मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 409, कुल 760 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ३२१
संन्यासः कुलदूषणैरिव जनैर्मेघैर्वृतश्चन्द्रमाः । विद्युन्नीचकुलोद्गतेव युवतिर्नैकत्र सन्तिष्ठते ॥ १४ ॥
अन्वयः—धाराहताः, पंकक्लिन्नमुखाः, दर्दुराः, सलिलम्, पिबन्ति, समदनः, बर्हिणः, कण्ठम् मुञ्चति; नीपः, प्रदीपायते; कुलदूषणैः, जनैः, संन्यासः, इव, मेघैः, चन्द्रमाः, वृतः, नीचकुलोद्गता, युवतिः, इव; विद्युत्, एकत्र, न, सन्तिष्ठते ॥ १४ ॥
शब्दार्थ—धाराहताः = जलधाराओं से ताडित, पंकक्लिन्नमुखाः = कीचड़ से व्याप्त मुख वाले, दर्दुराः = मेढक, सलिलम् = पानी, पिबन्ति = पीते हैं। समदनः = कामातुर, मस्त, बर्हिणः = मोर, कण्ठम् = कण्ठध्वनि को, मुञ्चति = छोड़ रहा है, अर्थात् बोल रहा है, नीपः = कदम्बवृक्ष, प्रदीपायते = दीपक के समान प्रतीत हो रहा है। कुलदूषणैः = वंश को दूषित करने वाले, जनैः = लोगों के द्वारा, संन्यासः = संन्यास, इव = के समान, मेघैः = बादलों के द्वारा, चन्द्रमाः = चन्द्रमा, वृतः = ढक दिया गया है, नीचकुलोद्गता = नीच कुल में उत्पन्न होने वाली, युवतिः = युवती स्त्री, इव = के समान, विद्युत् = बिजली, एकत्र = एक स्थान पर, न = नहीं, सन्तिष्ठते = स्थिर रह रही है ॥ १४ ॥
अर्थ—और भी -
जल की धाराओं से ताड़ित, कीचड़ से लिप्त मुखवाले मेढक [ बरसात का ] पानी पी रहे हैं। कामातुर मोर आवाज कर रहा है। कदम्ब का पेड़ [ अपने फूलों से ] दीपक के समान प्रतीत हो रहा है। कुल को कलङ्कित करने वाले लोगों के द्वारा संन्यास के समान बादलों के द्वारा चन्द्रमा को ढक लिया गया है। नीच कुल में पैदा होने वाली स्त्री के समान बिजली किसी एक जगह नहीं ठहर रही है ॥ १४ ॥
टीका—अभिसारे सहायकं वर्षाकालमेव वर्णयति-पङ्कक्लिन्नेति । पङ्कक्लिन्नमुखाः = पङ्केन = कर्दमेन क्लिन्नानि = व्याप्तानि मुखानि येषां ते, धाराभिः = वर्षाजलधाराभिः, आहताः = ताडिताः, दर्दुराः = मण्डूकाः, सलिलम् = जलम्, पिबन्ति = गृह्णन्ति; समदनः = कामातुरः, बर्हिणः = मयूरः, कण्ठम् = कण्ठध्वनिम्, मुञ्चन्ति = त्यजति, केकारवं करोतीति भावः। नीपः = कदम्बवृक्षः, प्रदीपायते = पीतपुष्पैः दीप इवाचरति; कुलदूषणैः = कुलकलङ्कैः, जनैः = लोकैः, संन्यासः = यतिधर्मः, इव, मेघैः = वारिदैः, चन्द्रमाः = चन्द्रः, वृतः = पूर्वत्र कलङ्कितः, परत्र चाच्छादित, नीचकुले उद्गता = उत्पन्ना, युवतिः = यौवनसम्पन्ना नारी, इव, विद्युत्, एकत्र = एकस्मिन् स्थाने एव, न = नैव, सन्तिष्ठते = विराजते । ‘समवप्रविभ्यः स्थः’ १।३।२२ इत्यात्मनेपदम् । अत्रोपमालङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥
२१ मृ०