मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 414, कुल 760 में से
संदर्भ में पढ़ें३२६ मृच्छकटिकम्
विटः—वसन्तसेने ! एवमेतत् । इदमपरं पश्य—
बलाका-पाण्डुरोष्णीषं विद्युदुत्क्षिप्तचामरम् । मत्त-वारण-सारूप्यं कर्त्तुकाममिवाम्बरम् ॥ १६ ॥
पर नमक छिड़कता हुआ सा क्यों 'वर्षा वर्षा' ऐसा बोल रहा है अर्थात् आवाज कर रहा है ? ॥ १८ ॥
टीका—वसन्तसेना मेघानामुद्द्दीपनत्वमेव वर्णयति—एतैरैवेति । यदा=यस्मिन् काले, यद्वा यतः हेतोरित्यर्थः एवञ्च तत् इत्यस्य तदा यद्वा ततः हेतोरित्यर्थो बोध्यः । गजेन्द्रवत् मलिनैः=मलिनवर्णैः, आध्मातानि=जलप्रपूरितानि, लम्बानि=अधोलम्ब-मानानि च उदराणि = मध्यभागाः येषां तादृशैः, तडिद्भिः वर्तमानाः, सतडितः, ते बलाकाः=बकाः, तैः=हेतुभूतैः, शबलैः=चित्रवर्णैः, गर्जद्भिः=ध्वनद्भिः, एतैः=पुरो दृश्यमानैः, मेघैः=वारिदैः, एव, मनः=विरहिणीनां चित्तम्, सशल्यम्=विरह-वेदनाशल्येन विद्धम्, हा हा-खेदबोधकमव्ययमिदम्, तत्=तस्मात् कारणात् तदा वा, प्रोषिताः=विदेशं प्रयाताः, भर्तारः=पतयो यासां ताः, तासाम्, वध्यपटहः=वधकाले वाद्यमानपटहतुल्यः, हता=नष्टा, आशा यस्य सः, भार्यरहितः, शठा = प्रतारण-शीला, बुद्धिः = मतिर्यस्य सः, बकः = बलाकः, क्षते = व्रणादौ, क्षारम्=लवणम्, प्रक्षिपन्=पातयन्, इव, किम् = कस्मात्, प्रावृट् प्रावृट् = वर्षा वर्षा इति ब्रवीति=वदति, तादृशध्वनिं करोतीति भावः । अत्र 'गजेन्द्रमलिनैः' अत्रोपमा' 'वध्यपटहः' अत्र रूपकम् 'क्षारं क्षते प्रक्षिपन्' इत्यत्र निदर्शना । एतेषां निरपेक्षतया संसृष्टि-रिति तत्त्वविदः । शार्दूलविक्रीडितं वृत्तम् ॥ १८ ॥
विमर्श—'प्रावृट् प्रावृडिति' इसका व्याख्यान प्रायः 'वर्षा वर्षा' ऐसा किया गया है । परन्तु यह तर्कसंगत नहीं है । यह बगुला की आवाज का अनुकरण है । उसकी आवाज के लिये ही इस शब्द का प्रयोग समझना चाहिये ॥ १८ ॥
अन्वयः—बलाकापाण्डुरोष्णीषम्, विद्युदुत्क्षिप्तचामरम्, अम्बरम्, मत्तवारण-सारूप्यम्, कर्तुकामम्, इव, [ पश्य—गद्यस्थेनान्वयः ] ॥ १६ ॥
शब्दार्थ—बलाकापाण्डुरोष्णीषम्=बक [ पंक्तिरूपी ] श्वेत पगड़ीवाले, गज-पक्ष में—बगुलों के समान सफेद पगड़ीवाले, विद्युदुत्क्षिप्तचामरम्=डुलाये जाते हुये बिजलीरूपी चामरवाले, गजपक्ष में-बिजली के समान डुलाये जाते हुये चामरवाले, अम्बरम्=आकाश को, मत्तवारणसारूप्यम् मतवाले हाथी की समानता को, कर्तु-कामम्=करने का इच्छुक, इव=सा, [ पश्य=देखो ] ॥ १६ ॥
अर्थ—विट—वसन्तसेना ! यह ठीक है । किन्तु इस दूसरे बादल को देखो—
बगुला [ की पंक्तिरूपी ) श्वेत पगड़ीवाले ( गजपक्ष में--बगुला के समान श्वेत पगड़ीवाले ), बिजलीरूपी चंचल चामरवाले ( गजपक्ष में--बिजली के