भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 377, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 377

चतुर्थोऽङ्कः

२८६

चेटी--अज्ज ! एसो अज्जआए भादा भोदि । ( आर्ये ! एष आर्य्याया भ्राता भवति ।)

विदूषकः-केत्तिअं तवच्चरणं कदुअ वसन्तसेणाए भादा भोदि । अथवा मा दाव, जइ वि एसो उज्जलो सिणिद्धोअ सुअन्धोअ । तहवि ससाणवीधीए जादो विअ चम्पअरुक्खो अणहिगमणीओ लोअस्स । २६।

( अन्यतोऽवलोक्य ) भोदि ! एसा उण का ? फुल्लपावारअपाउदा उवाह-जुअलणिक्खित्ततेल्ल-चिक्कणेहि पादेहि उच्चासणे उवविट्ठा चिट्ठटि ? ( कियत् तपश्चरणं कृत्वा वसन्तसेनाया भ्राता भवति । अथवा मा तावत्, यद्यप्येष उज्ज्वलः स्निग्धश्च सुगन्धश्च । तथापि-श्मशानवीथ्यां जात इव चम्पकवृक्षोऽनभिगमनीयो लोकस्य ।। २६ ।।


चेटी—आर्य ! यह आर्या वसन्तसेना का भाई लगता है ।

विदूषक--कितनी तपस्या करके वसन्तसेना का भाई बनता है । अथवा--

अन्वयः--मा, तावत्, यद्यपि एषः, उज्ज्वलः, स्निग्धः, च, सुगन्धः, च, ( अस्ति ), तथापि श्मशानवीथ्याम्, जातः, चम्पकवृक्षः, इव, लोकस्य, अनभिगमनीयः ( अस्ति ) ।। २९ ।।

शब्दार्थ--मा तावत् = [ इसके विषय में मुझे इतना अच्छा ] नहीं [ सोंचना चाहिये ]; यद्यपि = यद्यपि, एषः = यह, उज्ज्वलः = उज्वल, च = और, स्निग्धः = चिकना, च = और, सुगन्धः = सुगन्धियुक्त है; तथापि = फिर भी, श्मशानवीथ्याम् = मरघट की गली ( मार्ग ) में, जातः = उत्पन्न हुये, चम्पकवृक्षः इव = चम्पा के पौधे के समान, लोकस्य = लोगों के लिये, अनभिगमनीयः = त्याज्य है ।। २६ ।।

अर्थ—ऐसी बात नहीं है [ अर्थात् मुझे इसके विषय में इतना अच्छा नहीं सोंचना चाहिये । ] यद्यपि यह साफ, चिकना और सुगन्धित है । फिर भी मरघट की गली में उत्पन्न चम्पा के पौधा के समान यह लोगों के लिये त्याज्य है ।। २६ ।।

टीका--तपश्चरणेन वसन्तसेनाया भ्रातृपदं लभ्यते इति मम चिन्तनं नोपयुक्तमिति तस्य त्याज्यत्वं निरूपयन्नाह—मा तावदिति । यद्यपि, एषः = सम्मुखीनः वसन्तसेनाभ्राता, उज्ज्वलः = स्वच्छः, गौरवर्ण इति भावः, स्निग्धः = तैलादिभिः चिक्कणः, च, सुगन्धः = सौगन्धिकद्रव्यैः समलङ्कृतश्चास्ति; तथापि, श्मशानवीथ्याम् = श्मशानमार्गे, जातः = उत्पन्नः, चम्पकवृक्षः = चम्पानामक-पुष्पविशेषवृक्षः, इव = यथा, लोकस्य = सामाजिकस्य, अनभिगमनीयः = स्पर्शायोग्यः, अग्राह्य इति भावः, भवति, तथैव वेश्याजातत्वादयमपि समाजे अस्वीकार्यः ।। २६ ।।

विमर्शः—प्रस्तुत अंश का कुछ संस्करणों में गद्य के रूप में भी प्राप्त होता है । परन्तु शैली के अनुसार इसे पद्य ही मानना ठीक है ।।२६।।

१६ मृ०