मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 376, कुल 760 में से
संदर्भ में पढ़ें२८८ मृच्छकटिकम्
प्रेष्यन्ते पञ्जरकपोताः । इतस्ततो विविधमणिचित्रित इवायं सहर्षं नृत्यन् रविकिरणसन्तप्तं पक्षोत्क्षेपैर्विधुवतीव प्रासादं गृह्मयूरः । इतः पिण्डीकृता इव चन्द्रपादाः पदगतिं शिक्षमाणानीव कामिनीनां पश्चात् परिभ्रमन्ति राजहंसमिथुनानि । एते अपरे वृद्धमहल्लका इव इतस्ततः संचरन्ति गृहसारसाः । आश्चर्यं भोः ! प्रसारणं कृतं गणिकाया नानापक्षिसमूहैः । यत्सत्यं खलु नन्दनवनमिव मे गणिकागृहं प्रतिभासते । आदिशतु भवती । )
**चेटी--**एदु एदु अज्जो । इमं अट्ठमं पओट्ठं पविसदु अज्जो । ( एतु एतु आर्यः । इमम् अष्टमं प्रकोष्ठं प्रविशतु आर्यः । )
विदूषकः--( प्रविश्यावलोक्य च ) भोदि ! को एसो पट्टपावारअप्राउदो अधिअदरं अच्छब्भुद-पुणरुत्तालङ्कारालङ्किदो अङ्गभङ्गेहिं परिक्खलन्तो इदो तदो परिब्भमदि । (भवति ! क एष पट्टप्रावारकप्रावृतः अधिकतरमत्यद्भुत-पुनरुक्तालंकारालङ्कृतः अङ्गभङ्गैः परिस्खलन्नितस्ततः परिभ्रमति ? )
के ) नन्दनवन के समान प्रतीत हो रहा है। श्रीमती ! आप ( आगे का मार्ग ) बतलाइये ।
**टीका--**सुश्लिष्टां=सुनिर्मिता, या विहङ्गमानाम्=पक्षिणाम्, वाटी=शाला, तस्याम्, सुखेन=आनन्देन, निषण्णानि=उपविष्टानि, अन्योन्यम्=परस्परम्, चुम्बन-पराणि = चुम्बनसंसक्तानि, पारावतमिथुनानि = कपोतयुगलानि, दध्ना मिश्रितेन भक्तेन=ओदनेन, पूरितम्=परिपूणम् उदरं यस्य सः, पञ्जरशुकः=पञ्जरस्थः शुकः, सूक्तम्=सद्वचनम् । स्वामिनः सम्मानना=अभ्यादरः, तया, लब्धः=प्राप्तः, प्रसरः=प्रभावः, यया सा, कुरकुरायते=कुर कुर इति शब्दं करोति । अनेकफलानाम्=विविधफलानाम्, रसानाम्, आस्वादेन=पानेन, भक्षणेन वा, प्रहृष्टः=उत्कृष्टः, कण्ठः=कण्ठस्वरः यस्याः सा, कुम्भदासी इव=कुट्टिनी इव, नागदन्तेषु=भित्त्यादिषु स्थितेषु काष्ठखण्डेषु, । लावकाः = पक्षिविशेषाः 'बटेर' इति हिन्दीभाषायाम् । पञ्जरकपिञ्जलाः पञ्जरस्थाः गौरतित्तिराः । पक्षोत्क्षेपैः = पक्षाणां सञ्चालनैः, विधुवति=कम्पयति इव। चन्द्रपादाः=चन्द्रकिरणाः, वृद्धमहल्लकाः=गृहस्य वृद्धपुरुषाः, प्रसारणम्=व्यापनम्, नन्दनवनम्=इन्द्रवनम्, गणिकागृहम्=वसन्तसेनाभवन म्।
**चेटी--**आर्य ! आइये, आइये। इस आठवें प्रकोष्ठ ( भवनखण्ड ) में आप प्रवेश करिये ।
विदूषक--( घुस कर और देखकर ) श्रीमत्तिके ! यह कौन है, जो रेशमी दुपट्टे को ओढ़े हुये, अत्यन्त विलक्षण, एक ही प्रकार के लगने वाले आभूषणों से सजा हुआ, अङ्गों को टेढ़ा मेढ़ा चलाता हुआ इधर उधर खूब घूम रहा है ।