिहुणाई । दहिभत्त-पूरिदोदरो बम्हणो विअ सुत्तं पठदि पञ्जरसुओ । इअं अवरा सामि-संमाणणा-लद्ध-पसरा विअ घरदासी अधिअं कुरकुराअदि मदणसारिआ । अणेअ-फलरसास्साद-पतुट्ट-कण्ठा कुम्भदासी विअ कूहदि परपुट्ठा । आलम्बिदा णागदन्तेसु पञ्जर-परम्पराओ । जोधीअन्ति लावआ । आलवीअन्ति पञ्जरकविञ्जला । पेसीअन्ति पञ्जरकवोदा । इदो तदो विविहमणि-चित्तलिदो विअ अअं सहरिसं णच्चन्तो रवि-किरण-सन्तत्तं पक्खुक्खेवेहिं विधूवेदि विअ पासादं घरमोरो । (अन्यतोऽवलोक्य) इदो पिण्डीकिदा विअ चन्दपादा पदगदि सिक्खन्ता विअ कामिणीणं पच्छादो परिब्भमन्ति राअहंसमिहुणा । एदे अवरे वुड्ढ-महल्लका विअ इदो तदो सञ्चरन्ति घरसारसा । हीहो भो ! पसारअं किदं गणिआए णाणापक्खिसमूहेहिं । जं सच्चं क्खु गन्दणवणं विअ मे गणिआघरं पडिभासदि । आदिसदु भोदी । (आश्चर्यं भोः ! इहाऽपि सप्तमे
हैं । कटाक्षसहित देखा जा रहा है । हँसी हो रही है । सीत्कार (सी सी शब्द) के साथ मदिरा पी जा रही है । ये चेट हैं, ये चेटिकायें है । अपने पुत्र, पत्नी और धन सभी को छोड़ देने वाले ये लोग, गणिकाओं द्वारा शकोरों में पी कर छोड़ी गयी जो मदिरा उसे पी रहे हैं । वेश्याओं ने मदिरा पीकर जूठी प्याली उन्हें दे दी है, उसे ही पी रहे हैं । आप (आगे के मार्ग का) आदेश करें ।
टीका—नीलरत्नैः = मरकतमणिभिः, विनिक्षिप्तानि = खचितानि, सुवर्णरत्नानाम्=सुवर्णे जटितरत्नानाम्, कर्मतोरणानि=शिल्पकर्मणा निर्मितानि बहिर्द्वाराणि, इन्द्रायुधस्य=शक्रचापस्य, स्थानम्=आस्पदम्, सौन्दर्यं वा, शिल्पिनः=शिल्पकाराः, रत्नविशेषान् विचारयन्ति=रत्नविशेषाणामुपयुक्तताविषये चिन्तयन्ति । जातरूपैः=स्वर्णैः । अवधीरिताः=तिरस्कृताः, पुत्राः = आत्मजाः, दाराः=भार्याः, वित्तम्=धनं च यैः ते, कामुकाः जनाः, करकासहितपीतमदिरैः=करका=चषकः तेन सहितं यथा स्यात् तथा पीता मदिरा=आसवः यैस्तैः, गणिकाजनैः=वेश्याजनैः, ये आसवाः मुक्ताः=पीत्वा परित्यक्ताः ।
अर्थ—चेटी—आइये आर्य ! आइये । आर्य, इस सातवें प्रकोष्ठ में प्रवेश करिये ।