मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 411, कुल 760 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ३२३
**विटः—**भवतु एवं तावत्, उपालभ्यतां तावदियम्।
**वसन्तसेना—**भाव ! किमनया स्त्री-स्वभाव-दुविदग्धया उपालब्धया ।
पश्यतु भावः—
मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा ।
गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥
अपि, माम् = वसन्तसेनामित्यर्थः, मुहुः = वारं वारम्, निवारयन्ती = प्रियसंगमे अवरोधमुत्पादयन्ती, कुपिता = प्रणयकोपवती, सपत्नी, इव, निशा = रात्रिः, मम = वसन्तसेनायाः मार्गम्, रुणद्धि = आवृणोति । यथा काचित् सपत्नी प्रियसंगमे बाधामुत्थापयति तथैवेयं निशा मम चारुदत्तस्य च संगमे बाधामुत्थापयतीति बोध्यम् । अत्रोपमालङ्कारः, वसन्ततिलका वृत्तम् ॥ १५ ॥
**विमर्शः—**चारुदत्त के साथ अभिसार में विघ्न डालने वाली रात को सपत्नी के रूप में सुन्दर ढंग से चित्रित किया गया है ॥ १५ ॥
**अर्थ—विट-**अच्छा यही सही, इस रात को ही उलाहना दो ।
**वसन्तसेना—**स्त्रीस्वभाव से हठी होने के कारण इसको उपालम्भ देने से क्या [ लाभ ] ? भाव ! देखिये—
**अन्वयः—**मेघाः, वर्षन्तु, गर्जन्तु, अशनिम्, एव, वा, मुञ्चन्तु, [ किन्तु ] रमणाभिमुखाः, स्त्रियः, शीतोष्णम्, न, गणयन्ति ॥ १६ ॥
**शब्दार्थ—**मेघाः=बादल, वर्षन्तु=बरसें, गर्जन्तु=गरजें, वा=अथवा, अशनिम्=वज्र ( बिजली ) को, एव=ही, मुञ्चन्तु=गिरा दें; [किन्तु] रमणाभिमुखाः=रमण के लिये तैयार, स्त्रियः=स्त्रियाँ, शीतोष्णम्=सर्दी गर्मी, आग, पानी, न=नहीं, गणयन्ति=गिनतीं हैं ॥ १६ ॥
**अर्थ—**बादल बरसें, गरजें अथवा वज्र ( बिजली ) को ही गिरा दें [ किन्तु ] प्रेमी के साथ रमण के लिये तैयार स्त्रियाँ सर्दी और गर्मी को कुछ भी नहीं गिनती हैं, इनकी चिन्ता नहीं करतीं हैं ॥ १६ ॥
**टीका—**निशायाः मेघानां वा रमणे बाधकाभावत्वं घोषयति—मेघा इति । मेघाः=वारिदाः, वर्षन्तु=जलं कटन्तु, गर्जन्तु=नदन्तु, अशनिम्=वज्रम् एव, वा=अथवा, मुञ्चन्तु = परित्यजन्तु, किन्तु, रमणाभिमुखाः = पतिरमणे तत्पराः, स्त्रियः = नार्यः, शीतोष्णम् = शिशिरजाडद्यम्, ग्रीष्मसन्तापम्, वर्षणक्लेशञ्च न=नैव, गणयन्ति=प्रतिबन्धकत्वेन मन्यन्ते । पूर्वार्द्धे मेघस्यैकस्यानेकक्रियासम्बन्धात् दीपकालंकारः । उत्तरार्धे अप्रस्तुतप्रशंसा चेति बोध्यम् । पथ्यावक्त्रं वृत्तम् ॥ १६ ॥