मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 421, कुल 760 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ३३३
वसन्तसेना—भाव ! एव्वं णेदं। ता पेक्ख पेक्ख—( भाव ! एवं न्विदम् । तत् प्रेक्षस्व प्रेक्षस्व— )
गता नाशं तारा उपकृतमसाधाविव जने वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः। प्रकामान्तस्तप्तं त्रिदशपति-शस्त्रस्य शिखिना द्रवीभूतं मन्ये पतति जलरूपेण गगनम् ॥ २५ ॥
सम्प्रति = इदानीम्, निश्चेष्टम् = निष्क्रियं सत्, स्वपिति इव = शेते इव । अत्र रूपक-मुत्प्रेक्षा च । शार्दूलविक्रीडितं वृत्तम् ॥ २४ ॥
विमर्श— दुर्दिन में जैसे कोई अपने घर के भीतर वस्त्रादि ओढ़ कर सो जाता है । उसी प्रकार सारा संसार भी क्रियाशून्य होकर सो रहा है ॥ २४ ॥
अन्वयः— असाधौ, जने, उपकृतम्, इव, तारा, नाशम्, गता, कान्तेन, वियुक्ताः, स्त्रियः, इव, ककुभः, न, राजन्ति, त्रिदशपतिशस्त्रस्य, शिखिना, प्रकामान्त-स्तप्तम्, गगनम्, द्रवीभूतम्, ( सत् ), जलरूपेण, पतति, मन्ये ॥ २५ ॥
शब्दार्थ— असाधौ = दुष्ट, जने = व्यक्ति के विषय में, उसके लिये, उपकृतम् = उपकार, इव = के समान, तारा = तारागण, नाशम् = अभाव, अदर्शन को, गताः = प्राप्त हो गये; वियुक्ताः = पतियों से रहित, स्त्रियः इव = स्त्रियों के समान, ककुभः = दिशायें, न = नहीं, राजन्ति = शोभित हो रही हैं, त्रिदशपतिशस्त्रस्य = देवराज इन्द्र के शस्त्रभूत वज्र की, शिखिना = आग से, प्रकामान्तस्तप्तम् = अत्यन्त सन्तप्त, गगनम् = आकाश, द्रवीभूतम् = पिघला, ( सत् = होता हुआ ), जलरूपेण = पानी के रूप से, पतति = गिर रहा है, मन्ये = मैं समझ रही हूँ ॥ २५ ॥
अर्थ—वसन्तसेना— भाव ऐसा होता है, देखो, देखो—
दुर्जन व्यक्ति के विषय में किये गये उपकार के समान तारागण [ आकाश से ] विलीन हो गये हैं । पतियों से रहित स्त्रियों के समान दिशायें शोभित नहीं हो रहीं हैं । देवराज इन्द्र के वज्ररूपी शस्त्र की आग से भीतर खूब सन्तप्त यह बादल पिघला हुआ होकर मानो जलरूप से गिर रहा है ॥ २५ ॥
टीका— विटोक्तिं समर्थयमाना वसन्तसेना प्राकृतिकं दृश्यं वर्णयति —गता इति । असाधौ = दुष्टे, जने = लोके, तद्विषय इति भावः, उपकृतम् = उपकार, इव, तारा = नक्षत्रसमूहः, नाशम् = अभावम्, गता = प्राप्ता, दुष्टाय कृत उपकारो यथा व्यर्थस्तैव आकाशस्थिता तारा अपि व्यर्थीभूताः । वियुक्ताः = पतिविरहिताः स्त्रियः = नार्यः, इव = यथा, ककुभः = दिशाः, न = नैव, राजन्ति = शोभन्ते, त्रिदशपत्युः = देव-राजस्य, शस्त्रम् = वज्रम् तस्य, शिखिना = अग्निना, प्रकामम् = अत्यन्तम्, अन्तस्तप्तम् = अभ्यन्तरसन्तप्तम्, गगनम् = अम्बरम्, द्रवीभूतम् = द्रवरूपं प्राप्तम्, सत् जलरूपेण =