मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 418, कुल 760 में से
संदर्भ में पढ़ें| ३३० | मृच्छकटिकम् |
|---|
वसन्तसेना--भाव ! एसो अवरो ( भाव ! एष अपरः । )--
एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः प्रोड्डीयेव बलाक्या सरभसं सोत्कण्ठमालिङ्गितः । हंसैरुज्झित-पङ्कजैरतितरां सोद्वेगमुद्वीक्षितः कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥ २३ ॥
टीका--प्रस्तुतमेवार्थं प्रकारान्तरेण प्रतिपादयति—महावातेति । महावातेन= प्रचण्डवायुना, आध्मातः=शब्दितैः, [ आध्मातः शब्दिते दग्धे-इति मेदिनी ] यद्वा, परिपूरितैः, महिषाणां कुलम्=समूहः, तद्वत् नीलैः=श्यामैः, विद्युत:=चपला एव पक्षाः=सहायाः येषां तैः [ पक्षः पत्रं सहायोऽस्त्री-इत्यमरः ], अन्तः प्रचलितैः= अन्तः = अन्तरिक्षे गगनमध्ये वा, प्रचलितैः = आन्दोलितैः, यद्वा अन्तः क्षुब्धैः, जलधिभिः=समुद्रैः, इव=यथा, जलधरैः=वारिदैः [ कर्तृ पदमेतत् ], मणिमयशरैः= मणिनिर्मितवाणैः, तत्तुल्यैरिति भावः, [ करणपदे इमे ] धारापातैः = धाराप्रवाह-वर्षर्णैः, गन्धोद्दामा=गन्धेन उद्दामा=प्रथमवृष्ट्या जायमानगन्धविशिष्टा, नवैः= सद्यो जातैः, हरितैः=हरितवर्णैः, शष्पाणामङ्कुरैः युक्ता, इयम्=पुरोदृश्यमाना, धरा=पृथिवी, भिद्यते इव=छिद्यते, विदीर्यते इव । पूर्वार्धे=उपमा, उत्तरार्धे च उत्प्रेक्षालंकारः, शिखरिणी वृत्तम् ॥ २२ ॥
विमर्श—यहाँ मेघों को समुद्रों के समान बताया गया है । किन्तु आकाश में समुद्र का चित्रण तर्कसंगत नहीं है । गन्धोद्दामा-जब सबसे पहली वर्षा होती है, उस समय जमीन से एक उत्कट गन्ध निकलना सर्वानुभवसिद्ध है । शष्पाङ्कुर—इसकी व्याख्या 'संलग्नशरतुल्या' यह भी गयी है । उपमा, रूपक और उत्प्रेक्षा की संसृष्टि अलंकार है । शिखरिणी छन्द है ।। २२ ।।
अन्वयः—शिखण्डिनाम्, केकाभिः, एहि, एहि, इति, पटुतरम्, आक्रन्दितः, बलाक्या, सरभसम्, प्रोड्डीय, सोत्कण्ठम्, आलिङ्गितः, इव, उज्झितपंकजैः, हंसैः, सोद्वेगम्, अतितराम्, उद्वीक्षितः, [ एषः, अपरः ] मेघः, दिशः, अञ्जनमेचकाः, कुर्वन्, इव, समुत्तिष्ठति ॥ २३ ॥
शब्दार्थ--शिखण्डिनाम्=मोरों की, केकाभिः=आवाजों से, एहि एहि= इधर आओ, इधर आओ, इति=इस प्रकार, पटुतरम्=व्यक्ततर रूप से, आक्रन्दितः= बुलाया गया, बलाक्या=बगुली [ के समूह ] द्वारा, सरभसम्=वेग या हर्ष के साथ, प्रोड्डीय=आकाश में उड़कर, सोत्कण्ठम्=उत्सुकतासहित, आलिङ्गितः=आश्लिष्ट, इव=सा, उज्झितपङ्कजैः=कमलों को छोड़ने वाले, हंसैः=हंसों के द्वारा, सोद्वेगम्= उद्वेगसहित, अतितराम्=अत्यधिक, उद्वीक्षितः=देखा गया, [ एषः अपरः=यह