भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 426, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 426

३३८ | मृच्छकटिकम्

अपि च—यद्वदहल्याहेतोर्मृषा वदसि शक्र ! गौतमोऽस्मीति । तद्वन्ममापि दुःखं निरवेक्ष्य निवार्यतां जलदः ॥ ३० ॥

**सेना—किमिति । भोः शक्र !=**हे इन्द्र ! इति गद्यस्थेनान्वयः कार्यः, अहम् = वसन्तसेना, **ते =**तव, इन्द्रस्येत्यर्थः, **पूर्वम्=**पूर्वस्मिन् काले कदाचिदपीत्यर्थः, रतौ = अनुरागे, **प्रसक्ता=**आसक्ता, ( आसम् ) किम्, यद्वा पूर्वजन्मनि तव प्रणयिनी आसम्, **किम्, यत्=**यस्मात्, **त्वम्=**इन्द्रः, **अम्बुदसिंहनादैः—**अम्बुदशब्दो लक्षणया अम्बुदनादपरः, अम्बुदनादा एव सिंहनादाः तैः, मेघगर्जनरूपसिंहनादैरिति भावः, नदसि= शब्दायसे; पाठं पठसीतिवत् प्रयोगः; **प्रियकाङ्क्षितायाः=**प्रियेण चारुदत्तेन अभिलषितायाः, यद्वा, एषः प्रियः रत्यर्थं काङ्क्षितः यया सा तस्याः, **मम=**वसन्तसेनायाः, **मार्गम्=**पन्थानम्, **वर्षपातैः=**जलधारासम्पातैः, **निरोद्धुम्=**अवरोद्धुम्, **न=**नैव, **युक्तम्=**उचितम्, **एतत्=**इदम्, विचिन्त्येति शेषः । अत्र काव्यलिङ्गमलङ्कारः उपजातिः वृत्तम् ॥ २६ ॥

**विमर्शः—अम्बुदसिंहनादैः—**यहाँ अम्बुद की लक्षणा अम्बुदनाद में करके अम्बुदनादरूपी सिंहनाद—यह अर्थ करना चाहिये । **अम्बुदसिंहनादैः नदसि—**यहाँ पाठं पठसि के समान उपपादन करना चाहिये । **प्रियकाङ्क्षतायाः—**पद का सामान्य अर्थ है— ‘प्रियेण काङ्क्षितायाः’ परन्तु प्रकृत कथानक के द्वारा इस समय वसन्तसेना ही अभिसार के लिये उत्सुक है । अतः बहुव्रीहि करना ही उचित है – प्रियः काङ्क्षितः यया सा तस्याः । कहीं-कहीं एतत् को भी समास में ही माना गया है वहाँ—**एषः=**समीपवर्त्ती प्रियः आदि अन्वय करना चाहिये । ‘मार्गम्’ के साथ ‘एतत्’ का अन्वय उचित नहीं है । इसीलिये कुछ विद्वान इसे अलग रखकर ‘विचिन्त्य’ आदि क्रियापद के अध्याहार के पक्ष में हैं जो अधिक तर्कसंगत है । तुमुन् का प्रयोग खटकता है क्योंकि क्रियाफलक क्रिया उपपद रहते ही तुमुन् का विधान है । अतः ‘इष्यते’ आदि का अध्याहार करना चाहिये ‘निरोद्धुम् इष्यते यत् तत् न युक्तम्’ ॥ २६ ॥

अन्वयः— हे शक्र !, अहल्याहेतोः, यद्वत्, ‘गौतमः, अस्मि, इति’, मृषा, वदसि, तद्वत्, मम, अपि, दुःखम्, निरवेक्ष्य, जलदः, निवार्यताम् ॥ ३० ॥

शब्दार्थ— हे **शक्र !=**हे इन्द्र, अहल्याहेतोः = गौतम की पत्नी अहल्या [ के साथ रति करने ] के लिये, यद्वत् = जिस प्रकार, गौतमः अस्मि = मैं गौतम हूँ, **इति=**ऐसा, **मृषा=**असत्य, **वदसि=**बोलते हो [ बोले थे ], **तद्वत्=**उसी प्रकार, **मम अपि=**मुझ वसन्तसेना का भी, **दुःखम्=**कष्ट, **निरवेक्ष्य=**देख कर, **जलदः=**बादल को, **निवार्यताम्=**हटा दो ॥ ३० ॥