भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 440, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 440
३५२मृच्छकटिकम्

विदूषकः—( सहर्षम् । ) भो वअस्स ! तं ज्जेव एदं सुवण्णभण्डअं जं अम्हाणं गेहे चोरेहिं अवहिदं । ( भो वयस्य ! तदेवैतत् सुवर्णभाण्डकम्, यदस्माकं गेहे चौरैरपहृतम् । )

**चारुदत्तः—**वयस्य !

योऽस्माभिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् ।
स एव प्रस्तुतोऽस्माकं किन्तु सत्यं विडम्बना ॥ ३९ ॥


विदूषक—( खुशी के साथ ) मित्र ! यह वही सुवर्णभाण्ड है जिसे चोरों ने हम लोगों के घर से चुराया था ।

**टीका—**प्रधानवाससी=उत्कृष्टवस्त्रे, चन्द्रस्य आलोकः=प्रकाश-चन्द्रालोकः, प्रनष्टः=अविद्यमानः चन्द्रालोकः यस्मिन् तादृशे, दुर्दिनान्धकारे = मेघाच्छन्नं तु दुर्दिनम्, तादृशेव समुत्पन्ने तमसि, ऋजुकः=सरलः । अल्पं मूल्यं यस्याः सा=अल्पमूल्या, सुवर्णभाण्डापेक्षया न्यूनमूल्येति भावः । अपरम्=अधिकं मूल्यमित्यर्थः । सभिकः=प्रधानद्यूतकरः । राजवार्ताहारी=राजसन्देशवाहकः । मन्त्रितमेव=विदूषकेण पूर्वमुक्तमेव । निध्यायति='ध्यै चिन्तायाम्' अस्य निपूर्वस्य रूपम् । अतिमात्रं विचारयन् पश्यतीति भावः । दृष्टपूर्वं = पूर्वं दृष्टः, शिल्पकुशलतया = शिल्पस्य=निर्माणस्य कौशलेन, अवबध्नाति=आकर्षति ।

**अन्वयः—**अस्माभिः, न्यासप्रतिक्रियाम्, कर्तुम्, यः, व्याजः, चिन्तितः, स, एव, अस्माकम्, प्रस्तुत:, किन्तु, सत्यम्, [ इयम् ], विडम्बना ॥ ३९ ॥

**शब्दार्थ—**अस्माभिः=हम लोगों [ चारुदत्त आदि ] ने, न्यासप्रतिक्रियाम्=धरोहर का बदला देने की सुवर्णभाण्ड की क्षति की पूर्ति को, कर्तुम्=करने के लिये, यः=जिस, व्याजः = बहाने को, चिन्तितः=सोंचा था, सः=वह, एव=ही, अस्माकम्=हम लोगों के लिये, प्रस्तुत:=उलटा उपस्थित हो गया, किन्तु=लेकिन, सत्यम्=सच है, ( इयम्=यह ), विडम्बना=प्रतारणा=धोखेबाजी है ॥ ३९ ॥

**अर्थ—चारुदत्त—**मित्र !

हम लोगों ने उस धरोहर (सुवर्णभाण्ड) की क्षतिपूर्ति करने के लिये जो बहाना सोंचा था, वही बहाना हमारे सामने भी उपस्थित हो गया, किन्तु यह सच है, यह विडम्बना है ॥ ३९ ॥

**टीका—**तदेवेदं सुवर्णभाण्डं वसन्तसेनयोपन्यस्तमिति विदूषकात् श्रुत्वा पूर्व-विहिता वञ्चना वसन्तसेनया ज्ञातेति विचिन्त्याह—योऽस्मेति । अस्माभिः = चारुदत्तादिभिः, न्यासस्य प्रतिक्रियाम् = वसन्तसेनोपनिहितवस्तुनः प्रतिशोधम्, कर्तुम्=विधातुम्, यः व्याजः=य उपविः, छलं वा, चिन्तितः=विचारितः, अस्माकम्=न्यासप्रत्यर्पणोपायमन्वेषमाणानाम्, सः = पूर्वमनुसृतः व्याजः, एव, प्रस्तुत:=अन्य-